भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 142

142.1

देवस्थानम् इति ख्यातं तीर्थं त्रैलोक्यविश्रुतम्
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥

142.2

पुरा कृतयुगस्यादौ देवदानवसंगरे
प्रवृत्ते वा सिंहिकेति विख्याता दैत्यसुन्दरी ॥

142.3

तस्याः पुत्रो महादैत्यो राहुर् नाम महाबलः
अमृते तु समुत्पन्ने सैंहिकेये च भेदिते ॥

142.4

तस्य पुत्रो महादैत्यो मेघहास इति श्रुतः
पितरं घातितं श्रुत्वा तपस् तेपे ऽतिदुःखितः ॥

142.5

तपस्यन्तं राहुसुतं गौतमीतीरम् आश्रितम्
देवाश् च ऋषयः सर्वे तम् ऊचुर् अतिभीतवत् ॥

142.6

तपो जहि महाबाहो यत् ते मनसि संस्थितम्
सर्वं भवतु नामेदं शिवगङ्गाप्रसादतः
शिवगङ्गाप्रसादेन किं नामास्त्य् अत्र दुर्लभम् ॥

142.7

परिभूतः पिता पूज्यो युष्माभिर् मम दैवतम्
तस्यापि मम चात्यन्तं प्रीतिश् च क्रियते यदि ॥

142.8

भवद्भिस् तपसो ऽस्माच् च अहं वैरान् निवर्तये
वैरनिर्यातनं कार्यं पुत्रेण पितुर् आदरात्
प्रार्थयन्ते भवन्तश् चेत् पूर्णास् तन् मे मनोरथाः ॥

142.9

ततः सुरगणाः सर्वे राहुं चक्रुर् ग्रहानुगम्
तं चापि मेघहासं ते चक्रू राक्षसपुंगवम् ॥

142.10

ततो ऽभवद् राहुसुतो नैरृताधिपतिः प्रभुः
पुनश् चाह सुरान् दैत्यो मम ख्यातिर् यथा भवेत् ॥

142.11

तीर्थस्यास्य प्रभावश् च दातव्य इति मे मतिः
तथेत्य् उक्त्वा ददुर् देवाः सर्वम् एव मनोगतम् ॥

142.12

दैत्येश्वरस्य देवर्षे तन्नाम्ना तीर्थम् उच्यते
देवा यतो ऽभवन् सर्वे तत्र स्थाने महामते ॥

142.13

देवस्थानं तु तत् तीर्थं देवानाम् अपि दुर्लभम्
यत्र देवेश्वरो देवो देवतीर्थं ततः स्मृतम् ॥

142.14

तत्राष्टादश तीर्थानि दैत्यपूज्यानि नारद
तेषु स्नानं च दानं च महापातकनाशनम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc