ब्रह्म पुराण · अध्याय 107
वृद्धासंगमम् आख्यातं यत्र वृद्धेश्वरः शिवः
तस्याख्यानं प्रवक्ष्यामि शृणु पापप्रणाशनम् ॥
गौतमो वृद्ध इत्य् उक्तो मुनिर् आसीन् महातपाः
यदा पुराभवद् बालो गौतमस्य सुतो द्विजः ॥
अनासः स पुरोत्पन्नस् तस्माद् विकृतरूपधृक्
स वैराग्याज् जगामाथ देशं तीर्थम् इतस् ततः ॥
उपाध्यायेन नैवासील् लज्जितस्य समागमः
शिष्यैर् अन्यैः सहाध्यायो लज्जितस्य च नाभवत् ॥
उपनीतः कथंचिच् च पित्रा वै गौतमेन सः
एतावता गौतमो ऽपि व्यगमच् चरितुं बहिः ॥
एवं बहुतिथे काले ब्रह्ममात्रा धृते द्विजे
नैव चाध्ययनं तस्य संजातं गौतमस्य हि ॥
नैव शास्त्रस्य चाभ्यासो गौतमस्याभवत् तदा
अग्निकार्यं ततश् चक्रे नित्यम् एव यतव्रतः ॥
गायत्र्यभ्यासमात्रेण ब्राह्मणो नामधारकः
अग्न्युपासनमात्रं च गायत्र्यभ्यसनं तथा ॥
एतावता ब्राह्मणत्वं गौतमस्याभवन् मुने
उपासतो ऽग्निं विधिवद् गायत्रीं च महात्मनः ॥
तस्यायुर् ववृधे पुत्र गौतमस्य चिरायुषः
न दारसंग्रहं लेभे नैव दातास्ति कन्यकाम् ॥
तथा चरंस् तीर्थदेशे वनेषु विविधेषु च
आश्रमेषु च पुण्येषु अटन्न् आस्ते स गौतमः ॥
एवं भ्रमञ् शीतगिरिम् आश्रित्यास्ते स गौतमः
तत्रापश्यद् गुहां रम्यां वल्लीविटपमालिनीम् ॥
तत्रोपविश्य विप्रेन्द्रो वस्तुं समकरोन् मतिम्
चिन्तयंस् तु प्रविष्टो ऽसाव् अपश्यत् स्त्रियम् उत्तमाम् ॥
शिथिलाङ्गीम् अथ कृशां वृद्धां च तपसि स्थिताम्
ब्रह्मचर्येण वर्तन्तीं विरागां रहसि स्थिताम् ॥
स तां दृष्ट्वा मुनिश्रेष्ठो नमस्काराय तस्थिवान्
नमस्यन्तं मुनिश्रेष्ठं तं गौतमम् अवारयत् ॥
गुरुस् त्वं भविता मह्यं न मां वन्दितुम् अर्हसि
आयुर् विद्या धनं कीर्तिर् धर्मः स्वर्गादिकं च यत्
तस्य नश्यति वै सर्वं यं नमस्यति वै गुरुः ॥
कृताञ्जलिपुटस् तां वै गौतमः प्राह विस्मितः ॥
तपस्विनी त्वं वृद्धा च गुणज्येष्ठा च भामिनी
अल्पविद्यस् त्व् अल्पवया अहं तव गुरुः कथम् ॥
आर्ष्टिषेणप्रियपुत्र ऋतध्वज इति श्रुतः
गुणवान् मतिमाञ् शूरः क्षत्रधर्मपरायणः ॥
स कदाचिद् वनं प्रायान् मृगयाकृष्टचेतनः
विश्रामम् अकरोद् अस्यां गुहायां स ऋतध्वजः ॥
युवा स मतिमान् दक्षो बलेन महता वृतः
तं विश्रान्तं नृपवरम् अप्सरा ददृशे ततः ॥
गन्धर्वराजस्य सुता सुश्यामा इति विश्रुता
तां दृष्ट्वा चकमे राजा राजानं चकमे च सा ॥
इति क्रीडा समभवत् तया राज्ञो महामते
निवृत्तकामो राजेन्द्रस् ताम् आपृच्छ्यागमद् गृहम् ॥
उत्पन्नाहं ततस् तस्यां सुश्यामायां महामते
गच्छन्ती मां तदा माता इदम् आह तपोधन ॥
यस् त्व् अस्यां प्रविशेद् भद्रे स ते भर्ता भविष्यति ॥
इत्य् उक्त्वा सा जगमाथ माता मम महामते
तस्माद् अत्र प्रविष्टस् त्वं पुमान् नान्यः कदाचन ॥
सहस्राणि तथाशीतिं कृत्वा राज्यं पिता मम
अत्रैव च तपस् तप्त्वा ततः स्वर्गम् उपेयिवान् ॥
स्वर्गं याते ऽपि पितरि सहस्राणि तथा दश
वर्षाणि मुनिशार्दूल राज्यं कृत्वा तथा परः ॥
स्वर्गे यातो मम भ्राता अहम् अत्रैव संस्थिता
अहं ब्रह्मन् नान्यवृत्ता न माता न पिता मम ॥
अहम् आत्मेश्वरी ब्रह्मन् निविष्टा क्षत्रकन्यका
तस्माद् भजस्व मां ब्रह्मन् व्रतस्थां पुरुषार्थिनीम् ॥
सहस्रायुर् अहं भद्रे मत्तस् त्वं वयसाधिका
अहं बालस् त्वं तु वृद्धा नैवायं घटते मिथः ॥
त्वं भर्ता मे पुरा दिष्टो नान्यो भर्ता मतो मम
धात्रा दत्तस् ततस् त्वं मां न निराकर्तुम् अर्हसि ॥
अथवा नेच्छसि मां त्वम् अप्रदुष्टाम् अनुव्रताम्
ततस् त्यक्ष्यामि जीवं मे इदानीं तव पश्यतः ॥
अपेक्षिताप्राप्तितो हि देहिनां मरणं वरम्
अनुरक्तजनत्यागे पातकान्तो न विद्यते ॥
वृद्धायास् तद् वचः श्रुत्वा गौतमो वाक्यम् अब्रवीत् ॥
अहं तपोविरहितो विद्याहीनो ह्य् अकिंचनः
नाहं वरो हि योग्यस् ते कुरूपो भोगवर्जितः ॥
अनासो ऽहं किं करोमि अतपोविद्य एव च
तस्मात् सुरूपं सुविद्याम् आपाद्य प्रथमं शुभे
पश्चात् ते वचनं कार्यं ततो वृद्धाब्रवीद् द्विजम् ॥
मया सरस्वती देवी तोषिता तपसा द्विज
तथैवापो रूपवत्यो रूपदाताग्निर् एव च ॥
तस्माद् वागीश्वरी देवी सा ते विद्यां प्रदास्यति
अग्निश् च रूपवान् देवस् तव रूपं प्रदास्यति ॥
एवम् उक्त्वा गौतमं तं वृद्धोवाच विभावसुम्
प्रार्थयित्वा सुविद्यं तं सुरूपं चाकरोन् मुनिम् ॥
ततः सुविद्यः सुभगः सुकान्तो वृद्धां स पत्नीम् अकरोत् प्रीतियुक्तः
तया स रेमे बहुला मनोज्ञया समाः सुखं प्रीतमना गुहायाम्
कदाचित् तत्र वसतोर् दंपत्योर् मुदतोर् गिरौ
गुहायां मुनिशार्दूल आजग्मुर् मुनयो ऽमलाः ॥
वसिष्ठवामदेवाद्या ये चान्ये च महर्षयः
भ्रमन्तः पुण्यतीर्थानि प्राप्नुवंस् तस्य तां गुहाम् ॥
आगतांस् तान् ऋषीञ् ज्ञात्वा गौतमः सह भार्यया
सत्कारम् अकरोत् तेषां जहसुस् तं च केचन ॥
ये बाला यौवनोन्मत्ता वयसा ये च मध्यमाः
वृद्धां च गौतमं प्रेक्ष्य जहसुस् तत्र केचन ॥
पुत्रो ऽयं तव पौत्रो वा वृद्धे को गौतमो ऽभवत्
सत्यं वदस्व कल्याणि इत्य् एवं जहसुर् द्विजाः ॥
विषं वृद्धस्य युवती वृद्धाया अमृतं युवा
इष्टानिष्टसमायोगो दृष्टो ऽस्माभिर् अहो चिरात् ॥
इत्य् एवम् ऊचिरे केचिद् दंपत्योः शृण्वतोस् तदा
एवम् उक्त्वा कृतातिथ्या ययुः सर्वे महर्षयः ॥
ऋषीणां वचनं श्रुत्वा उभाव् अपि सुदुःखितौ
लज्जितौ च महाप्राज्ञौ गौतमो भार्यया सह
पप्रच्छ मुनिशार्दूलम् अगस्त्यम् ऋषिसत्तमम् ॥
को देशः किम् उ तीर्थं वा यत्र श्रेयः समाप्यते
शीघ्रम् एव महाप्राज्ञ भुक्तिमुक्तिप्रदायकम् ॥
वदद्भिर् मुनिभिर् ब्रह्मन् मया श्रुतम् इदं वचः
सर्वे कामास् तत्र पूर्णा गौतम्यां नात्र संशयः ॥
तस्माद् गच्छ महाबुद्धे गौतमीं पापनाशिनीम्
अहं त्वाम् अनुयास्यामि यथेच्छसि तथा कुरु ॥
एतच् छ्रुत्वागस्त्यवाक्यं वृद्धया गौतमो ऽभ्यगात्
तत्र तेपे तपस् तीव्रं पत्न्या स भगवान् ऋषिः ॥
स्तुतिं चकार देवस्य शंभोर् विष्णोस् तथैव च
गङ्गां च तोषयाम् आस भार्यार्थं भगवान् ऋषिः ॥
खिन्नात्मनाम् अत्र भवे त्वम् एव शरणं शिवः
मरुभूमाव् अध्वगानां विटपीव प्रियायुतः ॥
उच्चावचानां भूतानां सर्वथा पापनोदनः
सस्यानां घनवत् कृष्ण त्वम् अवग्रहशोषिणाम् ॥
वैकुण्ठदुर्गनिःश्रेणिस् त्वं पीयूषतरंगिणी
अधोगतानां तप्तानां शरणं भव गौतमि ॥
ततस् तुष्टावदद् वाक्यं गौतमं वृद्धया युतम्
शरणागतदीनार्तं शरण्या गौतमी मुदा ॥
अभिषिञ्चस्व भार्यां त्वं मज्जलैर् मन्त्रसंयुतैः
कलशैर् उपचारैश् च ततः पत्नी तव प्रिया ॥
सुरूपा चारुसर्वाङ्गी सुभगा चारुलोचना
सर्वलक्षणसंपूर्णा रम्यरूपम् अवाप्स्यति ॥
रूपवत्या पुनस् त्वं वै भार्यया चाभिषेचितः
सर्वलक्षणसंपूर्णः कान्तं रूपम् अवाप्स्यसि ॥
तथेति गाङ्गवचनाद् यथोक्तं तौ च चक्रतुः
सुरूपताम् उभौ प्राप्तौ गौतम्याश् च प्रसादतः ॥
अभिषेकोदकं यच् च सा नदी समजायत
तस्या नाम्ना तु विख्याता वृद्धाया मुनिसत्तम ॥
वृद्धा नदीति विख्याता गौतमो ऽपि तथोच्यते
वृद्धगौतम इत्य् उक्त ऋषिभिः समवासिभिः
वृद्धा तु गौतमीं प्राह गङ्गां प्रत्यक्षरूपिणीम् ॥
मन्नाम्नीयं नदी देवि वृद्धा चेत्य् अभिधीयताम्
त्वया च संगमस् तस्यास् तस्यास् तीर्थम् अनुत्तमम् ॥
रूपसौभाग्यसंपत्ति पुत्रपौत्रप्रवर्धनम्
आयुरारोग्यकल्याणं जयप्रीतिविवर्धनम्
स्नानदानादिहोमैश् च पितॄणां पावनं परम् ॥
अस्त्व् इत्य् आह च तां गङ्गा सुवृद्धां गौतमप्रियाम्
गौतमस्थापितं लिङ्गं वृद्धानाम्नैव कीर्तितम् ॥
तत्रैव च मुदं प्राप्तो वृद्धया मुनिसत्तमः
तत्र स्नानं च दानं च सर्वाभीष्टप्रदायकम् ॥
ततः प्रभृति तत् तीर्थं वृद्धासंगमम् उच्यते ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0