ब्रह्म पुराण · अध्याय 13
पुरोर् वंशं वयं सूत श्रोतुम् इच्छाम तत्त्वतः
द्रुह्यस्यानोर् यदोश् चैव तुर्वसोश् च पृथक् पृथक् ॥
शृणुध्वं मुनिशार्दूलाः पुरोर् वंशं महात्मनः
विस्तरेणानुपूर्व्या च प्रथमं वदतो मम ॥
पुरोः पुत्रः सुवीरो ऽभून् मनस्युस् तस्य चात्मजः
राजा चाभयदो नाम मनस्योर् अभवत् सुतः ॥
तथैवाभयदस्यासीत् सुधन्वा नाम पार्थिवः
सुधन्वनः सुबाहुश् च रौद्राश्वस् तस्य चात्मजः ॥
रौद्राश्वस्य दशार्णेयुः कृकणेयुस् तथैव च
कक्षेयुस्थण्डिलेयुश् च सन्नतेयुस् तथैव च ॥
ऋचेयुश् च जलेयुश् च स्थलेयुश् च महाबलः
धनेयुश् च वनेयुश् च पुत्रकाश् च दश स्त्रियः ॥
भद्रा शूद्रा च मद्रा च शलदा मलदा तथा
खलदा च ततो विप्रा नलदा सुरसापि च ॥
तथा गोचपला च स्त्री रत्नकूटा च ता दश
ऋषिर् जातो ऽत्रिवंशे च तासां भर्ता प्रभाकरः ॥
भद्रायां जनयाम् आस सुतं सोमं यशस्विनम्
स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥
तमोभिभूते लोके च प्रभा येन प्रवर्तिता
स्वस्ति ते ऽस्त्व् इति चोक्त्वा वै पतमानो दिवाकरः ॥
वचनात् तस्य विप्रर्षेर् न पपात दिवो महीम्
अत्रिश्रेष्ठानि गोत्राणि यश् चकार महातपाः ॥
यज्ञेष्व् अत्रेर् बलं चैव देवैर् यस्य प्रतिष्ठितम्
स तासु जनयाम् आस पुत्रिकास्व् आत्मकामजान् ॥
दश पुत्रान् महासत्त्वांस् तपस्य् उग्रे रतांस् तथा
ते तु गोत्रकरा विप्रा ऋषयो वेदपारगाः ॥
स्वस्त्यात्रेया इति ख्याताः किंच त्रिधनवर्जिताः
कक्षेयोस् तनयास् त्व् आसंस् त्रय एव महारथाः ॥
सभानरश् चाक्षुषश् च परमन्युस् तथैव च
सभानरस्य पुत्रस् तु विद्वान् कालानलो नृपः ॥
कालानलस्य धर्मज्ञः सृञ्जयो नाम वै सुतः
सृञ्जयस्याभवत् पुत्रो वीरो राजा पुरंजयः ॥
जनमेजयो मुनिश्रेष्ठाः पुरंजयसुतो ऽभवत्
जनमेजयस्य राजर्षेर् महाशालो ऽभवत् सुतः ॥
देवेषु स परिज्ञातः प्रतिष्ठितयशा भुवि
महामना नाम सुतो महाशालस्य विश्रुतः ॥
जज्ञे वीरः सुरगणैः पूजितः सुमहामनाः
महामनास् तु पुत्रौ द्वौ जनयाम् आस भो द्विजाः ॥
उशीनरं च धर्मज्ञं तितिक्षुं च महाबलम्
उशीनरस्य पत्न्यस् तु पञ्च राजर्षिवंशजाः ॥
नृगा कृमिर् नवा दर्वा पञ्चमी च दृषद्वती
उशीनरस्य पुत्रास् तु पञ्च तासु कुलोद्वहाः ॥
तपसा चैव महता जाता वृद्धस्य चात्मजाः
नृगायास् तु नृगः पुत्रः कृम्यां कृमिर् अजायत ॥
नवायास् तु नवः पुत्रो दर्वायाः सुव्रतो ऽभवत्
दृषद्वत्यास् तु संजज्ञे शिबिर् औशीनरो नृपः ॥
शिबेस् तु शिबयो विप्रा यौधेयास् तु नृगस्य ह
नवस्य नवराष्ट्रं तु कृमेस् तु कृमिला पुरी ॥
सुव्रतस्य तथाम्बष्ठाः शिबिपुत्रान् निबोधत
शिबेस् तु शिबयः पुत्राश् चत्वारो लोकविश्रुताः ॥
वृषदर्भः सुवीरश् च केकयो मद्रकस् तथा
तेषां जनपदाः स्फीता केकया मद्रकास् तथा ॥
वृषदर्भाः सुवीराश् च तितिक्षोस् तु प्रजास् त्व् इमाः
तितिक्षुर् अभवद् राजा पूर्वस्यां दिशि भो द्विजाः ॥
उषद्रथो महावीर्यः फेनस् तस्य सुतो ऽभवत्
फेनस्य सुतपा जज्ञे ततः सुतपसो बलिः ॥
जातो मानुषयोनौ तु स राजा काञ्चनेषुधिः
महायोगी स तु बलिर् बभूव नृपतिः पुरा ॥
पुत्रान् उत्पादयाम् आस पञ्च वंशकरान् भुवि
अङ्गः प्रथमतो जज्ञे वङ्गः सुह्मस् तथैव च ॥
पुण्ड्रः कलिङ्गश् च तथा बालेयं क्षत्रम् उच्यते
बालेया ब्राह्मणाश् चैव तस्य वंशकरा भुवि ॥
बलेश् च ब्रह्मणा दत्तो वरः प्रीतेन भो द्विजाः
महायोगित्वम् आयुश् च कल्पस्य परिमाणतः ॥
बले चाप्रतिमत्वं वै धर्मतत्त्वार्थदर्शनम्
संग्रामे चाप्य् अजेयत्वं धर्मे चैव प्रधानताम् ॥
त्रैलोक्यदर्शनं चापि प्राधान्यं प्रसवे तथा
चतुरो नियतान् वर्णांस् त्वं च स्थापयितेति च ॥
इत्य् उक्तो विभुना राजा बलिः शान्तिं परां ययौ
कालेन महता विप्राः स्वं च स्थानम् उपागमत् ॥
तेषां जनपदाः पञ्च अङ्गा वङ्गाः ससुह्मकाः
कलिङ्गाः पुण्ड्रकाश् चैव प्रजास् त्व् अङ्गस्य सांप्रतम् ॥
अङ्गपुत्रो महान् आसीद् राजेन्द्रो दधिवाहनः
दधिवाहनपुत्रस् तु राजा दिविरथो ऽभवत् ॥
पुत्रो दिविरथस्यासीच् छक्रतुल्यपराक्रमः
विद्वान् धर्मरथो नाम तस्य चित्ररथः सुतः ॥
तेन धर्मरथेनाथ तदा कालञ्जरे गिरौ
यजता सह शक्रेण सोमः पीतो महात्मना ॥
अथ चित्ररथस्यापि पुत्रो दशरथो ऽभवत्
लोमपाद इति ख्यातो यस्य शान्ता सुताभवत् ॥
तस्य दाशरथिर् वीरश् चतुरङ्गो महायशाः
ऋष्यशृङ्गप्रसादेन जज्ञे वंशविवर्धनः ॥
चतुरङ्गस्य पुत्रस् तु पृथुलाक्ष इति स्मृतः
पृथुलाक्षसुतो राजा चम्पो नाम महायशाः ॥
चम्पस्य तु पुरी चम्पा या मालिन्य् अभवत् पुरा
पूर्णभद्रप्रसादेन हर्यङ्गो ऽस्य सुतो ऽभवत् ॥
ततो वैभाण्डकिस् तस्य वारणं शक्रवारणम्
अवतारयाम् आस महीं मन्त्रैर् वाहनम् उत्तमम् ॥
हर्यङ्गस्य सुतस् तत्र राजा भद्ररथः स्मृतः
पुत्रो भद्ररथस्यासीद् बृहत्कर्मा प्रजेश्वरः ॥
बृहद्दर्भः सुतस् तस्य यस्माज् जज्ञे बृहन्मनाः
बृहन्मनास् तु राजेन्द्रो जनयाम् आस वै सुतम् ॥
नाम्ना जयद्रथं नाम यस्माद् दृढरथो नृपः
आसीद् दृढरथस्यापि विश्वजिज् जनमेजयी ॥
दायादस् तस्य वैकर्णो विकर्णस् तस्य चात्मजः
तस्य पुत्रशतं त्व् आसीद् अङ्गानां कुलवर्धनम् ॥
एते ऽङ्गवंशजाः सर्वे राजानः कीर्तिता मया
सत्यव्रता महात्मानः प्रजावन्तो महारथाः ॥
ऋचेयोस् तु मुनिश्रेष्ठा रौद्राश्वतनयस्य वै
शृणुध्वं संप्रवक्ष्यामि वंशं राज्ञस् तु भो द्विजाः ॥
ऋचेयोस् तनयो राजा मतिनारो महीपतिः
मतिनारसुतास् त्व् आसंस् त्रयः परमधार्मिकाः ॥
वसुरोधः प्रतिरथः सुबाहुश् चैव धार्मिकः
सर्वे वेदविदश् चैव ब्रह्मण्याः सत्यवादिनः ॥
इला नाम तु यस्यासीत् कन्या वै मुनिसत्तमाः
ब्रह्मवादिन्य् अधिस्त्री सा तंसुस् ताम् अभ्यगच्छत ॥
तंसोः सुतो ऽथ राजर्षिर् धर्मनेत्रः प्रतापवान्
ब्रह्मवादी पराक्रान्तस् तस्य भार्योपदानवी ॥
उपदानवी ततः पुत्रांश् चतुरो ऽजनयच् छुबान्
दुष्यन्तम् अथ सुष्मन्तं प्रवीरम् अनघं तथा ॥
दुष्यन्तस्य तु दायादो भरतो नाम वीर्यवान्
स सर्वदमनो नाम नागायुतबलो महान् ॥
चक्रवर्ती सुतो जज्ञे दुष्यन्तस्य महात्मनः
शकुन्तलायां भरतो यस्य नाम्ना तु भारताः ॥
भरतस्य विनष्टेषु तनयेषु महीपतेः
मातॄणां तु प्रकोपेण मया तत् कथितं पुरा ॥
बृहस्पतेर् अङ्गिरसः पुत्रो विप्रो महामुनिः
अयाजयद् भरद्वाजो महद्भिः क्रतुभिर् विभुः ॥
पूर्वं तु वितथे तस्य कृते वै पुत्रजन्मनि
ततो ऽथ वितथो नाम भरद्वाजात् सुतो ऽभवत् ॥
ततो ऽथ वितथे जाते भरतस् तु दिवं ययौ
वितथं चाभिषिच्याथ भरद्वाजो वनं ययौ ॥
स चापि वितथः पुत्राञ् जनयाम् आस पञ्च वै
सुहोत्रं च सुहोतारं गयं गर्गं तथैव च ॥
कपिलं च महात्मानं सुहोत्रस्य सुतद्वयम्
काशिकं च महासत्यं तथा गृत्समतिं नृपम् ॥
तथा गृत्समतेः पुत्रा ब्राह्मणाः क्षत्रिया विशः
काशिकस्य तु काशेयः पुत्रो दीर्घतपास् तथा ॥
बभूव दीर्घतपसो विद्वान् धन्वन्तरिः सुतः
धन्वन्तरेस् तु तनयः केतुमान् इति विश्रुतः ॥
तथा केतुमतः पुत्रो विद्वान् भीमरथः स्मृतः
पुत्रो भीमरथस्यापि वाराणस्यधिपो ऽभवत् ॥
दिवोदास इति ख्यातः सर्वक्षत्रप्रणाशनः
दिवोदासस्य पुत्रस् तु वीरो राजा प्रतर्दनः ॥
प्रतर्दनस्य पुत्रौ द्वौ वत्सो भार्गव एव च
अलर्को राजपुत्रस् तु राजा सन्मतिमान् भुवि ॥
हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः
आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥
भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना
दिवोदासेन बालेति घृणयासौ विसर्जितः ॥
अष्टारथो नाम नृपः सुतो भीमरथस्य वै
तेन पुत्रेण बालस्य प्रहृतं तस्य भो द्विजाः ॥
वैरस्यान्तं मुनिश्रेष्ठाः क्षत्रियेण विधित्सता
अलर्कः काशिराजस् तु ब्रह्मण्यः सत्यसंगरः ॥
षष्टिं वर्षसहस्राणि षष्टिं वर्षशतानि च
युवा रूपेण संपन्न आसीत् काशिकुलोद्वहः ॥
लोपामुद्राप्रसादेन परमायुर् अवाप सः
वयसो ऽन्ते मुनिश्रेष्ठा हत्वा क्षेमकराक्षसम् ॥
रम्यां निवेशयाम् आस पुरीं वाराणसीं नृपः
अलर्कस्य तु दायादः क्षेमको नाम पार्थिवः ॥
क्षेमकस्य तु पुत्रो वै वर्षकेतुस् ततो ऽभवत्
वर्षकेतोश् च दायादो विभुर् नाम प्रजेश्वरः ॥
आनर्तस् तु विभोः पुत्रः सुकुमारस् ततो ऽभवत्
सुकुमारस्य पुत्रस् तु सत्यकेतुर् महारथः ॥
सुतो ऽभवन् महातेजा राजा परमधार्मिकः
वत्सस्य वत्सभूमिस् तु भर्गभूमिस् तु भार्गवात् ॥
एते त्व् अङ्गिरसः पुत्रा जाता वंशे ऽथ भार्गवे
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मुनिसत्तमाः ॥
आजमीढो ऽपरो वंशः श्रूयतां द्विजसत्तमाः
सुहोत्रस्य बृहत् पुत्रो बृहतस् तनयास् त्रयः ॥
अजमीढो द्विमीढश् च पुरुमीढश् च वीर्यवान्
अजमीढस्य पत्न्यस् तु तिस्रो वै यशसान्विताः ॥
नीली च केशिनी चैव धूमिनी च वराङ्गनाः
अजमीढस्य केशिन्यां जज्ञे जह्नुः प्रतापवान् ॥
आजह्रे यो महासत्त्रं सर्वमेधमखं विभुम्
पतिलोभेन यं गङ्गा विनीतेव ससार ह ॥
नेच्छतः प्लावयाम् आस तस्य गङ्गा च तत् सदः
तत् तया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥
जह्नुर् अप्य् अब्रवीद् गङ्गां क्रुद्धो विप्रास् तदा नृपः
एष ते त्रिषु लोकेषु संक्षिप्यापः पिबाम्य् अहम्
अस्य गङ्गे ऽवलेपस्य सद्यः फलम् अवाप्नुहि ॥
ततः पीतां महात्मानो दृष्ट्वा गङ्गां महर्षयः
उपनिन्युर् महाभागा दुहितृत्वेन जाह्नवीम् ॥
युवनाश्वस्य पुत्रीं तु कावेरीं जह्नुर् आवहत्
गङ्गाशापेन देहार्धं यस्याः पश्चान् नदीकृतम् ॥
जह्नोस् तु दयितः पुत्रो अजको नाम वीर्यवान्
अजकस्य तु दायादो बलाकाश्वो महीपतिः ॥
बभूव मृगयाशीलः कुशिकस् तस्य चात्मजः
पह्नवैः सह संवृद्धो राजा वनचरैः सह ॥
कुशिकस् तु तपस् तेपे पुत्रम् इन्द्रसमं विभुम्
लभेयम् इति तं शक्रस् त्रासाद् अभ्येत्य जज्ञिवान् ॥
स गाधिर् अभवद् राजा मघवा कौशिकः स्वयम्
विश्वामित्रस् तु गाधेयो विश्वामित्रात् तथाष्टकः ॥
अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया
आजमीढो ऽपरो वंशः श्रूयतां मुनिसत्तमाः ॥
अजमीढात् तु नील्यां वै सुशान्तिर् उदपद्यत
पुरुजातिः सुशान्तेश् च बाह्याश्वः पुरुजातितः ॥
बाह्याश्वतनयाः पञ्च स्फीता जनपदावृताः
मुद्गलः सृञ्जयश् चैव राजा बृहदिषुस् तदा ॥
यवीनरश् च विक्रान्तः कृमिलाश्वश् च पञ्चमः
पञ्चैते रक्षणायालं देशानाम् इति विश्रुताः ॥
पञ्चानां ते तु पञ्चालाः स्फीता जनपदावृताः
अलं संरक्षणे तेषां पञ्चाला इति विश्रुताः ॥
मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः
इन्द्रसेना यतो गर्भं वध्न्यं च प्रत्यपद्यत ॥
आसीत् पञ्चजनः पुत्रः सृञ्जयस्य महात्मनः
सुतः पञ्चजनस्यापि सोमदत्तो महीपतिः ॥
सोमदत्तस्य दायादः सहदेवो महायशाः
सहदेवसुतश् चापि सोमको नाम विश्रुतः ॥
अजमीढसुतो जातः क्षीणे वंशे तु सोमकः
सोमकस्य सुतो जन्तुर् यस्य पुत्रशतं बभौ ॥
तेषां यवीयान् पृषतो द्रुपदस्य पिता प्रभुः
आजमीढाः स्मृताश् चैते महात्मानस् तु सोमकाः ॥
महिषी त्व् अजमीढस्य धूमिनी पुत्रगृद्धिनी
पतिव्रता महाभागा कुलजा मुनिसत्तमाः ॥
सा च पुत्रार्थिनी देवी व्रतचर्यासमन्विता
ततो वर्षायुतं तप्त्वा तपः परमदुश्चरम् ॥
हुत्वाग्निं विधिवत् सा तु पवित्रा मितभोजना
अग्निहोत्रकुशेष्व् एव सुष्वाप मुनिसत्तमाः ॥
धूमिन्या स तया देव्या त्व् अजमीढः समीयिवान्
ऋक्षं संजनयाम् आस धूम्रवर्णं सुदर्शनम् ॥
ऋक्षात् संवरणो जज्ञे कुरुः संवरणात् तथा
यः प्रयागाद् अतिक्रम्य कुरुक्षेत्रं चकार ह ॥
पुण्यं च रमणीयं च पुण्यकृद्भिर् निषेवितम्
तस्यान्ववायः सुमहान् यस्य नाम्नाथ कौरवाः ॥
कुरोश् च पुत्राश् चत्वारः सुधन्वा सुधनुस् तथा
परीक्षिच् च महाबाहुः प्रवरश् चारिमेजयः ॥
परीक्षितस् तु दायादो धार्मिको जनमेजयः
श्रुतसेनो ऽग्रसेनश् च भीमसेनश् च नामतः ॥
एते सर्वे महाभागा विक्रान्ता बलशालिनः
जनमेजयस्य पुत्रस् तु सुरथो मतिमांस् तथा ॥
सुरथस्य तु विक्रान्तः पुत्रो जज्ञे विदूरथः
विदूरथस्य दायाद ऋक्ष एव महारथः ॥
द्वितीयस् तु भरद्वाजान् नाम्ना तेनैव विश्रुतः
द्वाव् ऋक्षौ सोमवंशे ऽस्मिन् द्वाव् एव च परीक्षितौ ॥
भीमसेनास् त्रयो विप्रा द्वौ चापि जनमेजयौ
ऋक्षस्य तु द्वितीयस्य भीमसेनो ऽभवत् सुतः ॥
प्रतीपो भीमसेनात् तु प्रतीपस्य तु शांतनुः
देवापिर् बाह्लिकश् चैव त्रय एव महारथाः ॥
शांतनोस् त्व् अभवद् भीष्मस् तस्मिन् वंशे द्विजोत्तमाः
बाह्लिकस्य तु राजर्षेर् वंशं शृणुत भो द्विजाः ॥
बाह्लिकस्य सुतश् चैव सोमदत्तो महायशाः
जज्ञिरे सोमदत्तात् तु भूरिर् भूरिश्रवाः शलः ॥
उपाध्यायस् तु देवानां देवापिर् अभवन् मुनिः
च्यवनपुत्रः कृतक इष्ट आसीन् महात्मनः ॥
शांतनुस् त्व् अभवद् राजा कौरवाणां धुरंधरः
शांतनोः संप्रवक्ष्यामि वंशं त्रैलोक्यविश्रुतम् ॥
गाङ्गं देवव्रतं नाम पुत्रं सो ऽजनयत् प्रभुः
स तु भीष्म इति ख्यातः पाण्डवानां पितामहः ॥
काली विचित्रवीर्यं तु जनयाम् आस भो द्विजाः
शांतनोर् दयितं पुत्रं धर्मात्मानम् अकल्मषम् ॥
कृष्णद्वैपायनाच् चैव क्षेत्रे वैचित्रवीर्यके
धृतराष्ट्रं च पाण्डुं च विदुरं चाप्य् अजीजनत् ॥
धृतराष्ट्रस् तु गान्धार्यां पुत्रान् उत्पादयच् छतम्
तेषां दुर्योधनः श्रेष्ठः सर्वेषाम् अपि स प्रभुः ॥
पाण्डोर् धनंजयः पुत्रः सौभद्रस् तस्य चात्मजः
अभिमन्योः परीक्षित् तु पिता पारीक्षितस्य ह ॥
पारीक्षितस्य काश्यायां द्वौ पुत्रौ संबभूवतुः
चन्द्रापीडस् तु नृपतिः सूर्यापीडश् च मोक्षवित् ॥
चन्द्रापीडस्य पुत्राणां शतम् उत्तमधन्विनाम्
जानमेजयम् इत्य् एवं क्षात्रं भुवि परिश्रुतम् ॥
तेषां ज्येष्ठस् तु तत्रासीत् पुरे वारणसाह्वये
सत्यकर्णो महाबाहुर् यज्वा विपुलदक्षिणः ॥
सत्यकर्णस्य दायादः श्वेतकर्णः प्रतापवान्
अपुत्रः स तु धर्मात्मा प्रविवेश तपोवनम् ॥
तस्माद् वनगता गर्भं यादवी प्रत्यपद्यत
सुचारोर् दुहिता सुभ्रूर् मालिनी ग्राहमालिनी ॥
संभूते स च गर्भे च श्वेतकर्णः प्रजेश्वरः
अन्वगच्छत् कृतं पूर्वं महाप्रस्थानम् अच्युतम् ॥
सा तु दृष्ट्वा प्रियं तं तु मालिनी पृष्ठतो ऽन्वगात्
सुचारोर् दुहिता साध्वी वने राजीवलोचना ॥
पथि सा सुषुवे बाला सुकुमारं कुमारकम्
तम् अपास्याथ तत्रैव राजानं सान्वगच्छत ॥
पतिव्रता महाभागा द्रौपदीव पुरा सती
कुमारः सुकुमारो ऽसौ गिरिपृष्ठे रुरोद ह ॥
दयार्थं तस्य मेघास् तु प्रादुरासन् महात्मनः
श्रविष्ठायास् तु पुत्रौ द्वौ पैप्पलादिश् च कौशिकः ॥
दृष्ट्वा कृपान्वितौ गृह्य तौ प्राक्षालयतां जले
निघृष्टौ तस्य पार्श्वौ तु शिलायां रुधिरप्लुतौ ॥
अजश्यामः स पार्श्वाभ्यां घृष्टाभ्यां सुसमाहितः
अजश्यामौ तु तत्पार्श्वौ देवेन संबभूवतुः ॥
अथाजपार्श्व इति वै चक्राते नाम तस्य तौ
स तु रेमकशालायां द्विजाभ्याम् अभिवर्धितः ॥
रेमकस्य तु भार्या तम् उद्वहत् पुत्रकारणात्
रेमत्याः स तु पुत्रो ऽभूद् ब्राह्मणौ सचिवौ तु तौ ॥
तेषां पुत्राश् च पौत्राश् च युगपत्तुल्यजीविनः
स एष पौरवो वंशः पाण्डवानां महात्मनाम् ॥
श्लोको ऽपि चात्र गीतो ऽयं नाहुषेण ययातिना
जरासंक्रमणे पूर्वं तदा प्रीतेन धीमता ॥
अचन्द्रार्कग्रहा भूमिर् भवेद् इयम् असंशयम्
अपौरवा मही नैव भविष्यति कदाचन ॥
एष वः पौरवो वंशो विख्यातः कथितो मया
तुर्वसोस् तु प्रवक्ष्यामि द्रुह्योश् चानोर् यदोस् तथा ॥
तुर्वसोस् तु सुतो वह्निर् गोभानुस् तस्य चात्मजः
गोभानोस् तु सुतो राजा ऐशानुर् अपराजितः ॥
करंधमस् तु ऐशानोर् मरुत्तस् तस्य चात्मजः
अन्यस् त्व् आविक्षितो राजा मरुत्तः कथितो मया ॥
अनपत्यो ऽभवद् राजा यज्वा विपुलदक्षिणः
दुहिता संयता नाम तस्यासीत् पृथिवीपतेः ॥
दक्षिणार्थं तु सा दत्ता संवर्ताय महात्मने
दुष्यन्तं पौरवं चापि लेभे पुत्रम् अकल्मषम् ॥
एवं ययातिशापेन जरासंक्रमणे तदा
पौरवं तुर्वसोर् वंशं प्रविवेश द्विजोत्तमाः ॥
दुष्यन्तस्य तु दायादः करूरोमः प्रजेश्वरः
करूरोमाद् अथाह्रीदश् चत्वारस् तस्य चात्मजाः ॥
पाण्ड्यश् च केरलश् चैव कालश् चोलश् च पार्थिवः
द्रुह्योश् च तनयो राजन् बभ्रुसेतुश् च पार्थिवः ॥
अङ्गारसेतुस् तत्पुत्रो मरुतां पतिर् उच्यते
यौवनाश्वेन समरे कृच्छ्रेण निहतो बली ॥
युद्धं सुमहद् अप्य् आसीन् मासान् परिचरद् दश
अङ्गारसेतोर् दायादो गान्धारो नाम पार्थिवः ॥
ख्यायते यस्य नाम्ना वै गान्धारविषयो महान्
गान्धारदेशजाश् चैव तुरगा वाजिनां वराः ॥
अनोस् तु पुत्रो धर्मो ऽभूद् द्यूतस् तस्यात्मजो ऽभवत्
द्यूताद् वनदुहो जज्ञे प्रचेतास् तस्य चात्मजः ॥
प्रचेतसः सुचेतास् तु कीर्तितास् त्व् अनवो मया
बभूवुस् तु यदोः पुत्राः पञ्च देवसुतोपमाः ॥
सहस्रादः पयोदश् च क्रोष्टा नीलो ऽञ्जिकस् तथा
सहस्रादस्य दायादास् त्रयः परमधार्मिकाः ॥
हैहयश् च हयश् चैव राजा वेणुहयस् तथा
हैहयस्याभवत् पुत्रो धर्मनेत्र इति श्रुतः ॥
धर्मनेत्रस्य कार्तस् तु साहञ्जस् तस्य चात्मजः
साहञ्जनी नाम पुरी तेन राज्ञा निवेशिता ॥
आसीन् महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान्
भद्रश्रेण्यस्य दायादो दुर्दमो नाम विश्रुतः ॥
दुर्दमस्य सुतो धीमान् कनको नाम नामतः
कनकस्य तु दायादाश् चत्वारो लोकविश्रुताः ॥
कृतवीर्यः कृतौजाश् च कृतधन्वा तथैव च
कृताग्निस् तु चतुर्थो ऽभूत् कृतवीर्याद् अथार्जुनः ॥
यो ऽसौ बाहुसहस्रेण सप्तद्वीपेश्वरो ऽभवत्
जिगाय पृथिवीम् एको रथेनादित्यवर्चसा ॥
स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम्
दत्तम् आराधयाम् आस कार्तवीर्यो ऽत्रिसंभवम् ॥
तस्मै दत्तो वरान् प्रादाच् चतुरो भूरितेजसः
पूर्वं बाहुसहस्रं तु प्रार्थितं सुमहद् वरम् ॥
अधर्मे ऽधीयमानस्य सद्भिस् तत्र निवारणम्
उग्रेण पृथिवीं जित्वा धर्मेणैवानुरञ्जनम् ॥
संग्रामान् सुबहूञ् जित्वा हत्वा चारीन् सहस्रशः
संग्रामे वर्तमानस्य वधं चाभ्यधिकाद् रणे ॥
तस्य बाहुसहस्रं तु युध्यतः किल भो द्विजाः
योगाद् योगीश्वरस्येव प्रादुर्भवति मायया ॥
तेनेयं पृथिवी सर्वा सप्तद्वीपा सपत्तना
ससमुद्रा सनगरा उग्रेण विधिना जिता ॥
तेन सप्तसु द्वीपेषु सप्त यज्ञशतानि च
प्राप्तानि विधिना राज्ञा श्रूयन्ते मुनिसत्तमाः ॥
सर्वे यज्ञा मुनिश्रेष्ठाः सहस्रशतदक्षिणाः
सर्वे काञ्चनयूपाश् च सर्वे काञ्चनवेदयः ॥
सर्वे देवैर् मुनिश्रेष्ठा विमानस्थैर् अलंकृतैः
गन्धर्वैर् अप्सरोभिश् च नित्यम् एवोपशोभिताः ॥
यस्य यज्ञे जगौ गाथां गन्धर्वो नारदस् तथा
वरीदासात्मजो विद्वान् महिम्ना तस्य विस्मितः ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः
यज्ञैर् दानैस् तपोभिश् च विक्रमेण श्रुतेन च ॥
स हि सप्तसु द्वीपेषु चर्मी खड्गी शरासनी
रथी द्वीपान् अनुचरन् योगी संदृश्यते नृभिः ॥
अनष्टद्रव्यता चैव न शोको न च विभ्रमः
प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षतः ॥
स सर्वरत्नभाक् सम्राट् चक्रवर्ती बभूव ह
स एव पशुपालो ऽभूत् क्षेत्रपालः स एव च ॥
स एव वृष्ट्या पर्जन्यो योगित्वाद् अर्जुनो ऽभवत्
स वै बाहुसहस्रेण ज्याघातकठिनत्वचा ॥
भाति रश्मिसहस्रेण शरदीव च भास्करः
स हि नागान् मनुष्येषु माहिष्मत्यां महाद्युतिः ॥
कर्कोटकसुताञ् जित्वा पुर्यां तस्यां न्यवेशयत्
स वै वेगं समुद्रस्य प्रावृट्काले ऽम्बुजेक्षणः ॥
क्रीडन्न् इव भुजोद्भिन्नं प्रतिस्रोतश् चकार ह
लुण्ठिता क्रीडता तेन नदी तद्ग्राममालिनी ॥
चलदूर्मिसहस्रेण शङ्किताभ्येति नर्मदा
तस्य बाहुसहस्रेण क्षिप्यमाणे महोदधौ ॥
भयान् निलीना निश्चेष्ठाः पातालस्था महीसुराः
चूर्णीकृतमहावीचिं चलन्मीनमहातिमिम् ॥
मारुताविद्धफेनौघम् आवर्तक्षोभसंकुलम्
प्रावर्तयत् तदा राजा सहस्रेण च बाहुना ॥
देवासुरसमाक्षिप्तः क्षीरोदम् इव मन्दरः
मन्दरक्षोभचकिता अमृतोत्पादशङ्किताः ॥
सहसोत्पतिता भीता भीमं दृष्ट्वा नृपोत्तमम्
नता निश्चलमूर्धानो बभूवुस् ते महोरगाः ॥
सायाह्ने कदलीखण्डाः कम्पिता इव वायुना
स वै बद्ध्वा धनुर् ज्याभिर् उत्सिक्तं पञ्चभिः शरैः ॥
लङ्केशं मोहयित्वा तु सबलं रावणं बलात्
निर्जित्य वशम् आनीय माहिष्मत्यां बबन्ध तम् ॥
श्रुत्वा तु बद्धं पौलस्त्यं रावणं त्व् अर्जुनेन च
ततो गत्वा पुलस्त्यस् तम् अर्जुनं ददृशे स्वयम् ॥
मुमोच रक्षः पौलस्त्यं पुलस्त्येनाभियाचितः
यस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥
युगान्ते तोयदस्येव स्फुटतो ह्य् अशनेर् इव
अहो बत मृधे वीर्यं भार्गवस्य यद् अच्छिनत् ॥
राज्ञो बाहुसहस्रस्य हैमं तालवनं यथा
तृषितेन कदाचित् स भिक्षितश् चित्रभानुना ॥
स भिक्षाम् अददाद् वीरः सप्त द्वीपान् विभावसोः
पुराणि ग्रामघोषांश् च विषयांश् चैव सर्वशः ॥
जज्वाल तस्य सर्वाणि चित्रभानुर् दिधृक्षया
स तस्य पुरुषेन्द्रस्य प्रभावेण महात्मनः ॥
ददाह कार्तवीर्यस्य शैलांश् चैष वनानि च
स शून्यम् आश्रमं रम्यं वरुणस्यात्मजस्य वै ॥
ददाह बलवद्भीतश् चित्रभानुः स हैहयः
यं लेभे वरुणः पुत्रं पुरा भास्वन्तम् उत्तमम् ॥
वसिष्ठं नाम स मुनिः ख्यात आपव इत्य् उत
यत्रापवस् तु तं क्रोधाच् छप्तवान् अर्जुनं विभुः ॥
यस्मान् न वर्जितम् इदं वनं ते मम हैहय
तस्मात् ते दुष्करं कर्म कृतम् अन्यो हनिष्यति ॥
रामो नाम महाबाहुर् जामदग्न्यः प्रतापवान्
छित्त्वा बाहुसहस्रं ते प्रमथ्य तरसा बली ॥
तपस्वी ब्राह्मणस् त्वां तु हनिष्यति स भार्गवः
अनष्टद्रव्यता यस्य बभूवामित्रकर्षिणः ॥
प्रतापेन नरेन्द्रस्य प्रजा धर्मेण रक्षतः
प्राप्तस् ततो ऽस्य मृत्युर् वै तस्य शापान् महामुनेः ॥
वरस् तथैव भो विप्राः स्वयम् एव वृतः पुरा
तस्य पुत्रशतं त्व् आसीत् पञ्च शेषा महात्मनः ॥
कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः
शूरसेनश् च शूरश् च वृषणो मधुपध्वजः ॥
जयध्वजश् च नाम्नासीद् आवन्त्यो नृपतिर् महान्
कार्तवीर्यस्य तनया वीर्यवन्तो महाबलाः ॥
जयध्वजस्य पुत्रस् तु तालजङ्घो महाबलः
तस्य पुत्रशतं ख्यातास् तालजङ्घा इति स्मृताः ॥
तेषां कुले मुनिश्रेष्ठा हैहयानां महात्मनाम्
वीतिहोत्राः सुजाताश् च भोजाश् चावन्तयः स्मृताः ॥
तौण्डिकेराश् च विख्यातास् तालजङ्घास् तथैव च
भरताश् च सुजाताश् च बहुत्वान् नानुकीर्तिताः ॥
वृषप्रभृतयो विप्रा यादवाः पुण्यकर्मिणः
वृषो वंशधरस् तत्र तस्य पुत्रो ऽभवन् मधुः ॥
मधोः पुत्रशतं त्व् आसीद् वृषणस् तस्य वंशकृत्
वृषणाद् वृष्णयः सर्वे मधोस् तु माधवाः स्मृताः ॥
यादवा यदुनाम्ना ते निरुच्यन्ते च हैहयाः
न तस्य वित्तनाशः स्यान् नष्टं प्रति लभेच् च सः ॥
कार्तवीर्यस्य यो जन्म कथयेद् इह नित्यशः
एते ययातिपुत्राणां पञ्च वंशा द्विजोत्तमाः ॥
कीर्तिता लोकवीराणां ये लोकान् धारयन्ति वै
भूतानीव मुनिश्रेष्ठाः पञ्च स्थावरजङ्गमान् ॥
श्रुत्वा पञ्च विसर्गांस् तु राजा धर्मार्थकोविदः
वशी भवति पञ्चानाम् आत्मजानां तथेश्वरः ॥
लभेत् पञ्च वरांश् चैव दुर्लभान् इह लौकिकान्
आयुः कीर्तिं तथा पुत्रान् ऐश्वर्यं भूतिम् एव च ॥
धारणाच् छ्रवणाच् चैव पञ्चवर्गस्य भो द्विजाः
क्रोष्टोर् वंशं मुनिश्रेष्ठाः शृणुध्वं गदतो मम ॥
यदोर् वंशधरस्याथ यज्विनः पुण्यकर्मिणः
क्रोष्टोर् वंशं हि श्रुत्वैव सर्वपापैः प्रमुच्यते
यस्यान्ववायजो विष्णुर् हरिर् वृष्णिकुलोद्वहः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0