ब्रह्म पुराण · अध्याय 154
सहस्रकुण्डम् आख्यातं तीर्थं वेदविदो विदुः
यस्य स्मरणमात्रेण सुखी संपद्यते नरः ॥
पुरा दाशरथी रामः सेतुं बद्ध्वा महार्णवे
लङ्कां दग्ध्वा रिपून् हत्वा रावणादीन् रणे शरैः ॥
वैदेहीं च समासाद्य रामो वचनम् अब्रवीत्
पश्यत्सु लोकपालेषु तस्याचार्ये पुरः स्थिते ॥
अग्नौ शुद्धिगतां सीतां रामो लक्ष्मणसंनिधौ
एहि वैदेहि शुद्धासि अङ्कम् आरोढुम् अर्हसि ॥
नेत्य् उवाच तदा श्रीमान् अङ्गदो हनुमांस् तथा
अयोध्यायां तु वैदेहि सार्धं यामः सुहृज्जनैः ॥
तत्र शुद्धिम् अवाप्याथ पुनर् भ्रातृषु मातृषु
लौकिकेष्व् अपि पश्यत्सु ततः शुद्धा नृपात्मजा ॥
अयोध्यायां सुपुण्ये ऽह्नि अङ्कम् आरोढुम् अर्हसि
अस्याश् चरित्रविषये संदेहः कस्य जायते ॥
लोकापवादस् तद् अपि निरस्यः स्वजनेषु हि
तयोर् वाक्यम् अनादृत्य लक्ष्मणः सविभीषणः ॥
रामश् च जाम्बवांश् चैव ताम् आह्वयन् नृपात्मजाम्
स्वस्तीत्य् उक्ता देवताभी राज्ञो ऽङ्कं चारुरोह सा ॥
मुदितास् ते ययुः शीघ्रं पुष्पकेण विराजता
अयोध्यां नगरीं प्राप्य तथा राज्यं स्वकं तु यत् ॥
मुदितास् ते ऽभवन् सर्वे सदा रामानुवर्तिनः
ततः कतिपयाहेषु अनार्येभ्यो विरूपिकाम् ॥
वाचं श्रुत्वा स तत्याज गुर्विणीं ताम् अयोनिजाम्
मिथ्यापवादम् अपि हि न सहन्ते कुलोन्नताः ॥
वाल्मीकेर् मुनिमुख्यस्य आश्रमस्य समीपतः
तत्याज लक्ष्मणः सीताम् अदुष्टां रुदतीं रुदन् ॥
नोल्लङ्घ्याज्ञा गुरूणाम् इत्य् असौ तद् अकरोद् भिया
ततः कतिपयाहेषु व्यतीतेषु नृपात्मजः ॥
रामः सौमित्रिणा सार्धं हयमेधाय दीक्षितः
तत्रैवाजग्मतुर् उभौ रामपुत्रौ यशस्विनौ ॥
लवः कुशश् च विख्यातौ नारदाव् इव गायकौ
रामायणं समग्रं तद् गन्धर्वाव् इव सुस्वरौ ॥
रामस्य चरितं सर्वं गायमानौ समीयतुः
यज्ञवाटं राजसुतौ हेतुभिर् लक्षितौ तदा ॥
रामपुत्राव् उभौ शूरौ वैदेह्यास् तनयाव् इति
ताव् आनीय ततः पुत्राव् अभिषिच्य यथाक्रमम् ॥
अङ्कारूढौ ततः कृत्वा सस्वजे तौ पुनः पुनः
संसारदुःखखिन्नानाम् अगतीनां शरीरिणाम् ॥
पुत्रालिङ्गनम् एवात्र परं विश्रान्तिकारणम्
मुहुर् आलिङ्ग्य तौ पुत्रौ मुहुः स्वजति चुम्बति ॥
किम् अप्य् अन्तर् ध्यायति च निःश्वसत्य् अपि वै मुहुः
एतस्मिन्न् अन्तरे प्राप्ता राक्षसा लङ्कवासिनः ॥
सुग्रीवो हनुमांश् चैव अङ्गदो जाम्बवांस् तथा
अन्ये च वानराः सर्वे विभीषणपुरःसराः ॥
ते चागत्य नृपं प्राप्ताः सिंहासनम् उपस्थितम्
सीताम् अदृष्ट्वा हनुमान् अङ्गदः कनकाङ्गदः ॥
क्व गतायोनिजा माता एको रामो ऽत्र दृश्यते
रामेण सा परित्यक्ता इत्य् ऊचुर् द्वारपालकाः ॥
पश्यत्सु लोकपालेषु आर्ये तत्र प्रवादिनि
अग्नौ शुद्धिगतां सीतां किं तु राजा निरङ्कुशः ॥
उत्पन्नैर् लौकिकैर् वाक्यै रामस् त्यजति तां प्रियाम्
मरिष्याव इति ह्य् उक्त्वा गौतमीं पुनर् ईयतुः ॥
रामस् तौ पृष्ठतो ऽभ्येत्य अयोध्यावासिभिः सह
आगत्य गौतमीं तत्र ऽकुर्वंस् ते परमं तपः ॥
स्मारं स्मारं निश्वसन्तस् तां सीतां लोकमातरम्
संसारास्थाविरहिता गौतमीसेवनोत्सुकाः ॥
लोकत्रयपतिः साक्षाद् रामो ऽनुजसमन्वितः
प्राप्तः स्नात्वा च गौतम्यां शिवाराधनतत्परः ॥
परितापं जहौ सर्वं सहस्रपरिवारितः
यत्र चासीत् स वृत्तान्तः सहस्रकुण्डम् उच्यते ॥
दशापराणि तीर्थानि तत्र सर्वार्थदानि च
तत्र स्नानं च दानं च सहस्रफलदायकम् ॥
यत्र श्रीगौतमीतीरे वसिष्ठादिमुनीश्वरैः
सर्वापत्तारकं होमम् अकारयद् अघान्तकम् ॥
सहस्रसंख्यायुक्तेषु कुण्डेषु वसुधारया
सर्वान् अपेक्षितान् कामान् अवापासौ महातपाः ॥
गौतम्याः सरिदम्बायाः प्रसादाद् राक्षसान्तकः
सहस्रकुण्डाभिधं तद् अभूत् तीर्थं महाफलम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0