भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 153

153.1

भावतीर्थम् इति प्रोक्तं यत्र साक्षाद् भवः स्थितः
अशेषजगदन्तस्थो भूतात्मा सच्चिदाकृतिः ॥

153.2

तत्रेमां शृणु वक्ष्यामि कथां पुण्यतमां शुभाम्
सूर्यवंशकरः श्रीमान् क्षत्रियाणां धुरंधरः ॥

153.3

प्राचीनबर्हिर् आख्यातः सर्वधर्मेषु पारगः
तिस्रः कोट्यो ऽर्धकोटिश् च वर्षाणां राज्य आस्थितः ॥

153.4

तस्येदृशं व्रतं चासीद् यद् अहं यौवनच्युतः
भवेयं प्रियया वापि पुत्रैर् वा प्रियवस्तुभिः ॥

153.5

वियुज्येयं ततो राज्यं त्यक्ष्ये ऽहं नात्र संशयः
विवेकिनां कुलीनानाम् इदम् एवोचितं नृणाम् ॥

153.6

स्थीयते विजने क्वापि विरक्तैर् विभवक्षये
तस्मिन् प्रशासति महीं न वियोगः प्रियैः क्वचित् ॥

153.7

नाधिव्याधी न दुर्भिक्षं न बन्धुकलहो नृणाम्
तस्मिञ् शासति राज्यं तु न च कश्चिद् वियुज्यते ॥

153.8

ततः पुत्रार्थम् अकरोद् यज्ञं राजा महामतिः
ततः प्रसन्नो भगवान् वरं प्रादाद् यथेप्सितम् ॥

153.9

गौतमीतीरसंस्थाय राज्ञे देवो महेश्वरः
पुत्रं देहीति राजा वै भवं प्राह स भार्यया ॥

153.10

भवः प्राह नृपं प्रीत्या पश्य नेत्रं तृतीयकम्
ततः पश्यति राजेन्द्रे भवस्याक्षि तु मानद ॥

153.11

चक्षुर्दीप्त्याभवत् पुत्रो महिमा नाम विश्रुतः
येनाकारि स्तुतिः पुण्या महिम्न इति विश्रुता ॥

153.12

किम् अलभ्यं भगवति प्रसन्ने त्रिपुरान्तके
यं नित्यम् अनुवर्तन्ते हरिब्रह्मादयः सुराः ॥

153.13

प्राप्तपुत्रश् च नृपतिस् तीर्थश्रैष्ठ्यम् अयाचत
महापापमहारोग महाव्यसनिनां नृणाम् ॥

153.14

नानाविपद्गणार्तानां सर्वाभिमतलब्धये
प्रादाज् ज्यैष्ठ्यं भवश् चापि भावतीर्थं तद् उच्यते ॥

153.15

तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात्
भवप्रसादाद् अभवत् सुतः प्राचीनबर्हिषः ॥

153.16

महिमा गौतमीतीरे भावतीर्थं तद् उच्यते
तत्र सप्तति तीर्थानि पुण्यान्य् अखिलदानि च ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc