भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 115

115.1

शेषतीर्थम् इति ख्यातं सर्वकामप्रदायकम्
तस्य रूपं प्रवक्ष्यामि यन् मया परिभाषितम् ॥

115.2

शेषो नाम महानागो रसातलपतिः प्रभुः
सर्वनागैः परिवृतो रसातलम् अथाभ्यगात् ॥

115.3

राक्षसा दैत्यदनुजाः प्रविष्टा ये रसातलम्
तैर् निरस्तो भोगिपतिर् माम् उवाचाथ विह्वलः ॥

115.4

रसातलं त्वया दत्तं राक्षसानां ममापि च
ते मे स्थानं न दास्यन्ति तस्मात् त्वां शरणं गतः ॥

115.5

ततो ऽहम् अब्रवं नागं गौतमीं याहि पन्नग
तत्र स्तुत्वा महादेवं लप्स्यसे त्वं मनोरथम् ॥

115.6

नान्यो ऽस्ति लोकत्रितये मनोरथसमर्पकः
मद्वाक्यप्रेरितो नागो गङ्गाम् आप्लुत्य यत्नतः
कृताञ्जलिपुटो भूत्वा तुष्टाव त्रिदशेश्वरम् ॥

115.7

नमस् त्रैलोक्यनाथाय दक्षयज्ञविभेदिने
आदिकर्त्रे नमस् तुभ्यं नमस् त्रैलोक्यरूपिणे ॥

115.8

नमः सहस्रशिरसे नमः संहारकारिणे
सोमसूर्याग्निरूपाय जलरूपाय ते नमः ॥

115.9

सर्वदा सर्वरूपाय कालरूपाय ते नमः
पाहि शंकर सर्वेश पाहि सोमेश सर्वग
जगन्नाथ नमस् तुभ्यं देहि मे मनसेप्सितम् ॥

115.10

ततो महेश्वरः प्रीतः प्रादान् नागेप्सितान् वरान्
विनाशाय सुरारीणां दैत्यदानवरक्षसाम् ॥

115.11

शेषाय प्रददौ शूलं जह्य् अनेनारिपुंगवान्
ततः प्रोक्तः शिवेनासौ शेषः शूलेन भोगिभिः ॥

115.12

रसातलम् अथो गत्वा निजघान रिपून् रणे
निहत्य नागः शूलेन दैत्यदानवराक्षसान् ॥

115.13

न्यवर्तत पुनर् देवो यत्र शेषेश्वरो हरः
पथा येन समायातो देवं द्रष्टुं स नागराट् ॥

115.14

रसातलाद् यत्र देवो बिलं तत्र व्यजायत
तस्माद् बिलतलाद् यातं गाङ्गं वार्य् अतिपुण्यदम् ॥

115.15

तद् वारि गङ्गाम् अगमद् गङ्गायाः संगमस् ततः
देवस्य पुरतश् चापि कुण्डं तत्र सुविस्तरम् ॥

115.16

नागस् तत्राकरोद् धोमं यत्र चाग्निः सदा स्थितः
सोष्णं तद् अभवद् वारि गङ्गायास् तत्र संगमः ॥

115.17

देवदेवं समाराध्य नागः प्रीतो महायशाः
रसातलं ततो ऽभीष्टं शिवात् प्राप्य तलं ययौ ॥

115.18

ततः प्रभृति तत् तीर्थं नागतीर्थम् उदाहृतम्
सर्वकामप्रदं पुण्यं रोगदारिद्र्यनाशनम् ॥

115.19

आयुर्लक्ष्मीकरं पुण्यं स्नानदानाच् च मुक्तिदम्
शृणुयाद् वा पठेद् भक्त्या यो वापि स्मरते तु तत् ॥

115.20

तीर्थं शेषेश्वरो यत्र यत्र शक्तिप्रदः शिवः
एकविंशतितीर्थानाम् उभयोस् तत्र तीरयोः
शतानि मुनिशार्दूल सर्वसंपत्प्रदायिनाम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc