ब्रह्म पुराण · अध्याय 131
यमतीर्थम् इति ख्यातं पितॄणां प्रीतिवर्धनम्
अशेषपापशमनं तत्र वृत्तम् इदं शृणु ॥
तत्राख्यानम् इदं त्व् आसीद् इतिहासं पुरातनम्
सरमेति प्रसिद्धास्ति नाम्ना देवशुनी मुने ॥
तस्याः पुत्रौ महाश्रेष्ठौ श्वानौ नित्यं जनान् अनु
गामिनौ पवनाहारौ चतुरक्षौ यमप्रियौ ॥
गा रक्षति स्म देवानां यज्ञार्थं कल्पितान् पशून्
रक्षन्तीम् अनुजग्मुस् ते राक्षसा दैत्यदानवाः ॥
रक्षन्तीं तां महाप्राज्ञाः श्वानयोर् मातरं शुनीम्
प्रलोभयित्वा विविधैर् वाक्यैर् दानैश् च यत्नतः ॥
हृता गा राक्षसैः पापैः पश्वर्थे कल्पिताः शुभाः
तत आगत्य सा देवान् इदम् आह क्रमाच् छुनी ॥
मां बद्ध्वा राक्षसैः पाशैस् ताडयित्वा प्रहारकैः
नीता गा यज्ञसिद्ध्यर्थं कल्पिताः पशवः सुराः ॥
तस्या वाचं निशम्याशु सुरान् प्राह बृहस्पतिः ॥
इयं विकृतरूपास्ते अस्याः पापं च लक्षये
अस्या मतेन ता गावो नीता नान्येन हेतुना
पापेयं सुकृतीवेति लक्ष्यते देहचेष्टितैः ॥
तद् गुरोर् वचनाच् छक्रः पदा तां प्राहरच् छुनीम्
पदाघातात् तदा तस्या मुखात् क्षीरं प्रसुस्रुवे ॥
पुनः प्राह शचीभर्ता क्षीरं पीतं त्वया शुनि
राक्षसैश् च तदा दत्तं तस्मान् नीतास् तु गा मम ॥
नापराधो ऽस्ति मे नाथ न चान्यस्यापि कस्यचित्
नापराधो न चोपेक्षा ममास्ति त्रिदशेश्वर
तस्माद् रुष्टो ऽसि किं नाथ रिपवो बलिनस् तु ते ॥
ततो ध्यात्वा देवगुरुर् ज्ञात्वा तस्या विचेष्टितम्
सत्यं शक्र त्व् इयं दुष्टा रिपूणां पक्षकारिणी ॥
ततः शशाप तां शक्रः पापिष्ठे त्वं शुनी भव
मर्त्यलोके पापभूता अज्ञानात् पापकारिणी ॥
तदेन्द्रस्य तु शापेन मानुषे सा व्यजायत
यथा शप्ता मघवता पापात् सा ह्य् अतिभीषणा ॥
गावो या राक्षसैर् नीतास् तासाम् आनयनाय च
यत्नं कुर्वन् सुरपतिर् विष्णवे तन् न्यवेदयत् ॥
विष्णुर् दैत्यांश् च दनुजान् गोहर्तॄंश् चैव राक्षसान्
हन्तुं प्रयत्नम् अकरोज् जगृहे च महद् धनुः ॥
शार्ङ्गं यल् लोकविख्यातं दैत्यनाशनम् एव च
जितारिः पूजितो देवैः स्वयं स्थित्वा जनार्दनः ॥
यत्र वै दण्डकारण्ये शार्ङ्गपाणिर् जगत्प्रभुः
तत्रस्थान् दैत्यदनुजान् राक्षसांश् च बलीयसः ॥
पुनर् जघ्ने स वै विष्णुर् गा यैर् नीताश् च राक्षसैः
तत्र वै दण्डकारण्ये शार्ङ्गपाणिर् इति श्रुतः ॥
युध्यमानस् ततो विष्णुर् दितिजै राक्षसैः सह
ते जग्मुर् दक्षिणाम् आशां विष्णोस् त्रासान् महामुने ॥
अन्वगच्छत् ततो विष्णुस् तान् एव परमेश्वरः
गरुत्मता तान् अवाप्य शार्ङ्गमुक्तैर् मनोजवैः ॥
बाणैस् तान् व्याहनद् विष्णुर् गङ्गाया उत्तरे तटे
देवारयः क्षयं नीता विष्णुना प्रभविष्णुना ॥
शार्ङ्गमुक्तैर् महावेगैः सुस्वनैश् च सुमन्त्रितैः
क्षयं प्राप्ता विष्णुबाणैस् ततस् ते देवशत्रवः ॥
गावो लब्धा यत्र देवैर् बाणतीर्थं तद् उच्यते
वैष्णवं लोकविदितं गोतीर्थं चेति विश्रुतम् ॥
पश्वर्थे कल्पिता गावो गङ्गाया दक्षिणे तटे
प्रद्रुतास् ते सुराः सर्वे गङ्गायां संन्यवेशयन् ॥
तन्मध्ये कारयाम् आसुर् द्वीपं चैवाश्रयं गवाम्
तैर् गोभिस् तत्र गङ्गायां सुरयज्ञो व्यजायत ॥
यज्ञतीर्थं तु तत् प्रोक्तं गोद्वीपं गाङ्गमध्यतः
देवानां यजनं तच् च सर्वकामप्रदं शुभम् ॥
स्वयं मूर्तिमती भूत्वा गङ्गाशक्तिर् महाद्युते
असारापारसंसार सागरोत्तरणे तरिः ॥
विश्वेश्वरी योगमाया सद्भक्ताभयदायिनी
गोरक्षं तु ततस् तीर्थं गङ्गाया दक्षिणे तटे ॥
तौ श्वानौ सरमापुत्रौ चतुरक्षौ यमप्रियौ
मातुः शापं चापराधं सर्वं चापि सविस्तरम् ॥
निवेद्य तु यथान्यायं कार्यं चापि सुखप्रदम्
विशापकरणं चापि पप्रच्छतुर् उभौ यमम् ॥
स ताभ्यां सहितः सौरिः पित्रे सूर्याय चाब्रवीत्
श्रुत्वा सूर्यः सुतं प्राह गङ्गायां सुरसत्तम ॥
लोकत्रयैकपावन्यां गौतम्यां दण्डके वने
श्रद्धया परया वत्स सुस्नातः सुसमाहितः ॥
ब्रह्माणं चैव विष्णुं च माम् ईशं च यथाक्रमम्
स्तुहि त्वं सर्वभावेन भृत्यौ प्रीतिम् अवाप्स्यतः ॥
तत् पितुर् वचनं श्रुत्वा यमः प्रीतमनास् तदा
तयोश् च प्रीतये प्रायाद् देवतर्पणयोर् यमः ॥
गौतम्याम् अघहारिण्यां सुसमाहितमानसः
तथैव तोषयाम् आस गङ्गायां सुरसत्तमान् ॥
श्वभ्यां च सहितः श्रीमान् दक्षिणाशापतिः प्रभुः
ब्रह्माणं तोषयाम् आस भानुं वै दक्षिणे तटे ॥
ईशानम् उत्तरे विष्णुं स्वयं धर्मः प्रतापवान्
दत्तवन्तो वरं श्रेष्ठं सरमाया विशापकम्
वरान् अयाचत बहूंल् लोकानाम् उपकारकान् ॥
एषु स्नानं तु ये कुर्युर् ब्रह्मविष्णुमहेश्वराः
आत्मार्थं च परार्थं च ते कामान् आप्नुयुः शुभान् ॥
बाणतीर्थे तु ये स्नात्वा शार्ङ्गपाणिं स्मरन्ति वै
तेभ्यो दारिद्र्यदुःखानि न भवेयुर् युगे युगे ॥
गोतीर्थे ब्रह्मतीर्थे वा यस् तु स्नात्वा यतव्रतः
ब्रह्माणं तं नमस्याथ द्वीपस्यापि प्रदक्षिणम् ॥
यः कुर्यात् तेन पृथिवी सप्तद्वीपा वसुंधरा
प्रदक्षिणीकृता तत्र किंचिद् दत्त्वा वसु द्विजम् ॥
तद् देवयजनं प्राप्य किंचिद् धुत्वा हुताशने
अश्वमेधादियज्ञानां फलं प्राप्नोति पुष्कलम् ॥
यः सकृत् तत्र पठति गायत्रीं वेदमातरम्
अधीतास् तेन वेदा वै निष्कामो मुक्तिभाजनम् ॥
स्नात्वा तु दक्षिणे कूले शक्तिं देवीं तु भक्तितः
पूजयित्वा यथान्यायं सर्वान् कामान् अवाप्नुयात् ॥
ब्रह्मविष्णुमहेशानां शक्तिर् माता त्रयीमयी
सर्वान् कामान् अवाप्नोति पुत्रवान् धनवान् भवेत् ॥
आदित्यं भक्तितो यस् तु दक्षिणे नियतो नरः
स्नात्वा पश्येत तेनेष्टा यज्ञा विविधदक्षिणाः ॥
कूले यश् चोत्तरे चैव गङ्गाया दैत्यसूदनम्
स्नात्वा पश्येत तं नत्वा तस्य विष्णोः परं पदम् ॥
यमेश्वरं ततो यस् तु यमतीर्थे तु पूजितम्
स्नातः पश्यति युक्तात्मा स करोत्य् अचिरेण हि ॥
पितॄणाम् अक्षयं पुण्यं फलदं कीर्तिवर्धनम्
तत्र स्नानेन दानेन जपेन स्तवनेन च
अपि दुष्कृतकर्माणः पितरो मोक्षम् आप्नुयुः ॥
इत्याद्य् अष्ट सहस्राणि तीर्थानि त्रीणि नारद
तेषु स्नानं च दानं च सर्वम् अक्षयपुण्यदम् ॥
एतेषां स्मरणं पुण्यं नानाजन्माघनाशनम्
श्रवणात् पितृभिः सार्धं पठनात् स्वकुलैः सह ॥
तेषाम् अप्य् अतिपापानि नाशं यान्ति ममाज्ञया
तत्र स्नानादि यः कृत्वा किंचिद् दत्त्वा यतात्मवान् ॥
पितॄणां पिण्डदानादि कृत्वा नत्वा सुरान् इमान्
धनं धान्यं यशो वीर्यम् आयुर् आरोग्यसंपदः ॥
पुत्रान् पौत्रान् प्रियां भार्यां लब्ध्वा चान्यन् मनीषितम्
अवियुक्तः प्रीतमना बन्धुभिश् चातिमानितः ॥
नरकस्थान् अपि पितॄंस् तारयित्वा कुलानि च
पावयित्वा प्रियैर् युक्तो ह्य् अन्ते विष्णुं शिवं स्मरेत्
ततो मुक्तिपदं गच्छेद् देवानां वचनं यथा ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0