भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 155

155.1

कपिलतीर्थम् आख्यातं तद् एवाङ्गिरसं स्मृतम्
तद् एवादित्यम् आख्यातं सैंहिकेयं तद् उच्यते ॥

155.2

गौतम्या दक्षिणे पारे आदित्यान् मुनिसत्तम
अयाजयन्न् अङ्गिरसो दक्षिणां ते भुवं ददुः ॥

155.3

अङ्गिरोभ्यस् तदादित्यास् तपसे ऽङ्गिरसो ययुः
सा भूमिः सैंहिकी भूत्वा जनान् सर्वान् अभक्षयत् ॥

155.4

तत्रसुस् ते जनाः सर्वे अङ्गिरोभ्यो न्यवेदयन्
विभीता ज्ञानतो ज्ञात्वा भुवं तां सैंहिकीम् इति ॥

155.5

आदित्यान् अनुगत्वाथ वाचम् अङ्गिरसो ऽब्रुवन्
भुवं गृह्णन्तु या दत्ता नेत्य् आदित्यास् तदाब्रुवन् ॥

155.6

निवृत्तां दक्षिणां नैव प्रतिगृह्णन्ति सूरयः
स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ॥

155.7

षष्टिर् वर्षसहस्राणि विष्ठायां जायते कृमिः
भूमेः स्वपरदत्ताया हरणान् नाधिकं क्वचित् ॥

155.8

पापम् अस्ति महारौद्रं न स्वीकुर्मः पुनस् तु ताम्
एवं यदा स्वदत्ताया हरणे किं तदा भवेत् ॥

155.9

तथापि क्रयरूपेण गृह्णीमो दक्षिणां भुवम्
तथेत्य् उक्ते तु ते देवाः कपिलां शुभलक्षणाम् ॥

155.10

गङ्गाया दक्षिणे पारे भुवः स्थाने तु तां ददुः
भुक्तिमुक्तिप्रदः साक्षाद् विष्णुस् तिष्ठति मूर्तिमान् ॥

155.11

कपिलासंगमं तच् च सर्वाघौघविनाशनम्
तत्राभवद् दानतोयाद् आपगा कपिलाभिधा ॥

155.12

सस्यवत्या अपि भुवो दानाद् गोदानम् उत्तमम्
लोकरक्षां चकारासौ कृत्वा विनिमयं मुनिः ॥

155.13

यत्र तीर्थे च तद् वृत्तं गोतीर्थं तद् उदाहृतम्
पुण्यदं तत्र तीर्थानां शतम् उक्तं मनीषिभिः ॥

155.14

तत्र स्नानेन दानेन भूमिदानफलं लभेत्
संगता गङ्गया तच् च कपिलासंगमं विदुः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc