भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 141

141.1

कपिलासंगमं नाम तीर्थं त्रैलोक्यविश्रुतम्
तत्र नारद वक्ष्यामि कथां पुण्याम् अनुत्तमाम् ॥

141.2

कपिलो नाम तत्त्वज्ञो मुनिर् आसीन् महायशाः
क्रूरश् चापि प्रसन्नश् च तपोव्रतपरायणः ॥

141.3

तपस्यन्तं मुनिश्रेष्ठं गौतमीतीरम् आश्रितम्
तम् आगत्य महात्मानं वामदेवादयो ऽब्रुवन् ॥

141.4

हत्वा वेनं ब्रह्मशापैर् नष्टधर्मे त्व् अराजके
कपिलं सिद्धम् आचार्यम् ऊचुर् मुनिगणास् तदा ॥

141.5

गते वेदे गते धर्मे किं कर्तव्यं मुनीश्वर ॥

141.6

ततो ऽब्रवीन् मुनिर् ध्यात्वा कपिलस् त्व् आगतान् मुनीन् ॥

141.7

वेनस्योरुर् विमथ्यो ऽभूत् ततः कश्चिद् भविष्यति ॥

141.8

तथैव चक्रुर् मुनयो वेनस्योरुं विमथ्य वै
तत्रोत्पन्नो महापापः कृष्णो रौद्रपराक्रमः ॥

141.9

तं दृष्ट्वा मुनयो भीता निषीदस्वेति चाब्रुवन्
निषादः सो ऽभवत् तस्मान् निषादाश् चाभवंस् ततः ॥

141.10

वेनबाहुं ममन्थुस् ते दक्षिणं धर्मसंहितम्
ततः पृथुस्वरश् चैव सर्वलक्षणलक्षितः ॥

141.11

राजाभवत् पृथुः श्रीमान् ब्रह्मसामर्थ्यसंयुतः
तम् आगत्य सुराः सर्वे अभिनन्द्य वराञ् शुभान् ॥

141.12

तस्मै ददुस् तथास्त्राणि मन्त्राणि गुणवन्ति च
ततो ऽब्रुवन् मुनिगणास् तं पृथुं कपिलेन च ॥

141.13

आहारं देहि जीवेभ्यो भुवा ग्रस्तौषधीर् अपि ॥

141.14

ततः स धनुर् आदाय भुवम् आह नृपोत्तमः ॥

141.15

ओषधीर् देहि या ग्रस्ताः प्रजानां हितकाम्यया ॥

141.16

तम् उवाच मही भीता पृथुं तं पृथुलोचनम् ॥

141.17

मयि जीर्णा महौषध्यः कथं दातुम् अहं क्षमा ॥

141.18

ततः सकोपो नृपतिस् ताम् आह पृथिवीं पुनः ॥

141.19

नो चेद् ददास्य् अद्य त्वां वै हत्वा दास्ये महौषधीः ॥

141.20

कथं हंसि स्त्रियं राजञ् ज्ञानी भूत्वा नृपोत्तम
विना मया कथं चेमाः प्रजाः संधारयिष्यसि ॥

141.21

यत्रोपकारो ऽनेकानाम् एकनाशे भविष्यति
न दोषस् तत्र पृथिवि तपसा धारये प्रजाः ॥

141.22

न दोषम् अत्र पश्यामि नाचक्षे ऽनर्थकं वचः
यस्मिन् निपातिते सौख्यं बहूनाम् उपजायते
मुनयस् तद्वधं प्राहुर् अश्वमेधशताधिकम् ॥

141.23

ततो देवाश् च ऋषयः सान्त्वयित्वा नृपोत्तमम्
महीं च मातरं देवीम् ऊचुः सुरगणास् तदा ॥

141.24

भूमे गोरूपिणी भूत्वा पयोरूपा महौषधीः
देहि त्वं पृथवे राज्ञे ततः प्रीतो भवेन् नृपः
प्रजासंरक्षणं च स्यात् ततः क्षेमं भविष्यति ॥

141.25

ततो गोरूपम् आस्थाय भूम्य् आसीत् कपिलान्तिके
दुदोह च महौषध्यो राजा वेनकरोद्भवः ॥

141.26

यत्र देवाः सगन्धर्वा ऋषयः कपिलो मुनिः
महीं गोरूपम् आपन्नां नर्मदायां महामुने ॥

141.27

सरस्वत्यां भागीरथ्यां गोदावर्यां विशेषतः
महानदीषु सर्वासु दुदुहे ऽसौ पयो महत् ॥

141.28

सा दुह्यमाना पृथुना पुण्यतोयाभवन् नदी
गौतम्या संगता चाभूत् तद् अद्भुतम् इवाभवत् ॥

141.29

ततः प्रभृति तत् तीर्थं कपिलासंगमं विदुः
तत्राष्टाशीतिः पूज्यानि सहस्राणि महामते ॥

141.30

तीर्थान्य् आहुर् मुनिगणाः स्मरणाद् अपि नारद
पावनानि जगत्य् अस्मिंस् तानि सर्वाण्य् अनुक्रमात् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc