भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 12

12.1

उत्पन्नाः पितृकन्यायां विरजायां महौजसः
नहुषस्य तु दायादाः षड् इन्द्रोपमतेजसः ॥

12.2

यतिर् ययातिः संयातिर् आयातिः पार्श्वको ऽभवत्
यतिर् ज्येष्ठस् तु तेषां वै ययातिस् तु ततः परम् ॥

12.3

ककुत्स्थकन्यां गां नाम लेभे परमधार्मिकः
यतिस् तु मोक्षम् आस्थाय ब्रह्मभूतो ऽभवन् मुनिः ॥

12.4

तेषां ययातिः पञ्चानां विजित्य वसुधाम् इमाम्
देवयानीम् उशनसः सुतां भार्याम् अवाप सः ॥

12.5

शर्मिष्ठाम् आसुरीं चैव तनयां वृषपर्वणः
यदुं च तुर्वसुं चैव देवयानी व्यजायत ॥

12.6

द्रुह्यं चानुं च पुरुं च शर्मिष्ठा वार्षपर्वणी
तस्मै शक्रो ददौ प्रीतो रथं परमभास्वरम् ॥

12.7

अङ्गदं काञ्चनं दिव्यं दिव्यैः परमवाजिभिः
युक्तं मनोजवैः शुभ्रैर् येन कार्यं समुद्वहन् ॥

12.8

स तेन रथमुख्येन षड्रात्रेणाजयन् महीम्
ययातिर् युधि दुर्धर्षस् तथा देवान् सदानवान् ॥

12.9

सरथः कौरवाणां तु सर्वेषाम् अभवत् तदा
संवर्तवसुनाम्नस् तु कौरवाज् जनमेजयात् ॥

12.10

कुरोः पुत्रस्य राजेन्द्र राज्ञः पारीक्षितस्य ह
जगाम स रथो नाशं शापाद् गर्गस्य धीमतः ॥

12.11

गर्गस्य हि सुतं बालं स राजा जनमेजयः
कालेन हिंसयाम् आस ब्रह्महत्याम् अवाप सः ॥

12.12

स लोहगन्धी राजर्षिः परिधावन्न् इतस् ततः
पौरजानपदैस् त्यक्तो न लेभे शर्म कर्हिचित् ॥

12.13

ततः स दुःखसंतप्तो नालभत् संविदं क्वचित्
विप्रेन्द्रं शौनकं राजा शरणं प्रत्यपद्यत ॥

12.14

याजयाम् आस च ज्ञानी शौनको जनमेजयम्
अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः ॥

12.15

स लोहगन्धो व्यनशत् तस्यावभृथम् एत्य च
स च दिव्यरथो राज्ञो वशश् चेदिपतेस् तदा ॥

12.16

दत्तः शक्रेण तुष्टेन लेभे तस्माद् बृहद्रथः
बृहद्रथात् क्रमेणैव गतो बार्हद्रथं नृपम् ॥

12.17

ततो हत्वा जरासंधं भीमस् तं रथम् उत्तमम्
प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥

12.18

सप्तद्वीपां ययातिस् तु जित्वा पृथ्वीं ससागराम्
विभज्य पञ्चधा राज्यं पुत्राणां नाहुषस् तदा ॥

12.19

ययातिर् दिशि पूर्वस्यां यदुं ज्येष्ठं न्ययोजयत्
मध्ये पुरुं च राजानम् अभ्यषिञ्चत् स नाहुषः ॥

12.20

दिशि दक्षिणपूर्वस्यां तुर्वसुं मतिमान् नृपः
तैर् इयं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥

12.21

यथाप्रदेशम् अद्यापि धर्मेण प्रतिपाल्यते
प्रजास् तेषां पुरस्तात् तु वक्ष्यामि मुनिसत्तमाः ॥

12.22

धनुर् न्यस्य पृषत्कांश् च पञ्चभिः पुरुषर्षभैः
जरावान् अभवद् राजा भारम् आवेश्य बन्धुषु ॥

12.23

निक्षिप्तशस्त्रः पृथिवीं चचार पृथिवीपतिः
प्रीतिमान् अभवद् राजा ययातिर् अपराजितः ॥

12.24

एवं विभज्य पृथिवीं ययातिर् यदुम् अब्रवीत्
जरां मे प्रतिगृह्णीष्व पुत्र कृत्यान्तरेण वै ॥

12.25

तरुणस् तव रूपेण चरेयं पृथिवीम् इमाम्
जरां त्वयि समाधाय तं यदुः प्रत्युवाच ह ॥

12.26

अनिर्दिष्टा मया भिक्षा ब्राह्मणस्य प्रतिश्रुता
अनपाकृत्य तां राजन् न ग्रहीष्यामि ते जराम् ॥

12.27

जरायां बहवो दोषाः पानभोजनकारिताः
तस्माज् जरां न ते राजन् ग्रहीतुम् अहम् उत्सहे ॥

12.28

सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप
प्रतिग्रहीतुं धर्मज्ञ पुत्रम् अन्यं वृणीष्व वै ॥

12.29

स एवम् उक्तो यदुना राजा कोपसमन्वितः
उवाच वदतां श्रेष्ठो ययातिर् गर्हयन् सुतम् ॥

12.30

क आश्रमस् तवान्यो ऽस्ति को वा धर्मो विधीयते
माम् अनादृत्य दुर्बुद्धे यद् अहं तव देशिकः ॥

12.31

एवम् उक्त्वा यदुं विप्राः शशापैनं स मन्युमान्
अराज्या ते प्रजा मूढ भवित्रीति न संशयः ॥

12.32

द्रुह्यं च तुर्वसुं चैवाप्य् अनुं च द्विजसत्तमाः
एवम् एवाब्रवीद् राजा प्रत्याख्यातश् च तैर् अपि ॥

12.33

शशाप तान् अतिक्रुद्धो ययातिर् अपराजितः
यथावत् कथितं सर्वं मयास्य द्विजसत्तमाः ॥

12.34

एवं शप्त्वा सुतान् सर्वांश् चतुरः पुरुपूर्वजान्
तद् एव वचनं राजा पुरुम् अप्य् आह भो द्विजाः ॥

12.35

तरुणस् तव रूपेण चरेयं पृथिवीम् इमाम्
जरां त्वयि समाधाय त्वं पुरो यदि मन्यसे ॥

12.36

स जरां प्रतिजग्राह पितुः पुरुः प्रतापवान्
ययातिर् अपि रूपेण पुरोः पर्यचरन् महीम् ॥

12.37

स मार्गमाणः कामानाम् अन्तं नृपतिसत्तमः
विश्वाच्या सहितो रेमे वने चैत्ररथे प्रभुः ॥

12.38

यदा च तृप्तः कामेषु भोगेषु च नराधिपः
तदा पुरोः सकाशाद् वै स्वां जरां प्रत्यपद्यत ॥

12.39

यत्र गाथा मुनिश्रेष्ठा गीताः किल ययातिना
याभिः प्रत्याहरेत् कामान् सर्वशो ऽङ्गानि कूर्मवत् ॥

12.40

न जातु कामः कामानाम् उपभोगेन शाम्यति
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥

12.41

यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
नालम् एकस्य तत् सर्वम् इति कृत्वा न मुह्यति ॥

12.42

यदा भावं न कुरुते सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥

12.43

यदा तेभ्यो न बिभेति यदा चास्मान् न बिभ्यति
यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥

12.44

या दुस्त्यजा दुर्मतिभिर् या न जीर्यति जीर्यतः
यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् ॥

12.45

जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः
धनाशा जीविताशा च जीर्यतो ऽपि न जीर्यति ॥

12.46

यच् च कामसुखं लोके यच् च दिव्यं महत् सुखम्
तृष्णाक्षयसुखस्यैते नार्हन्ति षोडशीं कलाम् ॥

12.47

एवम् उक्त्वा स राजर्षिः सदारः प्राविशद् वनम्
कालेन महता चायं चचार विपुलं तपः ॥

12.48

भृगुतुङ्गे गतिं प्राप तपसो ऽन्ते महायशाः
अनश्नन् देहम् उत्सृज्य सदारः स्वर्गम् आप्तवान् ॥

12.49

तस्य वंशे मुनिश्रेष्ठाः पञ्च राजर्षिसत्तमाः
यैर् व्याप्ता पृथिवी सर्वा सूर्यस्येव गभस्तिभिः ॥

12.50

यदोस् तु वंशं वक्ष्यामि शृणुध्वं राजसत्कृतम्
यत्र नारायणो जज्ञे हरिर् वृष्णिकुलोद्वहः ॥

12.51

सुस्थः प्रजावान् आयुष्मान् कीर्तिमांश् च भवेन् नरः
ययातिचरितं नित्यम् इदं शृण्वन् द्विजोत्तमाः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc