भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 135

135.1

वाणीसंगमम् आख्यातं यत्र वागीश्वरो हरः
तत् तीर्थं सर्वपापानां मोचनं सर्वकामदम् ॥

135.2

तत्र स्नानेन दानेन ब्रह्महत्यादिनाशनम्
ब्रह्मविष्ण्वोश् च संवादे महत्त्वे च परस्परम् ॥

135.3

तयोर् मध्ये महादेवो ज्योतिर्मूर्तिर् अभूत् किल
तत्रैव वाग् उवाचेदं दैवी पुत्र तयोः शुभा ॥

135.4

अहम् अस्मि महांस् तत्र अहम् अस्मीति वै मिथः
दैवी वाक् ताव् उभौ प्राह यस् त्व् अस्यान्तं तु पश्यति ॥

135.5

स तु ज्येष्ठो भवेत् तस्मान् मा वादं कर्तुम् अर्हथः
तद्वाक्याद् विष्णुर् अगमद् अधो ऽहं चोर्ध्वम् एव च ॥

135.6

ततो विष्णुः शीघ्रम् एत्य ज्योतिःपार्श्व उपाविशत्
अप्राप्यान्तम् अहं प्रायां दूराद् दूरतरं मुने ॥

135.7

ततः श्रान्तो निवृत्तो ऽहं द्रष्टुम् ईशं तु तं प्रभुम्
तदैवं मम धीर् आसीद् दृष्टश् चान्तो मया भृशम् ॥

135.8

अस्य देवस्य तद् विष्णोर् मम ज्यैष्ठ्यं स्फुटं भवेत्
पुनश् चापि मम त्व् एवं मतिर् आसीन् महामते ॥

135.9

सत्यैर् वक्त्रैः कथं वक्ष्ये पीडितो ऽप्य् अनृतं वचः
नानाविधेषु पापेषु नानृतात् पातकं परम् ॥

135.10

सत्यैर् वक्त्रैर् असत्यां वा वाचं वक्ष्ये कथं त्व् इति
ततो ऽहं पञ्चमं वक्त्रं गर्दभाकृतिभीषणम् ॥

135.11

कृत्वा तेनानृतं वक्ष्य इति ध्यात्वा चिरं तदा
अब्रवं तं हरिं तत्र आसीनं जगतां प्रभुम् ॥

135.12

अस्य चान्तो मया दृष्टस् तेन ज्यैष्ठ्यं जनार्दन
ममेति वदतः पार्श्वे उभौ तौ हरिशंकरौ ॥

135.13

एकरूपत्वम् आपन्नौ सूर्याचन्द्रमसाव् इव
तौ दृष्ट्वा विस्मितो भीतश् चास्तवं ताव् उभाव् अपि
ततः क्रुद्धौ जगन्नाथौ वाचं ताम् इदम् ऊचतुः ॥

135.14

दुष्टे त्वं निम्नगा भूया नानृताद् अस्ति पातकम् ॥

135.15

ततः सा विह्वला भूत्वा नदीभावम् उपागता
तद् दृष्ट्वा विस्मितो भीतस् ताम् अब्रवम् अहं तदा ॥

135.16

यस्माद् असत्यम् उक्तासि ब्रह्मवाचि स्थिता सती
तस्माद् अदृश्या त्वं भूयाः पापरूपास्य् असंशयम् ॥

135.17

एतच् छापं विदित्वा तु तौ देवौ प्रणता तदा
विशापत्वं प्रार्थयन्ती तुष्टाव च पुनः पुनः ॥

135.18

ततस् तुष्टौ देवदेवौ प्रार्थितौ त्रिदशार्चितौ
प्रीत्या हरिहराव् एवं वाचं वाचम् अथोचतुः ॥

135.19

गङ्गया संगता भद्रे यदा त्वं लोकपावनी
तदा पुनर् वपुस् ते स्यात् पवित्रं हि सुशोभने ॥

135.20

तथेत्य् उक्त्वा सापि देवी गङ्गया संगताभवत्
भागीरथी गौतमी च ततश् चापि स्वकं वपुः ॥

135.21

देवी सा व्यगमद् ब्रह्मन् देवानाम् अपि दुर्लभम्
गौतम्यां सैव विख्याता नाम्ना वाणीति पुण्यदा ॥

135.22

भागीरथ्यां सैव देवी सरस्वत्य् अभिधीयते
उभयत्रापि विख्यातः संगमो लोकपूजितः ॥

135.23

सरस्वतीसंगमश् च वाणीसंगम एव च
गौतम्या संगता देवी वाणी वाचा सरस्वती ॥

135.24

सर्वत्र पूजितं तीर्थं तत्र वाचा शिवं प्रभुम्
देवेश्वरं पूजयित्वा विशापम् अगमद् यतः ॥

135.25

ब्रह्मा विधूय वाग्दौष्ट्यं स्वं च धामागमत् पुनः
तस्मात् तत्र शुचिर् भूत्वा स्नात्वा तत्र च संगमे ॥

135.26

वागीश्वरं ततो दृष्ट्वा तावता मुक्तिम् आप्नुयात्
दानहोमादिकं किंचिद् उपवासादिकां क्रियाम् ॥

135.27

यः कुर्यात् संगमे पुण्ये संसारे न भवेत् पुनः
एकोनविंशतिशतं तीर्थानां तीरयोर् द्वयोः
नानाजन्मार्जिताशेष पापक्षयविधायिनाम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc