भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 116

116.1

महानलम् इति ख्यातं वडवानलम् उच्यते
महानलो यत्र देवो वडवा यत्र सा नदी ॥

116.2

तत् तीर्थं पुत्र वक्ष्यामि मृत्युदोषजरापहम्
पुरासन् नैमिषारण्ये ऋषयः सत्त्रकारिणः ॥

116.3

शमितारं च ऋषयो मृत्युं चक्रुस् तपस्विनः
वर्तमाने सत्त्रयागे मृत्यौ शमितरि स्थिते ॥

116.4

न ममार तदा कश्चिद् उभयं स्थास्नु जङ्गमम्
विना पशून् मुनिश्रेष्ठ मर्त्यं चामर्त्यतां गतम् ॥

116.5

ततस् त्रिविष्टपे शून्ये मर्त्ये चैवातिसंभृते
मृत्युनोपेक्षिते देवा राक्षसान् ऊचिरे तदा ॥

116.6

गच्छध्वम् ऋषिसत्त्रं तन् नाशयध्वं महाध्वरम्
इति देववचः श्रुत्वा प्रोचुस् ते राक्षसाः सुरान् ॥

116.7

विध्वंसयामस् तं यज्ञम् अस्माकं किं फलं ततः
प्रवर्तते विना हेतुं न कोपि क्वापि जातुचित् ॥

116.8

देवा अप्य् असुरान् ऊचुर् यज्ञार्धं भवताम् अपि
भवेद् एव ततो यान्तु ऋषीणां सत्त्रम् उत्तमम् ॥

116.9

ते श्रुत्वा त्वरिताः सर्वे यत्र यज्ञः प्रवर्तते
जग्मुस् तत्र विनाशाय देववाक्याद् विशेषतः ॥

116.10

तज् ज्ञात्वा ऋषयो मृत्युम् आहुः किं कुर्महे वयम्
आगता देववचनाद् राक्षसा यज्ञनाशिनः ॥

116.11

मृत्युना सह संमन्त्र्य नैमिषारण्यवासिनः
सर्वे त्यक्त्वा स्वाश्रमं तं शमित्रा सह नारद ॥

116.12

अग्निमात्रम् उपादाय त्यक्त्वा पात्रादिकं तु यत्
क्रतुनिष्पत्तये जग्मुर् गौतमीं प्रति सत्वराः ॥

116.13

तत्र स्नात्वा महेशानं रक्षणायोपतस्थिरे
कृताञ्जलिपुटास् ते तु तुष्टुवुस् त्रिदशेश्वरम् ॥

116.14

यो लीलया विश्वम् इदं चकार धाता विधाता भुवनत्रयस्य
यो विश्वरूपः सदसत्परो यः सोमेश्वरं तं शरणं व्रजामः

116.15

इच्छामात्रेण यः सर्वं हन्ति पाति करोति च
तम् अहं त्रिदशेशानं शरणं यामि शंकरम् ॥

116.16

महानलं महाकायं महानागविभूषणम्
महामूर्तिधरं देवं शरणं यामि शंकरम् ॥

116.17

ततः प्रोवाच भगवान् मृत्यो का प्रीतिर् अस्तु ते ॥

116.18

राक्षसेभ्यो भयं घोरम् आपन्नं त्रिदशेश्वर
यज्ञम् अस्मांश् च रक्षस्व यावत् सत्त्रं समाप्यते ॥

116.19

तथा चकार भगवांस् त्रिनेत्रो वृषभध्वजः
शमित्रा मृत्युना सत्त्रम् ऋषीणां पूर्णतां ययौ ॥

116.20

हविषां भागधेयाय आजग्मुर् अमराः क्रमात्
तान् अवोचन् मुनिगणाः संक्षुब्धा मृत्युना सह ॥

116.21

अस्मन्मखविनाशाय राक्षसाः प्रेषिता यतः
तस्माद् भवद्भ्यः पापिष्ठा राक्षसाः सन्तु शत्रवः ॥

116.22

ततः प्रभृति देवानां राक्षसा वैरिणो ऽभवन्
कृत्यां च वडवां तत्र देवाश् च ऋषयो ऽमलाः ॥

116.23

मृत्योर् भार्या भव त्वं ताम् इत्य् उक्त्वा ते ऽभ्यषेचयन्
अभिषेकोदकं यत् तु सा नदी वडवाभवत् ॥

116.24

मृत्युना स्थापितं लिङ्गं महानलम् इति श्रुतम्
ततः प्रभृति तत् तीर्थं वडवासंगमं विदुः ॥

116.25

महानलो यत्र देवस् तत् तीर्थं भुक्तिमुक्तिदम्
सहस्रं तत्र तीर्थानां सर्वाभीष्टप्रदायिनाम्
उभयोस् तीरयोस् तत्र स्मरणाद् अघघातिनाम् ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc