भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 120

120.1

धान्यतीर्थम् इति ख्यातं सर्वकामप्रदं नृणाम्
सुभिक्षं क्षेमदं पुंसां सर्वापद्विनिवारणम् ॥

120.2

ओषध्यः सोमराजानं पतिं प्राप्य मुदान्विताः
ऊचुः सर्वस्य लोकस्य गङ्गायाश् चेप्सितं वचः ॥

120.3

वैदिकी पुण्यगाथास्ति यां वै वेदविदो विदुः
भूमिं सस्यवतीं कश्चिन् मातरं मातृसंमिताम् ॥

120.4

गङ्गासमीपे यो दद्यात् सर्वकामान् अवाप्नुयात्
भूमिं सस्यवतीं गाश् च ओषधीश् च मुदान्वितः ॥

120.5

विष्णुब्रह्मेशरूपाय यो दद्याद् भक्तिमान् नरः
सर्वं तद् अक्षयं विद्यात् सर्वकामान् अवाप्नुयात् ॥

120.6

ओषध्यः सोमराजन्याः सोमश् चाप्य् ओषधीपतिः
इति ज्ञात्वा ब्रह्मविद ओषधीर् यः प्रदास्यति ॥

120.7

सर्वान् कामान् अवाप्नोति ब्रह्मलोके महीयते
ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः ॥

120.8

यो ऽस्मान् ददाति गङ्गायां तं राजन् पारयामसि
त्वम् उत्तमश् चौषधीश त्वदधीनं चराचरम् ॥

120.9

ओषधयः संवदन्ते सोमेन सह राज्ञा
यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि ॥

120.10

वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च
यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि ॥

120.11

अस्मान् ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः
उपास्तिर् अस्ति सास्माकं तं राजन् पारयामसि ॥

120.12

स्थावरं जङ्गमं किंचिद् अस्माभिर् व्यापृतं जगत्
यो ऽस्मान् ददाति विप्रेभ्यस् तं राजन् पारयामसि ॥

120.13

हव्यं कव्यं यद् अमृतं यत् किंचिद् उपभुज्यते
तद्गरीयश् च यो दद्यात् तं राजन् पारयामसि ॥

120.14

इत्य् एतां वैदिकीं गाथां यः शृणोति स्मरेत वा
पठते भक्तिम् आपन्नस् तं राजन् पारयामसि ॥

120.15

यत्रैषा पठिता गाथा सोमेन सह राज्ञा
गङ्गातीरे चौषधीभिर् धान्यतीर्थं तद् उच्यते ॥

120.16

ततः प्रभृति तत् तीर्थम् औषध्यं सौम्यम् एव च
अमृतं वेदगाथं च मातृतीर्थं तथैव च ॥

120.17

एषु स्नानं जपो होमो दानं च पितृतर्पणम्
अन्नदानं तु यः कुर्यात् तद् आनन्त्याय कल्पते ॥

120.18

षट्शताधिकसाहस्रं तीर्थानां तीरयोर् द्वयोः
सर्वपापनिहन्तॄणां सर्वसंपद्विवर्धनम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc