भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 121

121.1

विदर्भासंगमं पुण्यं रेवतीसंगमं तथा
तत्र यद् वृत्तम् आख्यास्ये यत् पुराणविदो विदुः ॥

121.2

भरद्वाज इति ख्यात ऋषिर् आसीत् तपोधिकः
तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा ॥

121.3

तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान्
चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे ॥

121.4

कस्मै दद्याम् इमां कन्यां स्वसारं भीषणाकृतिम्
न कश्चित् प्रतिगृह्णाति दातव्या च स्वसा तथा ॥

121.5

अहो भूयान् न कस्यापि कन्या दुःखैककारणम्
मरणं जीवतो ऽप्य् अस्य प्राणिनस् तु पदे पदे ॥

121.6

एवं विमृशतस् तस्य स्वाश्रमे चातिशोभने
द्रष्टुं मुनिवरः प्रायाद् भरद्वाजं यतव्रतम् ॥

121.7

द्व्यष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः
नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः ॥

121.8

विधिवत् पूज्य तं विप्रं भरद्वाजः कठं तदा
तस्यागमनकार्यं च पप्रच्छ पुरतः स्थितः ॥

121.9

कठो ऽप्य् आह भरद्वाजं विद्यार्थ्य् अहम् उपागतः
तथा च दर्शनाकाङ्क्षी यद् युक्तं तद् विधीयताम् ॥

121.10

भरद्वाजः कठं प्राह अधीष्व यद् अभीप्सितम्
पुराणं स्मृतयो वेदा धर्मस्थानान्य् अनेकशः ॥

121.11

सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम्
कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः
अभिमानी श्रुतधरः शिष्यः पुण्यैर् अवाप्यते ॥

121.12

अध्यापयस्व भो ब्रह्मञ् शिष्यं मां वीतकल्मषम्
शुश्रूषणरतं भक्तं कुलीनं सत्यवादिनम् ॥

121.13

तथेत्य् उक्त्वा भरद्वाजः प्रादाद् विद्याम् अशेषतः
प्राप्तविद्यः कठः प्रीतो भरद्वाजम् अथाब्रवीत् ॥

121.14

इच्छेयं दक्षिणां दातुं गुरो तव मनःप्रियाम्
वदस्व दुर्लभं वापि गुरो तुभ्यं नमो ऽस्तु ते ॥

121.15

विद्यां प्राप्यापि ये मोहात् स्वगुरोः पारितोषिकम्
न प्रयच्छन्ति निरयं ते यान्त्य् आचन्द्रतारकम् ॥

121.16

गृहाण कन्यां विधिवद् भार्यां कुरु मम स्वसाम्
अस्यां प्रीत्या वर्तितव्यं याचेयं दक्षिणाम् इमाम् ॥

121.17

भ्रातृवत् पुत्रवच् चापि शिष्यः स्यात् तु गुरोः सदा
गुरुश् च पितृवच् च स्यात् संबन्धो ऽत्र कथं भवेत् ॥

121.18

मद्वाक्यं कुरु सत्यं त्वं ममाज्ञा तव दक्षिणा
सर्वं स्मृत्वा कठाद्य त्वं रेवतीं भर तन्मनाः ॥

121.19

तथेत्य् उक्त्वा गुरोर् वाक्यात् कठो जग्राह पाणिना
रेवतीं विधिवद् दत्तां तां समीक्ष्य कठस् त्व् अथ ॥

121.20

तत्रैव पूजयाम् आस देवेशं शंकरं तदा
रेवत्या रूपसंपत्त्यै शिवप्रीत्यै च रेवती ॥

121.21

सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते
अभिषेकोदकं तत्र रेवत्या यद् विनिःसृतम् ॥

121.22

साभवत् तत्र गङ्गायां तस्मात् तन्नामतो नदी
रेवतीति समाख्याता रूपसौभाग्यदायिनी ॥

121.23

पुनर् दर्भैश् च विविधैर् अभिषेकं चकार सः
पुण्यरूपत्वसंसिद्ध्यै विदर्भा तद् अभून् नदी ॥

121.24

श्रद्धया संगमे स्नात्वा रेवतीगङ्गयोर् नरः
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥

121.25

तथा विदर्भागौतम्योः संगमे श्रद्धया मुने
स्नानं करोत्य् असौ याति भुक्तिं मुक्तिं च तत्क्षणात् ॥

121.26

उभयोस् तीरयोस् तत्र तीर्थानां शतम् उत्तमम्
सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc