भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 152

152.1

नन्दीतटम् इति ख्यातं तीर्थं वेदविदो विदुः
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥

152.2

अत्रिपुत्रो महातेजाश् चन्द्रमा इति विश्रुतः
सर्वान् वेदांश् च विधिवद् धनुर्वेदं यथाविधि ॥

152.3

अधीत्य जीवात् सर्वाश् च विद्याश् चान्या महामते
गुरुपूजां करोमीति जीवम् आह स चन्द्रमाः
बृहस्पतिस् तदा प्राह चन्द्रं शिष्यं मुदान्वितः ॥

152.4

मम प्रिया तु जानीते तारा रतिसमप्रभा ॥

152.5

प्रष्टुं तां च तदा प्रायाद् अन्तर् वेश्म स चन्द्रमाः
तारां तारामुखीं दृष्ट्वा जगृहे तां करेण सः ॥

152.6

स्ववेश्म प्रति तां लोभाद् बलाद् आकर्षयत् तदा
तावद् धैर्यनिधिर् ज्ञानी मतिमान् विजितेन्द्रियः ॥

152.7

यावन् न कामिनीनेत्र वागुराभिर् निबध्यते
विशेषतो रहःसंस्थां कामिनीम् आयतेक्षणाम् ॥

152.8

विलोक्य न मनो याति कस्य कामेषु वश्यताम्
अत एवान्यपुरुष दर्शनं न कदाचन ॥

152.9

कुलवध्वा रहः कार्यं भीतया शीलविप्लुतेः
विज्ञाय तत् परिजनात् सहसोत्थाय निर्गतः ॥

152.10

दृष्ट्वा तद् दुष्कृतं कर्म बृहस्पतिर् उदारधीः
शशाप कोपाच् चाक्षिप्य वाग्भिर् विप्रियकारिभिः ॥

152.11

पराभिभूताम् आलोक्य कान्तां कः सोढुम् ईश्वरः
युयुधे तेन जीवो ऽपि देवश् चन्द्रमसा रुषा ॥

152.12

न शापैर् हन्यते चन्द्रो नायुधैः सुरमन्त्रितैः
बृहस्पतिप्रणीतैश् च न मन्त्रैर् हन्यते शशी ॥

152.13

तदा चन्द्रस् तु तां तारां नीत्वा संस्थाप्य मन्दिरे
बुभुजे बहुवर्षाणि रोहिणीं चाकुतोभयः ॥

152.14

न जीयेत तदा देवैर् न कोपैः शापमन्त्रकैः
न राजभिर् न ऋषिभिर् न साम्ना भेददण्डनैः ॥

152.15

यदा भार्यां न लेभे ऽसौ गुरुः सर्वप्रयत्नतः
सर्वोपायक्षये जीवस् तदा नीतिम् अथास्मरत् ॥

152.16

अपमानं पुरस्कृत्य मानं कृत्वा तु पृष्ठतः
स्वार्थम् उद्धरते प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥

152.17

साध्यं केनाप्य् उपायेन जानद्भिः पुरुषैः फलम्
वृथाभिमानिनः शीघ्रं विपद्यन्ते विमोहिताः ॥

152.18

एवं निश्चित्य मेधावी शुक्रं गत्वा न्यवेदयत्
तम् आगतं कविर् ज्ञात्वा संमानेनाभ्यनन्दयत् ॥

152.19

उपविष्टं सुविश्रान्तं पूजितं च यथाविधि
पर्यपृच्छद् दैत्यगुरुस् तदागमनकारणम् ॥

152.20

गृहागतस्य विमुखाः शत्रवो ऽप्य् उत्तमा नहि
तस्मै स विस्तरेणाह भार्याहरणम् आदितः ॥

152.21

बृहस्पतेस् तदा वाक्यं श्रुत्वा कोपान्वितः कविः
अपराधं तु चन्द्रस्य मेने शिष्यस्य नारद
अतिक्रमम् इमं श्रुत्वा कोपात् कविर् अथाब्रवीत् ॥

152.22

तदा भोक्ष्ये तदा पास्ये तदा स्वप्स्ये तदा वदे
यदानये प्रियां भ्रातस् तव भार्यां परार्दिताम् ॥

152.23

ताम् आनीय भवं पूज्य चन्द्रं शप्त्वा गुरुद्रुहम्
पश्चाद् भोक्ष्ये महाबाहो शृणु वाचं ग्रहेश्वर ॥

152.24

एवम् उक्त्वा स जीवेन दैत्याचार्यो जगाम ह
शिवम् आराध्य यत्नेन परं सामर्थ्यम् आप्तवान् ॥

152.25

वरान् अवाप्य विविधाञ् शंकराद् भावपूजितात्
शिवप्रसादात् किं नाम देहिनाम् इह दुर्लभम् ॥

152.26

जगाम शुक्रो जीवेन तारया यत्र चन्द्रमाः
वर्तते तं शशापोच्चैः शृणु त्वं चन्द्र मे वचः ॥

152.27

यस्मात् पापतरं कर्म त्वया पाप मदात् कृतम्
कुष्ठी भूयास् ततश् चन्द्रं शशापैवं रुषा कविः ॥

152.28

कविशापप्रदग्धो ऽभूत् तदैव मृगलाञ्छनः
प्रापुः क्षयं न के नाम गुरुस्वामिसखिद्रुहः ॥

152.29

तत्याज तां स चन्द्रो ऽपि तां तारां जगृहे कविः
शुक्रो ऽपि देवान् आहूय ऋषीन् पितृगणांस् तथा ॥

152.30

नदीर् नदांश् च विविधान् ओषधीश् च पतिव्रताः
ततः संप्रष्टुम् आरेभे तारावृत्तविनिष्क्रयम् ॥

152.31

ततः श्रुतिः सुरान् आह गौतम्यां भक्तितस् त्व् इयम्
स्नानं करोतु जीवेन तारा पूता भविष्यति ॥

152.32

रहस्यम् एतत् परमं न कथ्यं यस्य कस्यचित्
सर्वास्व् अपि दशास्व् एह शरणं गौतमी नृणाम् ॥

152.33

तथाकरोच् चैव तारा भर्त्रा स्नानं यथाविधि
पुष्पवृष्टिर् अभूत् तत्र जयशब्दो व्यवर्तत ॥

152.34

पुनर् वै देवा अददुः पुनर् मनुष्या उत
राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर् ददुः ॥

152.35

पुनर् दत्त्वा ब्रह्मजायां कृतां देवैर् अकल्मषाम्
सर्वं क्षेमम् अभूत् तत्र तस्मात् तीर्थं महामुने ॥

152.36

पुनर् दत्त्वा ब्रह्मजायां कृतां देवैर् अकल्मषाम् सर्वं क्षेमम् अभूत् तत्र तस्मात् तीर्थं महामुने
तद् अभूत् सकलाघौघध्वंसनं सर्वकामदम् आनन्दं क्षेमम् अभवत् सुराणाम् असुरारिणाम्

152.37

बृहस्पतेश् च शुक्रस्य तारायाश् च विशेषतः
परमानन्दम् आपन्नो गुरुर् गङ्गाम् अभाषत ॥

152.38

त्वं गौतमि सदा पूज्या सर्वेषाम् अपि मुक्तिदा
विशेषतस् तु सिंहस्थे मयि त्रैलोक्यपावनी ॥

152.39

भविष्यसि सरिच्छ्रेष्ठे सर्वतीर्थैः समन्विता
यानि कानि च तीर्थानि स्वर्गमृत्युरसातले
त्वां स्नातुं तानि यास्यन्ति मयि सिंहस्थिते ऽम्बिके ॥

152.40

धन्यं यशस्यम् आयुष्यम् आरोग्यश्रीविवर्धनम्
सौभाग्यैश्वर्यजननं तीर्थम् आनन्दनामकम् ॥

152.41

तत्र पञ्च सहस्राणि तीर्थान्य् आह स गौतमः
स्मरणात् पठनाद् वापि इष्टैः संयुज्यते सदा ॥

152.42

शिवस्यात्र निविष्टस्य नन्दी गङ्गातटे ऽनिशम्
साक्षाच् चरत्य् असौ धर्मस् तस्मान् नन्दीतटं स्मृतम्
आनन्दम् अपि तत् तीर्थं सर्वानन्दविवर्धनात् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc