ब्रह्म पुराण · अध्याय 127
देवतीर्थम् इति ख्यातं गङ्गाया उत्तरे तटे
तस्य प्रभावं वक्ष्यामि सर्वपापप्रणाशनम् ॥
आर्ष्टिषेण इति ख्यातो राजा सर्वगुणान्वितः
तस्य भार्या जया नाम साक्षाल् लक्ष्मीर् इवापरा ॥
तस्य पुत्रो भरो नाम मतिमान् पितृवत्सलः
धनुर्वेदे च वेदे च निष्णातो दक्ष एव च ॥
तस्य भार्या रूपवती सुप्रभेत्य् अभिविश्रुता
आर्ष्टिषेणस् ततो राजा पुत्रे राज्यं निवेश्य सः ॥
पुरोधसा च मुख्येन दीक्षां चक्रे नरेश्वरः
सरस्वत्यास् ततस् तीरे हयमेधाय यत्नवान् ॥
ऋत्विग्भिर् ऋषिमुख्यैश् च वेदशास्त्रपरायणैः
दीक्षितं तं नृपश्रेष्ठं ब्राह्मणाग्निसमीपतः ॥
मिथुर् दानवराट् शूरः पापबुद्धिः प्रतापवान्
मखं विध्वस्य नृपतिं सभार्यं सपुरोहितम् ॥
आदाय वेगात् स प्रागाद् रसातलतलं मुने
नीते तस्मिन् नृपवरे यज्ञे नष्टे ततो ऽमराः ॥
ऋत्विजश् च ययुः सर्वे स्वं स्वं स्थानं मखात् ततः
पुरोहितसुतो राज्ञो देवापिर् इति विश्रुतः ॥
बालस् तां मातरं दृष्ट्वा आत्मनः पितरं न च
दृष्ट्वा सविस्मयो भूत्वा दुःखितो ऽतीव चाभवत् ॥
स मातरं तु पप्रच्छ पिता मे क्व गतो ऽम्बिके
पितृहीनो न जीवेयं मातः सत्यं वदस्व मे ॥
धिग् धिक् पितृविहीनानां जीवितं पापकर्मणाम्
न वक्षि यदि मे मातर् जलम् अग्निम् अथाविशे ॥
पुत्रं प्रोवाच सा माता राज्ञो भार्या पुरोधसः
दानवेन तलं नीतो राज्ञा सह पिता तव ॥
क्व नीतः केन वा नीतः कथं नीतः क्व कर्मणि
केषु पश्यत्सु किं स्थानं दानवस्य वदस्व मे ॥
दीक्षितं यज्ञसदसि सभार्यं सपुरोधसम्
राजानं तं मिथुर् दैत्यो नीतवान् स रसातलम्
पश्यत्सु देवसंघेषु वह्निब्राह्मणसंनिधौ ॥
तन् मातृवचनं श्रुत्वा देवापिः कृत्यम् अस्मरत्
देवान् पश्ये ऽथवाग्निं वा ऋत्विजो वासुरांस् तथा ॥
एतेष्व् एव पितान्वेष्यो नान्यत्रेति मतिर् मम
इति निश्चित्य देवापिर् भरं प्राह नृपात्मजम् ॥
तपसा ब्रह्मचर्येण व्रतेन नियमेन च
आनेतव्या मया सर्वे नीता ये च रसातलम् ॥
जाते पराभवे घोरे यो न कुर्यात् प्रतिक्रियाम्
नराधमेन किं तेन जीवता वा मृतेन वा ॥
त्वं प्रशाधि महीं कृत्स्नाम् आर्ष्टिषेणः पिता यथा
माता मम त्वया पाल्या राजन् यावन् ममागतिः
भवेच् च कृतकार्यस्य अनुजानीहि मां भर ॥
भरेणोक्तः स देवापिः सर्वं निश्चित्य यत्नतः ॥
सिद्धिं कुरु सुखं याहि मा चिन्ताम् अल्पिकां भज ॥
ततो देवापिर् अमर राजाङ्घ्रिध्यानतत्परः
ऋत्विजो ऽन्वेष्य यत्नेन नत्वा तान् ऋत्विजः पृथक्
कृताञ्जलिपुटो बालो देवापिर् वाक्यम् अब्रवीत् ॥
भवद्भिश् च मखो रक्ष्यो यजमानश् च दीक्षितः
पुरोधाश् च तथा रक्ष्यः पत्नी या दीक्षितस्य तु ॥
भवत्सु तत्र पश्यत्सु यज्ञं विध्वस्य दैत्यराट्
राजादयस् तेन नीतास् तन् न युक्ततमं भवेत् ॥
अथाप्य् एतद् अहं मन्ये भवन्तस् तान् अरोगिणः
दातुम् अर्हन्ति तान् सर्वान् अन्यथा शापम् अर्हथ ॥
मखे ऽग्निः प्रथमं पूज्यो ह्य् अग्निर् एवात्र दैवतम्
तस्माद् वयं न जानीमो ह्य् अग्नीनां परिचारकाः ॥
स एव दाता भोक्ता च हर्ता कर्ता च हव्यवाट् ॥
ऋत्विजः पृष्ठतः कृत्वा देवापिर् जातवेदसम्
पूजयित्वा यथान्यायम् अग्नये तन् न्यवेदयत् ॥
यथर्त्विजस् तथा चाहं देवानां परिचारकः
हव्यं वहामि देवानां भोक्तारो रक्षकाश् च ते ॥
देवान् आहूय यत्नेन हविर्भागान् पृथक् पृथक्
दास्ये ऽहम् एष दोषो मे तस्माद् याहि सुरान् प्रति ॥
देवापिः स सुरान् प्राप्य नत्वा तेभ्यः पृथक् पृथक्
ऋत्विग्वाक्यं चाग्निवाक्यं शापं चापि न्यवेदयत् ॥
आहूता वैदिकैर् मन्त्रैर् ऋत्विग्भिश् च यथाक्रमम्
भोक्ष्यामहे हविर्भागान् न स्वतन्त्रा द्विजोत्तम ॥
तस्माद् वेदानुगा नित्यं वयं वेदेन चोदिताः
परतन्त्रास् ततो विप्र वेदेभ्यस् तन् निवेदय ॥
स देवापिः शुचिर् भूत्वा वेदान् आहूय यत्नतः
ध्यानेन तपसा युक्तो वेदाश् चापि पुरो ऽभवन् ॥
वेदान् उवाच देवापिर् नमस्य तु पुनः पुनः
ऋत्विग्वाक्यं चाग्निवाक्यं देववाक्यं न्यवेदयत् ॥
परतन्त्रा वयं तात ईश्वरस्य वशानुगाः
अशेषजगदाधारो निराधारो निरञ्जनः ॥
सर्वशक्त्यैकसदनं निधानं सर्वसंपदाम्
स तु कर्ता महादेवः संहर्ता स महेश्वरः ॥
वयं शब्दमया ब्रह्मन् वदामो विद्म एव च
अस्माकम् एतत् कृत्यं स्याद् वदामो यत् तु पृच्छसि ॥
केन नीतास् तस्य नाम तत्पुरं तद्बलं तथा
भक्षिताः किं तु नो नष्टा एतज् जानीमहे वयम् ॥
यथा च तव सामर्थ्यं यम् आराध्य च यत्र च
स्याद् इत्य् एतच् च जानीमो यथा प्राप्स्यसि तान् पुरः ॥
एतच् छ्रुत्वावदद् वेदान् विचार्य सुचिरं हृदि ॥
वेदा वदन्त्व् एतद् एव सर्वम् एव यथार्थतः
सर्वान् प्राप्स्ये तलं नीतान् अलं तेभ्यो नमो ऽस्तु वः ॥
गौतमीं गच्छ देवापे तत्र स्तुहि महेश्वरम्
सुप्रसन्नस् तवाभीष्टं दास्यत्य् एव कृपाकरः ॥
भवेद् देवः शिवः प्रीतः स्तुतः सत्यं महामते
आर्ष्टिषेणश् च नृपतिस् तस्य जाया जया सती ॥
पिता तवाप्य् उपमन्युस् तले तिष्ठन्त्य् अरोगिणः
वरदानान् महेशस्य मिथुं हत्वा च राक्षसम्
यशः प्राप्स्यसि धर्मं च एतच् छक्यं न चेतरत् ॥
तद् वेदवचनाद् बालो देवापिर् गौतमीं गतः
स्नात्वा कृतक्षणो विप्रस् तुष्टाव च महेश्वरम् ॥
बालो ऽहं देवदेवेश गुरूणां त्वं गुरुर् मम
न मे शक्तिस् त्वत्स्तवने तुभ्यं शंभो नमो ऽस्तु ते ॥
न त्वां जानन्ति निगमा न देवा मुनयो न च
न ब्रह्मा नापि वैकुण्ठो यो ऽसि सो ऽसि नमो ऽस्तु ते ॥
ये ऽनाथा ये च कृपणा ये दरिद्राश् च रोगिणः
पापात्मानो ये च लोके तांस् त्वं पासि महेश्वर ॥
तपसा नियमैर् मन्त्रैः पूजितास् त्रिदिवौकसः
त्वया दत्तं फलं तेभ्यो दास्यन्ति जगतां पते ॥
याचितारश् च दातारस् तेभ्यो यद् यन् मनीषितम्
भवतीति न चित्रं स्यात् त्वं विपर्ययकारकः ॥
ये ऽज्ञानिनो ये च पापा ये मग्ना नरकार्णवे
शिवेति वचनान् नाथ तान् पासि त्वं जगद्गुरो ॥
एवं तु स्तुवतस् तस्य पुरः प्राह त्रिलोचनः ॥
वरं ब्रूह्य् अथ देवापे अलं दैन्येन बालक ॥
राजानं राजपत्नीं च पितरं च गुरुं मम
प्राप्तुम् इच्छे जगन्नाथ निधनं च रिपोर् मम ॥
देवापिवचनं श्रुत्वा तथेत्य् आहाखिलेश्वरः
देवापेः सर्वम् अभवद् आज्ञया शंकरस्य तत् ॥
पुनर् अप्य् आह तं शंभुर् देवापिकरुणाकरः
नन्दिनं प्रेषयाम् आस शंभुः शूलेन नारद ॥
रसातलं मिथुं नन्दी हत्वा चासुरपुंगवान्
तत्पित्रादीन् समानीय तस्मै तान् स न्यवेदयत् ॥
हयमेधश् च तत्रासीद् आर्ष्टिषेणस्य धीमतः
अग्निश् च ऋत्विजो देवा वेदाश् च ऋषयो ऽब्रुवन् ॥
यत्र साक्षाद् अभूच् छंभुर् देवापे भक्तवत्सलः
देवदेवो जगन्नाथो देवतीर्थम् अभूच् च तत् ॥
सर्वपापक्षयकरं सर्वसिद्धिप्रदं नृणाम्
पुण्यदं तीर्थम् एतत् स्यात् तव कीर्तिश् च शाश्वती ॥
अश्वमेधे निवृत्ते तु सुरास् तेभ्यो वरान् ददुः
स्नात्वा कृतार्था गङ्गायां ततस् ते दिवम् आक्रमन् ॥
ततः प्रभृति तत्रासंस् तीर्थानि दश पञ्च च
सहस्राणि शतान्य् अष्टाव् उभयोर् अपि तीरयोः
तेषु स्नानं च दानं च ह्य् अतीव फलदं विदुः ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0