ब्रह्म पुराण · अध्याय 132
यक्षिणीसंगमं नाम तीर्थं सर्वफलप्रदम्
तत्र स्नानेन दानेन सर्वान् कामान् अवाप्नुयात् ॥
यत्र यक्षेश्वरो देवो दर्शनाद् भुक्तिमुक्तिदः
तत्र च स्नानमात्रेण सत्त्रयागफलं लभेत् ॥
विश्वावसोः स्वसा नाम्ना पिप्पला गुरुहासिनी
ऋषीणां सत्त्रम् अगमद् गौतमीतीरवर्तिनाम् ॥
दृष्ट्वा तत्र ऋषीन् क्षामान् सा जहासातिगर्विता
या गत्वाश्रावय वौषड् अस्तु श्रौषड् इति स्थिरम् ॥
विस्वरेण ब्रुवती तां ते शेपुः स्राविणी भव
ततो नद्य् अभवत् तत्र यक्षिणीति सुविश्रुता ॥
ततो विश्वावसुः पूज्य ऋषीन् देवं त्रिलोचनम्
संगम्य चैव गौतम्या तां विशापाम् अथाकरोत् ॥
ततः प्रभृति तत् तीर्थं यक्षिणीसंगमं स्मृतम्
तत्र स्नानादिदानेन सर्वान् कामान् अवाप्नुयात् ॥
विश्वावसोः प्रसन्नो ऽभूद् यत्र शंभुः शिवान्वितः
शैवं तत् परमं तीर्थं दुर्गातीर्थं च विश्रुतम् ॥
सर्वपापौघहरणं सर्वदुर्गतिनाशनम्
सर्वेषां तीर्थमुख्यानां तद् धि सारं महामुने
तीर्थं मुनिवरैः ख्यातं सर्वसिद्धिप्रदं नृणाम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0