भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 134

134.1

चक्रतीर्थम् इति ख्यातं स्मरणात् पापनाशनम्
तस्य प्रभावं वक्ष्यामि शृणु यत्नेन नारद ॥

134.2

ऋषयः सप्त विख्याता वसिष्ठप्रमुखा मुने
गौतम्यास् तीरम् आश्रित्य सत्त्रयज्ञम् उपासते ॥

134.3

तत्र विघ्न उपक्रान्ते रक्षोभिर् अतिभीषणे
माम् अभ्येत्याथ मुनयो रक्षःकृत्यं न्यवेदयन् ॥

134.4

तदाहं प्रमदारूपं माययासृज्य नारद
यस्याश् च दर्शनाद् एव नाशं यान्त्य् अथ राक्षसाः ॥

134.5

एवम् उक्त्वा तु तां प्रादाम् ऋषिभ्यः प्रमदां मुने
मद्वाक्याद् ऋषयो मायाम् आदाय पुनर् आगमन् ॥

134.6

अजैका या समाख्याता कृष्णलोहितरूपिणी
मुक्तकेशीत्य् अभिधया सास्ते ऽद्यापि स्वरूपिणी ॥

134.7

लोकत्रितयसंमोह दायिनी कामरूपिणी
तद्बलात् स्वस्थमनसः सर्वे च मुनिपुंगवः ॥

134.8

गौतमीं सरितां श्रेष्ठां पुनर् यज्ञाय दीक्षिताः
पुनस् तन्मखनाशाय राक्षसाः समुपागमन् ॥

134.9

यक्षवाटान्तिके मायां दृष्ट्वा राक्षसपुंगवाः
ततो नृत्यन्ति गायन्ति हसन्ति च रुदन्ति च ॥

134.10

माहेश्वरी महामाया प्रभावेणातिदर्पिता
तेषां मध्ये दैत्यपतिः शम्बरो नाम वीर्यवान् ॥

134.11

मायारूपां तु प्रमदां भक्षयाम् आस नारद
तद् अद्भुतम् अतीवासीत् तन्मायाबलदर्शिनाम् ॥

134.12

मखे विध्वंस्यमाने तु ते विष्णुं शरणं ययुः
प्रादाद् विष्णुश् चक्रम् अथो मुनीनां रक्षणाय तु ॥

134.13

चक्रं तद् राक्षसान् आजौ दैत्यांश् च दनुजांस् तथा
चिच्छेद तद्भयाद् एव मृता राक्षसपुंगवाः ॥

134.14

ऋषिभिस् तन् महासत्त्रं संपूर्णम् अभवत् तदा
विष्णोः प्रक्षालितं चक्रं गङ्गाम्भोभिः सुदर्शनम् ॥

134.15

ततः प्रभृति तत् तीर्थं चक्रतीर्थम् उदाहृतम्
तत्र स्नानेन दानेन सत्त्रयागफलं लभेत् ॥

134.16

तत्र पञ्च शतान्य् आसंस् तीर्थानां पापहारिणाम्
तेषु स्नानं तथा दानं प्रत्येकं मुक्तिदायकम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc