भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 14

14.1

गान्धारी चैव माद्री च क्रोष्टोर् भार्ये बभूवतुः
गान्धारी जनयाम् आस अनमित्रं महाबलम् ॥

14.2

माद्री युधाजितं पुत्रं ततो ऽन्यं देवमीढुषम्
तेषां वंशस् त्रिधा भूतो वृष्णीनां कुलवर्धनः ॥

14.3

माद्र्याः पुत्रौ तु जज्ञाते श्रुतौ वृष्ण्यन्धकाव् उभौ
जज्ञाते तनयौ वृष्णेः श्वफल्कश् चित्रकस् तथा ॥

14.4

श्वफल्कस् तु मुनिश्रेष्ठा धर्मात्मा यत्र वर्तते
नास्ति व्याधिभयं तत्र नावर्षस् तपम् एव च ॥

14.5

कदाचित् काशिराजस्य विषये मुनिसत्तमाः
त्रीणि वर्षाणि पूर्णानि नावर्षत् पाकशासनः ॥

14.6

स तत्र चानयाम् आस श्वफल्कं परमार्चितम्
श्वफल्कपरिवर्तेन ववर्ष हरिवाहनः ॥

14.7

श्वफल्कः काशिराजस्य सुतां भार्याम् अविन्दत
गान्दिनीं नाम गां सा च ददौ विप्राय नित्यशः ॥

14.8

दाता यज्वा च वीरश् च श्रुतवान् अतिथिप्रियः
अक्रूरः सुषुवे तस्माच् छ्वफल्काद् भूरिदक्षिणः ॥

14.9

उपमद्गुस् तथा मद्गुर् मेदुरश् चारिमेजयः
अविक्षितस् तथाक्षेपः शत्रुघ्नश् चारिमर्दनः ॥

14.10

धर्मधृग् यतिधर्मा च धर्मोक्षान्धकरुस् तथा
आवाहप्रतिवाहौ च सुन्दरी च वराङ्गना ॥

14.11

अक्रूरेणोग्रसेनायां सुगात्र्यां द्विजसत्तमाः
प्रसेनश् चोपदेवश् च जज्ञाते देववर्चसौ ॥

14.12

चित्रकस्याभवन् पुत्राः पृथुर् विपृथुर् एव च
अश्वग्रीवो ऽश्वबाहुश् च स्वपार्श्वकगवेषणौ ॥

14.13

अरिष्टनेमिर् अश्वश् च सुधर्मा धर्मभृत् तथा
सुबाहुर् बहुबाहुश् च श्रविष्ठाश्रवणे स्त्रियौ ॥

14.14

असिक्न्यां जनयाम् आस शूरं वै देवमीढुषम्
महिष्यां जज्ञिरे शूरा भोज्यायां पुरुषा दश ॥

14.15

वसुदेवो महाबाहुः पूर्वम् आनकदुन्दुभिः
जज्ञे यस्य प्रसूतस्य दुन्दुभ्यः प्राणदन् दिवि ॥

14.16

आनकानां च संह्रादः सुमहान् अभवद् दिवि
पपात पुष्पवर्षश् च शूरस्य जनने महान् ॥

14.17

मनुष्यलोके कृत्स्ने ऽपि रूपे नास्ति समो भुवि
यस्यासीत् पुरुषाग्र्यस्य कान्तिश् चन्द्रमसो यथा ॥

14.18

देवभागस् ततो जज्ञे तथा देवश्रवाः पुनः
अनाधृष्टिः कनवको वत्सवान् अथ गृञ्जमः ॥

14.19

श्यामः शमीको गण्डूषः पञ्च चास्य वराङ्गनाः
पृथुकीर्तिः पृथा चैव श्रुतदेवा श्रुतश्रवा ॥

14.20

राजाधिदेवी च तथा पञ्चैता वीरमातरः
श्रुतश्रवायां चैद्यस् तु शिशुपालो ऽभवन् नृपः ॥

14.21

हिरण्यकशिपुर् यो ऽसौ दैत्यराजो ऽभवत् पुरा
पृथुकीर्त्यां तु संजज्ञे तनयो वृद्धशर्मणः ॥

14.22

करूषाधिपतिर् वीरो दन्तवक्रो महाबलः
पृथां दुहितरं चक्रे कुन्तिस् तां पाण्डुर् आवहत् ॥

14.23

यस्यां स धर्मविद् राजा धर्मो जज्ञे युधिष्ठिरः
भीमसेनस् तथा वाताद् इन्द्राच् चैव धनंजयः ॥

14.24

लोके प्रतिरथो वीरः शक्रतुल्यपराक्रमः
अनमित्राच् छनिर् जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ॥

14.25

शैनेयः सत्यकस् तस्माद् युयुधानश् च सात्यकिः
उद्धवो देवभागस्य महाभागः सुतो ऽभवत् ॥

14.26

पण्डितानां परं प्राहुर् देवश्रवसम् उत्तमम्
अश्मक्यं प्राप्तवान् पुत्रम् अनाधृष्टिर् यशस्विनम् ॥

14.27

निवृत्तशत्रुं शत्रुघ्नं श्रुतदेवा त्व् अजायत
श्रुतदेवात्मजास् ते तु नैषादिर् यः परिश्रुतः ॥

14.28

एकलव्यो मुनिश्रेष्ठा निषादैः परिवर्धितः
वत्सवते त्व् अपुत्राय वसुदेवः प्रतापवान्
अद्भिर् ददौ सुतं वीरं शौरिः कौशिकम् औरसम् ॥

14.29

गण्डूषाय ह्य् अपुत्राय विष्वक्सेनो ददौ सुतान्
चारुदेष्णं सुदेष्णं च पञ्चालं कृतलक्षणम् ॥

14.30

असंग्रामेण यो वीरो नावर्तत कदाचन
रौक्मिणेयो महाबाहुः कनीयान् द्विजसत्तमाः ॥

14.31

वायसानां सहस्राणि यं यान्तं पृष्ठतो ऽन्वयुः
चारून् अद्योपभोक्ष्यामश् चारुदेष्णहतान् इति ॥

14.32

तन्त्रिजस् तन्त्रिपालश् च सुतौ कनवकस्य तौ
वीरुश् चाश्वहनुश् चैव वीरौ ताव् अथ गृञ्जिमौ ॥

14.33

श्यामपुत्रः शमीकस् तु शमीको राज्यम् आवहत्
जुगुप्समानो भोजत्वाद् राजसूयम् अवाप सः ॥

14.34

अजातशत्रुः शत्रूणां जज्ञे तस्य विनाशनः
वसुदेवसुतान् वीरान् कीर्तयिष्याम्य् अतः परम् ॥

14.35

वृष्णेस् त्रिविधम् एवं तु बहुशाखं महौजसम्
धारयन् विपुलं वंशं नानर्थैर् इह युज्यते ॥

14.36

याः पत्न्यो वसुदेवस्य चतुर्दश वराङ्गनाः
पौरवी रोहिणी नाम मदिरादितथावरा ॥

14.37

वैशाखी च तथा भद्रा सुनाम्नी चैव पञ्चमी
सहदेवा शान्तिदेवा श्रीदेवी देवरक्षिता ॥

14.38

वृकदेव्य् उपदेवी च देवकी चैव सप्तमी
सुतनुर् वडवा चैव द्वे एते परिचारिके ॥

14.39

पौरवी रोहिणी नाम बाह्लिकस्यात्मजाभवत्
ज्येष्ठा पत्नी मुनिश्रेष्ठा दयितानकदुन्दुभेः ॥

14.40

लेभे ज्येष्ठं सुतं रामं शरण्यं शठम् एव च
दुर्दमं दमनं शुभ्रं पिण्डारकम् उशीनरम् ॥

14.41

चित्रा नाम कुमारी च रोहिणीतनया नव
चित्रा सुभद्रेति पुनर् विख्याता मुनिसत्तमाः ॥

14.42

वसुदेवाच् च देवक्यां जज्ञे शौरिर् महायशाः
रामाच् च निशठो जज्ञे रेवत्यां दयितः सुतः ॥

14.43

सुभद्रायां रथी पार्थाद् अभिमन्युर् अजायत
अक्रूरात् काशिकन्यायां सत्यकेतुर् अजायत ॥

14.44

वसुदेवस्य भार्यासु महाभागासु सप्तसु
ये पुत्रा जज्ञिरे शूराः समस्तांस् तान् निबोधत ॥

14.45

भोजश् च विजयश् चैव शान्तिदेवासुताव् उभौ
वृकदेवः सुनामायां गदश् चास्तां सुताव् उभौ ॥

14.46

अगावहं महात्मानं वृकदेवी व्यजायत
कन्या त्रिगर्तराजस्य भार्या वै शिशिरायणेः ॥

14.47

जिज्ञासां पौरुषे चक्रे न चस्कन्दे च पौरुषम्
कृष्णायससमप्रख्यो वर्षे द्वादशमे तथा ॥

14.48

मिथ्याभिशस्तो गार्ग्यस् तु मन्युनातिसमीरितः
घोषकन्याम् उपादाय मैथुनायोपचक्रमे ॥

14.49

गोपाली चाप्सरास् तस्य गोपस्त्रीवेषधारिणी
धारयाम् आस गार्ग्यस्य गर्भं दुर्धरम् अच्युतम् ॥

14.50

मानुष्यां गर्गभार्यायां नियोगाच् छूलपाणिनः
स कालयवनो नाम जज्ञे राजा महाबलः ॥

14.51

वृत्तपूर्वार्धकायस् तु सिंहसंहननो युवा
अपुत्रस्य स राज्ञस् तु ववृधे ऽन्तःपुरे शिशुः ॥

14.52

यवनस्य मुनिश्रेष्ठाः स कालयवनो ऽभवत्
आयुध्यमानो नृपतिः पर्यपृच्छद् द्विजोत्तमम् ॥

14.53

वृष्ण्यन्धककुलं तस्य नारदो ऽकथयद् विभुः
अक्षौहिण्या तु सैन्यस्य मथुराम् अभ्ययात् तदा ॥

14.54

दूतं संप्रेषयाम् आस वृष्ण्यन्धकनिवेशनम्
ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ॥

14.55

समेता मन्त्रयाम् आसुर् यवनस्य भयात् तदा
कृत्वा विनिश्चयं सर्वे पलायनम् अरोचयन् ॥

14.56

विहाय मथुरां रम्यां मानयन्तः पिनाकिनम्
कुशस्थलीं द्वारवतीं निवेशयितुम् ईप्सवः ॥

14.59

इति कृष्णस्य जन्मेदं यः शुचिर् नियतेन्द्रियः
पर्वसु श्रावयेद् विद्वान् अनृणः स सुखी भवेत् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc