ब्रह्म पुराण · अध्याय 133
शुक्लतीर्थम् इति ख्यातं सर्वसिद्धिकरं नृणाम्
यस्य स्मरणमात्रेण सर्वकामान् अवाप्नुयात् ॥
भरद्वाज इति ख्यातो मुनिः परमधार्मिकः
तस्य पैठीनसी नाम भार्या सुकलभूषणा ॥
गौतमीतीरम् अध्यास्ते पतिव्रतपरायणा
अग्नीषोमीयम् ऐन्द्राग्नं पुरोडाशम् अकल्पयत् ॥
पुरोडाशे श्रप्यमाणे धूमात् कश्चिद् अजायत
पुरोडाशं भक्षयित्वा लोकत्रितयभीषणः ॥
यज्ञं मे ह्य् अत्र को हंसि कोपात् त्वम् इति तं मुनिः
प्रोवाच सत्वरं क्रुद्धो भरद्वाजो द्विजोत्तमः
तद् ऋषेर् वचनं श्रुत्वा राक्षसः प्रत्युवाच तम् ॥
हव्यघ्न इति विख्यातं भरद्वाज निबोध माम्
संध्यासुतो ऽहं ज्येष्ठश् च सुतः प्राचीनबर्हिषः ॥
ब्रह्मणा मे वरो दत्तो यज्ञान् खाद यथासुखम्
ममानुजः कलिश् चापि बलवान् अतिभीषणः ॥
अहं कृष्णः पिता कृष्णो माता कृष्णा तथानुजः
अहं मखं हनिष्यामि यूपं छेद्मि कृतान्तकः ॥
रक्ष्यतां मे त्वया यज्ञः प्रियो धर्मः सनातनः
जाने त्वां यज्ञहन्तारं सद्द्विजं रक्ष मे क्रतुम् ॥
भरद्वाज निबोधेदं वाक्यं मम समासतः
ब्रह्मणाहं पुरा शप्तो देवदानवसंनिधौ ॥
ततः प्रसादितो देवो मया लोकपितामहः
अमृतैः प्रोक्षयिष्यन्ति यदा त्वां मुनिसत्तमाः ॥
तदा विशापो भविता हव्यघ्न त्वं न चान्यथा
एवं करिष्यसि यदा ततः सर्वं भविष्यति ॥
भरद्वाजः पुनः प्राह सखा मे ऽसि महामते
मखसंरक्षणं येन स्यान् मे वद करोमि तत् ॥
संभूय देवा दैतेया ममन्थुः क्षीरसागरम्
अलभन्तामृतं कष्टात् तद् अस्मत्सुलभं कथम् ॥
प्रीत्या यदि प्रसन्नो ऽसि सुलभं यद् वदस्व तत्
तद् ऋषेर् वचनं श्रुत्वा रक्षः प्राह तदा मुदा ॥
अमृतं गौतमीवारि अमृतं स्वर्णम् उच्यते
अमृतं गोभवं चाज्यम् अमृतं सोम एव च ॥
एतैर् माम् अभिषिञ्चस्व अथवैतैस् तथा त्रिभिः
गङ्गाया वारिणाज्येन हिरण्येन तथैव च
सर्वेभ्यो ऽप्य् अधिकं दिव्यम् अमृतं गौतमीजलम् ॥
एतद् आकर्ण्य स ऋषिः परं संतोषम् आगतः
पाणाव् आदाय गङ्गायाः सलिलामृतम् आदरात् ॥
तेनाकरोद् ऋषी रक्षो ह्य् अभिषिक्तं तदा मखे
पुनश् च यूपे च पशाव् ऋत्विक्षु मखमण्डले ॥
सर्वम् एवाभवच् छुक्लम् अभिषेकान् महात्मनः
तद् रक्षो ऽपि तदा शुक्लो भूत्वोत्पन्नो महाबलः ॥
यः पुरा कृष्णरूपो ऽभूत् स तु शुक्लो ऽभवत् क्षणात्
यज्ञं सर्वं समाप्याथ भरद्वाजः प्रतापवान् ॥
ऋत्विजो ऽपि विसृज्याथ यूपं गङ्गोदके ऽक्षिपत्
गङ्गामध्ये तद् धि यूपम् अद्याप्य् आस्ते महामते ॥
अभिषिक्तं चामृतेन अभिज्ञानं तु तन् महत्
तत्र तीर्थे पुना रक्षो भरद्वाजम् उवाच ह ॥
अहं यामि भरद्वाज कृतः शुक्लस् त्वया पुनः
तस्मात् तवात्र तीर्थे ये स्नानदानादिपूजनम् ॥
कुर्युस् तेषाम् अभीष्टानि भवेयुर् यत् फलं मखे
स्मरणाद् अपि पापानि नाशं यान्तु सदा मुने ॥
ततः प्रभृति तत् तीर्थं शुक्लतीर्थम् इति स्मृतम्
गौतम्यां दण्डकारण्ये स्वर्गद्वारम् अपावृतम् ॥
उभयोस् तीरयोः सप्त सहस्राण्य् अपराणि च
तीर्थानां मुनिशार्दूल सर्वसिद्धिप्रदायिनाम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0