भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 136

136.1

विष्णुतीर्थम् इति ख्यातं तत्र वृत्तम् इदं शृणु
मौद्गल्य इति विख्यातो मुद्गलस्य सुतो ऋषिः ॥

136.2

तस्य भार्या तु जाबाला नाम्ना ख्याता सुपुत्रिणी
पिता ऋषिस् तथा वृद्धो मुद्गलो लोकविश्रुतः ॥

136.3

तस्य भार्या तथा ख्याता नाम्ना भागीरथी शुभा
स मौद्गल्यः प्रातर् एव गङ्गां स्नाति यतव्रतः ॥

136.4

नित्यम् एव त्व् इदं कर्म तस्यासीन् मुनिसत्तम
गङ्गातीरे कुशैर् मृद्भिः शमीपुष्पैर् अहर्निशम् ॥

136.5

गुरूदितेन मार्गेण स्वमानससरोरुहे
आवाहनं नित्यम् एव विष्णोश् चक्रे स मौद्गलिः ॥

136.6

तेनाहूतस् त्वरन्न् एति लक्ष्मीभर्ता जगत्पतिः
वैनतेयम् अथारुह्य शङ्खचक्रगदाधरः ॥

136.7

पूजितस् तेन ऋषिणा स मौद्गल्येन यत्नतः
प्रब्रूते च कथाश् चित्रा मौद्गल्याय जगत्प्रभुः ॥

136.8

ततो ऽपराह्णसमये विष्णुः प्राह स मौद्गलिम्
याहि वत्स स्वभवनं श्रान्तो ऽसीति पुनः पुनः ॥

136.9

एवम् उक्तः स देवेन विष्णुना याति स द्विजः
जगत्प्रभुस् ततो याति देवैर् युक्तः स्वमन्दिरम् ॥

136.10

मौद्गल्यो ऽपि तथाभ्येत्य किंचिद् आदाय नित्यशः
स्वम् एव भवनं विद्वान् भार्यायै स्वार्जितं धनम् ॥

136.11

ददाति स महाविष्णु चरणाब्जपरायणः
मौद्गल्यस्य प्रिया सापि पतिव्रतपरायणा ॥

136.12

शाकं मूलं फलं वापि भर्त्रानीतं तु यत्नतः
सुसंस्कृत्याप्य् अतिथीनां बालानां भर्तुर् एव च ॥

136.13

दत्त्वा तु भोजनं तेभ्यः पश्चाद् भुङ्क्ते यतव्रता
भुक्तवत्स्व् अथ सर्वेषु रात्रौ नित्यं स मौद्गलिः ॥

136.14

विष्णोः श्रुताः कथाश् चित्रास् तेभ्यो वक्त्य् अथ हर्षितः
एवं बहुतिथे काले व्यतीते चातिविस्मिता
मौद्गल्यस्य रहो भार्या भर्तारं वाक्यम् अब्रवीत् ॥

136.15

यदि ते विष्णुर् अभ्येति समीपं त्रिदशार्चितः
तथापि कष्टम् अस्माकं कस्माद् इति जगत्प्रभुम् ॥

136.16

तत् पृच्छ त्वं महाप्राज्ञ यदासौ विष्णुर् एति च
यस्मिंश् च स्मृतमात्रे तु जराजन्मरुजो मृतिः
नाशं यान्ति कुतो दृष्टे तस्मात् पृच्छ जगत्पतिम् ॥

136.17

तथेत्य् उक्त्वा प्रियावाक्यान् मौद्गल्यो नित्यवद् धरिम्
पूजयित्वा विनीतश् च पप्रच्छ स कृताञ्जलिः ॥

136.18

त्वयि स्मृते जगन्नाथ शोकदारिद्र्यदुष्कृतम्
नाशं याति विपत्तिर् मे त्वयि दृष्टे कथं स्थिता ॥

136.19

स्वकृतं भुज्यते भूतैः सर्वैः सर्वत्र सर्वदा
न कोपि कस्यचित् किंचित् करोत्य् अत्र हिताहिते ॥

136.20

यादृशं चोप्यते बीजं फलं भवति तादृशम्
रसालः स्यान् न निम्बस्य बीजाज् जात्व् अपि कुत्रचित् ॥

136.21

न कृता गौतमीसेवा नार्चितौ हरिशंकरौ
न दत्तं यैश् च विप्रेभ्यस् ते कथं भाजनं श्रियः ॥

136.22

त्वया न दत्तं किंचिच् च ब्राह्मणेभ्यो ममापि च
यद् दीयते तद् एवेह परस्मिंश् चोपतिष्ठति ॥

136.23

मृद्भिर् वार्भिः कुशैर् मन्त्रैः शुचिकर्म सदैव यत्
करोति तस्मात् पूतात्मा शरीरस्य च शोषणात् ॥

136.24

विना दानेन न क्वापि भोगावाप्तिर् नृणां भवेत्
सत्कर्माचरणाच् छुद्धो विरक्तः स्यात् ततो नरः ॥

136.25

ततो ऽप्रतिहतज्ञानो जीवन्मुक्तस् ततो भवेत्
सर्वेषां सुलभा मुक्तिर् मद्भक्त्या चेह पूर्ततः ॥

136.26

भुक्तिर् दानादिना सर्व भूतदुःखनिबर्हणात्
अथवा लप्स्यसे मुक्तिं भक्त्या भुक्तिं न लप्स्यसे ॥

136.27

भक्त्या मुक्तिः कथं भूयाद् भुक्तेर् मुक्तिः सुदुर्लभा
जाता चेद् देहिनां मुक्तिः किम् अन्येन प्रयोजनम् ॥

136.28

भक्त्या मुक्तिः सर्वपूज्या ताम् इच्छेयं जगन्मय ॥

136.29

एतद् एवान्तरं ब्रह्मन् दीयते माम् अनुस्मरन्
ब्राह्मणायाथवार्थिभ्यस् तद् एवाक्षयतां व्रजेत् ॥

136.30

माम् अध्यात्वाथ यद् दद्यात् तत् तन्मात्रफलप्रदम्
तत् पुनर् दत्तम् एवेह न भोगायात्र कल्पते ॥

136.31

तस्माद् देहि महाबुद्धे भोज्यं किंचिन् मम ध्रुवम्
अथवा विप्रमुख्याय गौतमीतीरम् आश्रितः ॥

136.32

मौद्गल्यः प्राह तं विष्णुं देयं मम न विद्यते
नान्यत् किंचन देहादि यत् तत् त्वयि समर्पितम् ॥

136.33

ततो विष्णुर् गरुत्मन्तं प्राह शीघ्रं जगत्पतिः
इहानयस्व कणिशं ममायं चार्पयिष्यति ॥

136.34

ततो योग्यान् अयं भोगान् प्राप्स्यते मनसः प्रियान्
आकर्ण्य स्वामिनादिष्टं तथा चक्रे स पक्षिराट् ॥

136.35

विष्णुहस्ते कणान् प्रादात् स मौद्गल्यो यतव्रतः
एतस्मिन्न् अन्तरे विष्णुर् विश्वकर्माणम् अब्रवीत् ॥

136.36

यावच् चास्य कुले सप्त पुरुषास् तावद् एव तु
भवितारो महाबुद्धे तावत् कामा मनीषिताः
गावो हिरण्यं धान्यानि वस्त्राण्य् आभरणानि च ॥

136.37

यच् च किंचिन् मनःप्रीत्यै लोके भवति भूषणम्
तत् सर्वम् आप मौद्गल्यो विष्णुगङ्गाप्रभावतः ॥

136.38

गृहं गच्छेति मौद्गल्यो विष्णुनोक्तस् ततो ययौ
आश्रमे स्वस्य सर्वर्द्धिं दृष्ट्वा ऋषिर् अभाषत ॥

136.39

अहो दानप्रभावो ऽयम् अहो विष्णोर् अनुस्मृतिः
अहो गङ्गाप्रभावश् च कैर् विचार्यो महान् अयम् ॥

136.40

मौद्गल्यो भार्यया सार्धं पुत्रैः पौत्रैश् च बन्धुभिः
पितृभ्यां बुभुजे भोगान् भुक्तिं मुक्तिम् अवाप च ॥

136.41

ततः प्रभृति तत् तीर्थं मौद्गल्यं वैष्णवं तथा
तत्र स्नानं च दानं च भुक्तिमुक्तिफलप्रदम् ॥

136.42

तत्र श्रुतिः स्मृतिर् वापि तीर्थस्य स्यात् कथंचन
तस्य विष्णुर् भवेत् प्रीतः पापैर् मुक्तः सुखी भवेत् ॥

136.43

एकादश सहस्राणि तीर्थानां तीरयोर् द्वयोः
सर्वार्थदायिनां तत्र स्नानदानजपादिभिः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc