ब्रह्म पुराण · अध्याय 143
सिद्धतीर्थम् इति ख्यातं यत्र सिद्धेश्वरो हरः
तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम् ॥
पुलस्त्यवंशसंभूतो रावणो लोकरावणः
दिशो विजित्य सर्वाश् च सोमलोकम् अजीगमत् ॥
सोमेन सह योत्स्यन्तं दशास्यम् अहम् अब्रवम्
मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद् दशानन ॥
इत्य् उक्त्वाष्टोत्तरं मन्त्रं शतनामभिर् अन्वितम्
शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये ॥
निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम्
शरणं शिव एवात्र संसारे ऽन्यो न कश्चन ॥
ततो निवृत्तः स ह मन्त्रियुक्तस् तत् सोमलोकाज् जयम् आप्य रक्षः
स पुष्पकारूढगतिः सगर्वो लोकान् पुनः प्राप जवाद् दशास्यः
स प्रेक्षमाणो देवम् अन्तरिक्षं भुवं च नागांश् च गजांश् च विप्रान्
आलोकयाम् आस नगं महान्तं कैलासम् आवास उमापतेर् यः
को वा गिराव् अत्र वसेन् महात्मा गिरिं नयाम्य् एनम् अथाधि भूमेः
लङ्कागतो ऽयं गिरिर् आशु शोभां लङ्कापि सत्यं श्रियम् आतनोति
इत्थं वचो राक्षसमन्त्रिणौ तौ निशम्य रक्षोधिपतेश् च भावम्
न युक्तम् इत्य् ऊचतुर् इष्टबुद्ध्या निशाचरस् तद्वचनं न मेने
संस्थाप्य तत् पुष्पकम् आशु रक्षः पुप्लाव कैलासगिरेश् च मूले
हिन्दोलयाम् आस गिरिं दशास्यो ज्ञात्वा भवः कृत्यम् इदं चकार
जित्वा दिगीशांश् च सगर्वितस्य कैलासम् आन्दोलयतः सुरारेः
अङ्गुष्ठकृत्यैव रसातलादि लोकांश् च यातस्य दशाननस्य
आलूनकायस्य गिरं निशम्य विहस्य देव्या सह दत्तम् इष्टम्
तस्मै प्रसन्नः कुपितो ऽपि शंभुर् अयुक्तदातेति न संशयो ऽत्र
ततो ऽयम् आवाप्य वरान् सुवीरो भवप्रसादात् कुसुमं जगाम
गच्छन् स लङ्कां भवपूजनाय गङ्गाम् अगाच् छंभुजटाप्रसूताम्
संपूजयित्वा विविधैश् च मन्त्रैर् गङ्गाजलैः शंभुम् अदीनसत्त्वः
असिं स लेभे शशिखण्डभूषात् सिद्धिं च सर्वर्द्धिम् अभीप्सितां च
मद्दत्तमन्त्रं शशिरक्षणाय स साधयाम् आस भवं प्रपूज्य
सिद्धे तु मन्त्रे पुनर् एव लङ्काम् अयात् स रक्षोधिपतिः स तुष्टः
ततः प्रभृत्य् एतद् अतिप्रभावं तीर्थं महासिद्धिदम् इष्टदं च
समस्तपापौघविनाशनं च सिद्धैर् अशेषैः परिसेवितं च
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0