भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 11

11.1

आयोः पुत्राश् च ते पञ्च सर्वे वीरा महारथाः
स्वर्भानुतनयायां च प्रभायां जज्ञिरे नृपाः ॥

11.2

नहुषः प्रथमं जज्ञे वृद्धशर्मा ततः परम्
रम्भो रजिर् अनेनाश् च त्रिषु लोकेषु विश्रुताः ॥

11.3

रजिः पुत्रशतानीह जनयाम् आस पञ्च वै
राजेयम् इति विख्यातं क्षत्रम् इन्द्रभयावहम् ॥

11.4

यत्र दैवासुरे युद्धे समुत्पन्ने सुदारुणे
देवाश् चैवासुराश् चैव पितामहम् अथाब्रुवन् ॥

11.5

आवयोर् भगवन् युद्धे को विजेता भविष्यति
ब्रूहि नः सर्वभूतेश श्रोतुम् इच्छाम तत्त्वतः ॥

11.6

येषाम् अर्थाय संग्रामे रजिर् आत्तायुधः प्रभुः
योत्स्यते ते विजेष्यन्ति त्रींल् लोकान् नात्र संशयः ॥

11.7

यतो रजिर् धृतिस् तत्र श्रीश् च तत्र यतो धृतिः
यतो धृतिश् च श्रीश् चैव धर्मस् तत्र जयस् तथा ॥

11.8

ते देवा दानवाः प्रीता देवेनोक्ता रजिं तदा
अभ्ययुर् जयम् इच्छन्तो वृण्वानास् तं नरर्षभम् ॥

11.9

स हि स्वर्भानुदौहित्रः प्रभायां समपद्यत
राजा परमतेजस्वी सोमवंशविवर्धनः ॥

11.10

ते हृष्टमनसः सर्वे रजिं वै देवदानवाः
ऊचुर् अस्मज्जयाय त्वं गृहाण वरकार्मुकम् ॥

11.11

अथोवाच रजिस् तत्र तयोर् वै देवदैत्ययोः
अर्थज्ञः स्वार्थम् उद्दिश्य यशः स्वं च प्रकाशयन् ॥

11.12

यदि दैत्यगणान् सर्वाञ् जित्वा वीर्येण वासवः
इन्द्रो भवामि धर्मेण ततो योत्स्यामि संयुगे ॥

11.13

देवाः प्रथमतो विप्राः प्रतीयुर् हृष्टमानसाः
एवं यथेष्टं नृपते कामः संपद्यतां तव ॥

11.14

श्रुत्वा सुरगणानां तु वाक्यं राजा रजिस् तदा
पप्रच्छासुरमुख्यांस् तु यथा देवान् अपृच्छत ॥

11.15

दानवा दर्पसंपूर्णाः स्वार्थम् एवावगम्य ह
प्रत्यूचुस् तं नृपवरं साभिमानम् इदं वचः ॥

11.16

अस्माकम् इन्द्रः प्रह्रादो यस्यार्थे विजयामहे
अस्मिंस् तु समरे राजंस् तिष्ठ त्वं राजसत्तम ॥

11.17

स तथेति ब्रुवन्न् एव देवैर् अप्य् अतिचोदितः
भविष्यसीन्द्रो जित्वैनं देवैर् उक्तस् तु पार्थिवः ॥

11.18

जघान दानवान् सर्वान् ये ऽवध्या वज्रपाणिनः
स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥

11.19

निहत्य दानवान् सर्वान् आजहार रजिः प्रभुः
ततो रजिं महावीर्यं देवैः सह शतक्रतुः ॥

11.20

रजिपुत्रो ऽहम् इत्य् उक्त्वा पुनर् एवाब्रवीद् वचः
इन्द्रो ऽसि तात देवानां सर्वेषां नात्र संशयः ॥

11.21

यस्याहम् इन्द्रः पुत्रस् ते ख्यातिं यास्यामि कर्मभिः
स तु शक्रवचः श्रुत्वा वञ्चितस् तेन मायया ॥

11.22

तथैवेत्य् अब्रवीद् राजा प्रीयमाणः शतक्रतुम्
तस्मिंस् तु देवैः सदृशो दिवं प्राप्ते महीपतौ ॥

11.23

दायाद्यम् इन्द्राद् आजह्रू राज्यं तत्तनया रजेः
पञ्च पुत्रशतान्य् अस्य तद् वै स्थानं शतक्रतोः ॥

11.24

समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम्
ते यदा तु स्वसंमूढा रागोन्मत्ता विधर्मिणः ॥

11.25

ब्रह्मद्विषश् च संवृत्ता हतवीर्यपराक्रमाः
ततो लेभे स्वम् ऐश्वर्यम् इन्द्रः स्थानं तथोत्तमम् ॥

11.26

हत्वा रजिसुतान् सर्वान् कामक्रोधपरायणान्
य इदं च्यावनं स्थानात् प्रतिष्ठानं शतक्रतोः
शृणुयाद् धारयेद् वापि न स दौर्गत्यम् आप्नुयात् ॥

11.27

रम्भो ऽनपत्यस् त्व् आसीच् च वंशं वक्ष्याम्य् अनेनसः
अनेनसः सुतो राजा प्रतिक्षत्रो महायशाः ॥

11.28

प्रतिक्षत्रसुतश् चासीत् संजयो नाम विश्रुतः
संजयस्य जयः पुत्रो विजयस् तस्य चात्मजः ॥

11.29

विजयस्य कृतिः पुत्रस् तस्य हर्यत्वतः सुतः
हर्यत्वतसुतो राजा सहदेवः प्रतापवान् ॥

11.30

सहदेवस्य धर्मात्मा नदीन इति विश्रुतः
नदीनस्य जयत्सेनो जयत्सेनस्य संकृतिः ॥

11.31

संकृतेर् अपि धर्मात्मा क्षत्रवृद्धो महायशाः
अनेनसः समाख्याताः क्षत्रवृद्धस्य चापरः ॥

11.32

क्षत्रवृद्धात्मजस् तत्र सुनहोत्रो महायशाः
सुनहोत्रस्य दायादास् त्रयः परमधार्मिकाः ॥

11.33

काशः शलश् च द्वाव् एतौ तथा गृत्समदः प्रभुः
पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥

11.34

ब्राह्मणाः क्षत्रियाश् चैव वैश्याः शूद्रास् तथैव च
शलात्मज आर्ष्टिसेणस् तनयस् तस्य काश्यपः ॥

11.35

काशस्य काशिपो राजा पुत्रो दीर्घतपास् तथा
धनुस् तु दीर्घतपसो विद्वान् धन्वन्तरिस् ततः ॥

11.36

तपसो ऽन्ते सुमहतो जातो वृद्धस्य धीमतः
पुनर् धन्वन्तरिर् देवो मानुषेष्व् इह जन्मनि ॥

11.37

तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस् तदा
काशिराजो महाराजः सर्वरोगप्रणाशनः ॥

11.38

आयुर्वेदं भरद्वाजात् प्राप्येह स भिषक्क्रियः
तम् अष्टधा पुनर् व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥

11.39

धन्वन्तरेस् तु तनयः केतुमान् इति विश्रुतः
अथ केतुमतः पुत्रो वीरो भीमरथः स्मृतः ॥

11.40

पुत्रो भीमरथस्यापि दिवोदासः प्रजेश्वरः
दिवोदासस् तु धर्मात्मा वाराणस्यधिपो ऽभवत् ॥

11.41

एतस्मिन्न् एव काले तु पुरीं वाराणसीं द्विजाः
शून्यां निवेशयाम् आस क्षेमको नाम राक्षसः ॥

11.42

शप्ता हि सा मतिमता निकुम्भेन महात्मना
शून्या वर्षसहस्रं वै भवित्री तु न संशयः ॥

11.43

तस्यां हि शप्तमात्रायां दिवोदासः प्रजेश्वरः
विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥

11.44

भद्रश्रेण्यस्य पूर्वं तु पुरी वाराणसी अभूत्
भद्रश्रेण्यस्य पुत्राणां शतम् उत्तमधन्विनाम् ॥

11.45

हत्वा निवेशयाम् आस दिवोदासो नराधिपः
भद्रश्रेण्यस्य तद् राज्यं हृतं येन बलीयसा ॥

11.46

भद्रश्रेण्यस्य पुत्रस् तु दुर्दमो नाम विश्रुतः
दिवोदासेन बालेति घृणया स विसर्जितः ॥

11.47

हैहयस्य तु दायाद्यं हृतवान् वै महीपतिः
आजह्रे पितृदायाद्यं दिवोदासहृतं बलात् ॥

11.48

भद्रश्रेण्यस्य पुत्रेण दुर्दमेन महात्मना
वैरस्यान्तो महाभागाः कृतश् चात्मीयतेजसा ॥

11.49

दिवोदासाद् दृषद्वत्यां वीरो जज्ञे प्रतर्दनः
तेन बालेन पुत्रेण प्रहृतं तु पुनर् बलम् ॥

11.50

प्रतर्दनस्य पुत्रौ द्वौ वत्सभर्गौ सुविश्रुतौ
वत्सपुत्रो ह्य् अलर्कस् तु संनतिस् तस्य चात्मजः ॥

11.51

अलर्कस् तस्य पुत्रस् तु ब्रह्मण्यः सत्यसंगरः
अलर्कं प्रति राजर्षिं श्लोको गीतः पुरातनैः ॥

11.52

षष्टिर् वर्षसहस्राणि षष्टिर् वर्षशतानि च
युवा रूपेण संपन्नः प्राग् आसीच् च कुलोद्वहः ॥

11.53

लोपामुद्राप्रसादेन परमायुर् अवाप्तवान्
तस्यासीत् सुमहद् राज्यं रूपयौवनशालिनः ॥

11.54

शापस्यान्ते महाबाहुर् हत्वा क्षेमकराक्षसम्
रम्यां निवेशयाम् आस पुरीं वाराणसीं पुनः ॥

11.55

संनतेर् अपि दायादः सुनीथो नाम धार्मिकः
सुनीथस्य तु दायादः क्षेमो नाम महायशाः ॥

11.56

क्षेमस्य केतुमान् पुत्रः सुकेतुस् तस्य चात्मजः
सुकेतोस् तनयश् चापि धर्मकेतुर् इति स्मृतः ॥

11.57

धर्मकेतोस् तु दायादः सत्यकेतुर् महारथः
सत्यकेतुसुतश् चापि विभुर् नाम प्रजेश्वरः ॥

11.58

आनर्तस् तु विभोः पुत्रः सुकुमारश् च तत्सुतः
सुकुमारस्य पुत्रस् तु धृष्टकेतुः सुधार्मिकः ॥

11.59

धृष्टकेतोस् तु दायादो वेणुहोत्रः प्रजेश्वरः
वेणुहोत्रसुतश् चापि भार्गो नाम प्रजेश्वरः ॥

11.60

वत्सस्य वत्सभूमिस् तु भार्गभूमिस् तु भार्गजः
एते त्व् अङ्गिरसः पुत्रा जाता वंशे ऽथ भार्गव ॥

11.61

ब्राह्मणाः क्षत्रिया वैश्यास् त्रयः पुत्राः सहस्रशः
इत्य् एते काश्यपाः प्रोक्ता नहुषस्य निबोधत ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc