ब्रह्म पुराण · अध्याय 126
तपस्तीर्थम् इति ख्यातं तपोवृद्धिकरं महत्
सर्वकामप्रदं पुण्यं पितॄणां प्रीतिवर्धनम् ॥
तस्मिंस् तीर्थे तु यद् वृत्तं शृणु पापप्रणाशनम्
अपाम् अग्नेश् च संवादम् ऋषीणां च परस्परम् ॥
अपो ज्येष्ठतमाः केचिन् मेनिरे ऽग्निं तथापरे
एवं ब्रुवन्तो मुनयः संवादं चाग्निवारिणोः ॥
विनाग्निं जीवनं क्व स्याज् जीवभूतो यतो ऽनलः
आत्मभूतो हव्यभूतश् चाग्निना जायते ऽखिलम् ॥
अग्निना ध्रियते लोको ह्य् अग्निर् ज्योतिर्मयं जगत्
तस्माद् अग्नेः परं नास्ति पावनं दैवतं महत् ॥
अन्तर्ज्योतिः स एवोक्तः परं ज्योतिः स एव हि
विनाग्निना किंचिद् अस्ति यस्य धाम जगत्त्रयम् ॥
तस्माद् अग्नेः परं नास्ति भूतानां ज्यैष्ठ्यभाजनम्
योषित्क्षेत्रे ऽर्पितं बीजं पुरुषेण यथा तथा ॥
तस्य देहादिका शक्तिः कृशानोर् एव नान्यथा
देवानां हि मुखं वह्निस् तस्मान् नातः परं विदुः ॥
अपरे तु ह्य् अपां ज्यैष्ठ्यं मेनिरे वेदवादिनः
अद्भिः संपत्स्यते ह्य् अन्नं शुचिर् अद्भिः प्रजायते ॥
अद्भिर् एव धृतं सर्वम् आपो वै मातरः स्मृताः
त्रैलोक्यजीवनं वारि वदन्तीति पुराविदः ॥
उत्पन्नम् अमृतं ह्य् अद्भ्यस् ताभ्यश् चौषधिसंभवः
अग्निर् ज्येष्ठ इति प्राहुर् आपो ज्येष्ठतमाः परे ॥
एवं मीमांसमानास् ते ऋषयो वेदवादिनः
विरुद्धवादिनो मां च समभ्येत्येदम् अब्रुवन् ॥
अग्नेर् अपां वद ज्यैष्ठ्यं त्रैलोक्यस्य भवान् प्रभुः ॥
अहम् अप्य् अब्रवं प्राप्तान् ऋषीन् सर्वान् यतव्रतान्
उभौ पूज्यतमौ लोक उभाभ्यां जायते जगत् ॥
उभाभ्यां जायते हव्यं कव्यं चामृतम् एव च
उभाभ्यां जीवनं लोके शरीरस्य च धारणम् ॥
नानयोश् च विशेषो ऽस्ति ततो ज्यैष्ठ्यं समं मतम्
ततो मद्वचनाज् ज्यैष्ठ्यम् उभयोर् नैव कस्यचित् ॥
ज्यैष्ठ्यम् अन्यतरस्येति मेनिरे ऋषिसत्तमाः
न तृप्ता मम वाक्येन जग्मुर् वायुं तपस्विनः ॥
कस्य ज्यैष्ठ्यं भवान् प्राणो वायो सत्यं त्वयि स्थितम् ॥
वायुर् आहानलो ज्येष्ठः सर्वम् अग्नौ प्रतिष्ठितम्
नेत्य् उक्त्वान्योन्यम् ऋषयो जग्मुस् ते ऽपि वसुंधराम् ॥
सत्यं भूमे वद ज्यैष्ठ्यम् आधारासि चराचरे ॥
भूमिर् अप्य् आह विनयाद् आगतांस् तान् ऋषीन् इदम् ॥
ममाप्य् आधारभूताः स्युर् आपो देव्यः सनातनाः
अद्भ्यस् तु जायते सर्वं ज्यैष्ठ्यम् अप्सु प्रतिष्ठितम् ॥
नेत्य् उक्त्वान्योन्यम् ऋषयो जग्मुः क्षीरोदशायिनम्
तुष्टुवुर् विविधैः स्तोत्रैः शङ्खचक्रगदाधरम् ॥
यो वेद सर्वं भुवनं भविष्यद् यज् जायमानं च गुहानिविष्टम्
लोकत्रयं चित्रविचित्ररूपम् अन्ते समस्तं च यम् आविवेश
यद् अक्षरं शाश्वतम् अप्रमेयं यं वेदवेद्यम् ऋषयो वदन्ति
यम् आश्रिताः स्वेप्सितम् आप्नुवन्ति तद् वस्तु सत्यं शरणं व्रजामः
भूतं महाभूतजगत्प्रधानं न विन्दते योगिनो विष्णुरूपम्
तद् वक्तुम् एते ऋषयो ऽत्र याताः सत्यं वदस्वेह जगन्निवास
त्वम् अन्तरात्माखिलदेहभाजां त्वम् एव सर्वं त्वयि सर्वम् ईश
तथापि जानन्ति न केअपि कुत्रापि अहो भवन्तं प्रकृतिप्रभावात्
ततः प्राह जगद्धात्री दैवी वाग् अशरीरिणी ॥
उभाव् आराध्य तपसा भक्त्या च नियमेन च
यस्य स्यात् प्रथमं सिद्धिस् तद् भूतं ज्येष्ठम् उच्यते ॥
तथेत्य् तथा ययुः सर्वे ऋषयो लोकपूजिताः
श्रान्ताः खिन्नान्तरात्मानः परं वैराग्यम् आश्रिताः ॥
सर्वलोकैकजननीं भुवनत्रयपावनीम्
गौतमीम् अगमन् सर्वे तपस् तप्तुं यतव्रताः ॥
अब्दैवतं तथाग्निं च पूजनायोद्यतास् तदा
अग्नेश् च पूजका ये च अपां वै पूजने स्थिताः
तत्र वाग् अब्रवीद् दैवी वेदमाता सरस्वती ॥
अग्नेर् आपस् तथा योनिर् अद्भिः शौचम् अवाप्यते
अग्नेश् च पूजका ये च विनाद्भिः पूजनं कथम् ॥
अप्सु जातासु सर्वत्र कर्मण्य् अधिकृतो भवेत्
तावत् कर्मण्य् अनर्हो ऽयम् अशुचिर् मलिनो नरः ॥
न मग्नः श्रद्धया यावद् अप्सु शीतासु वेदवित्
तस्माद् आपो वरिष्ठाः स्युर् मातृभूता यतः स्मृताः
तस्माज् ज्यैष्ठ्यम् अपाम् एव जनन्यो ऽग्नेर् विशेषतः ॥
एतद् वचः शुश्रुवुस् ते ऋषयो वेदवादिनः
निश्चयं च ततश् चक्रुर् भवेज् ज्यैष्ठ्यम् अपाम् इति ॥
यत्र तीर्थे वृत्तम् इदम् ऋषिसत्त्रे च नारद
तपस्तीर्थं तु तत् प्रोक्तं सत्त्रतीर्थं तद् उच्यते ॥
अग्नितीर्थं च तत् प्रोक्तं तथा सारस्वतं विदुः
तेषु स्नानं च दानं च सर्वकामप्रदं शुभम् ॥
चतुर्दश शतान्य् अत्र तीर्थानां पुण्यदायिनाम्
तेषु स्नानं च दानं च स्वर्गमोक्षप्रदायकम् ॥
कृतं संदेहहरणम् ऋषीणां यत्र भाषया
सरस्वत्य् अभवत् तत्र गङ्गया संगता नदी
माहात्म्यं तस्य को वक्तुं संगमस्य क्षमो नरः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0