भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 106

106.1

प्रवरासंगमो नाम श्रेष्ठा चैव महानदी
यत्र सिद्धेश्वरो देवः सर्वलोकोपकारकृत् ॥

106.2

देवानां दानवानां च संगमो ऽभूत् सुदारुणः
तेषां परस्परं वापि प्रीतिश् चाभून् महामुने ॥

106.3

ते ऽप्य् एवं मन्त्रयाम् आसुर् देवा वै दानवा मिथः
मेरुपर्वतम् आसाद्य परस्परहितैषिणः ॥

106.4

अमृतेनामरत्वं स्याद् उत्पाद्यामृतम् उत्तमम्
पिबामः सर्व एवैते भवामश् चामरा वयम् ॥

106.5

एकीभूत्वा वयं लोकान् पालयामः सुखानि च
प्राप्स्यामः संगरं हित्वा संगरो दुःखकारणम् ॥

106.6

प्रीत्या चैवार्जितान् अर्थान् भोक्ष्यामो गतमत्सराः
यतः स्नेहेन वृत्तिर् या सास्माकं सुखदा सदा ॥

106.7

वैपरीत्यं तु यद् वृत्तं न स्मर्तव्यं कदाचन
न च त्रैलोक्यराज्ये ऽपि कैवल्ये वा सुखं मनाक्
तद् ऊर्ध्वम् अपि वा यत् तु निर्वैरत्वाद् अवाप्यते ॥

106.8

एवं परस्परं प्रीताः सन्तो देवाश् च दानवाः
एकीभूताश् च सुप्रीता विमथ्य वरुणालयम् ॥

106.9

मन्थानं मन्दरं कृत्वा रज्जुं कृत्वा तु वासुकिम्
देवाश् च दानवाः सर्वे ममन्थुर् वरुणालयम् ॥

106.10

उत्पन्नं च ततः पुण्यम् अमृतं सुरवल्लभम्
निष्पन्ने चामृते पुण्ये ते च प्रोचुः परस्परम् ॥

106.11

यामः स्वं स्वम् अधिष्ठानं कृतकार्याः श्रमं गताः
सर्वे समं च सर्वेभ्यो यथायोग्यं विभज्यताम् ॥

106.12

यदा सर्वागमो यत्र यस्मिंल् लग्ने शुभावहे
विभज्यताम् इदं पुण्यम् अमृतं सुरसत्तमाः ॥

106.13

इत्य् उक्त्वा ते ययुः सर्वे दैत्यदानवराक्षसाः
गतेषु दैत्यसंघेषु देवाः सर्वे ऽन्वमन्त्रयन् ॥

106.14

गतास् ते रिपवो ऽस्माकं दैवयोगाद् अरिंदमाः
रिपूणाम् अमृतं नैव देयं भवति सर्वथा ॥

106.15

बृहस्पतिस् तथेत्य् आह पुनर् आह सुरान् इदम् ॥

106.16

न जानन्ति यथा पापा पिबध्वं च तथामृतम्
अयम् एवोचितो मन्त्रो यच् छत्रूणां पराभवः ॥

106.17

द्वेष्याः सर्वात्मना द्वेष्या इति नीतिविदो विदुः
न विश्वास्या न चाख्येया नैव मन्त्र्याश् च शत्रवः ॥

106.18

तेभ्यो न देयम् अमृतं भवेयुर् अमरास् ततः
अमरेषु च जातेषु तेषु दैत्येषु शत्रुषु
ताञ् जेतुं नैव शक्ष्यामो न देयम् अमृतं ततः ॥

106.19

इति संमन्त्र्य ते देवा वाचस्पतिम् अथाब्रुवन् ॥

106.20

क्व यामः कुत्र मन्त्रः स्यात् क्व पिबामः क्व संस्थितिः
कुर्मस् तद् एव प्रथमं वद वाचस्पते तथा ॥

106.21

यान्तु ब्रह्माणम् अमराः पृच्छन्त्व् अत्र गतिं पराम्
स तु ज्ञाता च वक्ता च दाता चैव पितामहः ॥

106.22

बृहस्पतेर् वचः श्रुत्वा मदन्तिकम् अथागमन्
नमस्य मां सुराः सर्वे यद् वृत्तं तन् न्यवेदयन् ॥

106.23

तद् देववचनात् पुत्र तैः सुरैर् अगमं हरिम्
विष्णवे कथितं सर्वं शंभवे विषहारिणे ॥

106.24

अहं विष्णुश् च शंभुश् च देवगन्धर्वकिंनरैः
मेरुकन्दरम् आगत्य न जानन्ति यथासुराः ॥

106.25

रक्षकं च हरिं कृत्वा सोमपानाय तस्थिरे
आदित्यस् तत्र विज्ञाता सोमभोज्यान् अथेतरान् ॥

106.26

सोमो दातामृतं भागं चक्रधृग् रक्षकस् तथा
नैव जानन्ति तद् दैत्या दनुजा राक्षसास् तथा ॥

106.27

विना राहुं महाप्राज्ञं सैंहिकेयं च सोमपम्
कामरूपधरो राहुर् मरुतां मध्यम् आविशत् ॥

106.28

मरुद्रूपं समास्थाय पानपात्रधरस् तथा
ज्ञात्वा दिवाकरो दैत्यं तं सोमाय न्यवेदयत् ॥

106.29

तदा तद् अमृतं तस्मै दैत्यायादैत्यरूपिणे
दत्त्वा सोमं तदा सोमो विष्णवे तन् न्यवेदयत् ॥

106.30

विष्णुः पीतामृतं दैत्यं चक्रेणोद्यम्य तच्छिरः
चिच्छेद तरसा वत्स तच्छिरस् त्व् अमरं त्व् अभूत् ॥

106.31

शिरोमात्रविहीनं यद् देहं तद् अपतद् भुवि
देहं तद् अमृतस्पृष्टं पतितं दक्षिणे तटे ॥

106.32

गौतम्या मुनिशार्दूल कम्पयद् वसुधातलम्
देहं चाप्य् अमरं पुत्र तद् अद्भुतम् इवाभवत् ॥

106.33

देहं च शिरसो ऽपेक्षि शिरो देहम् अपेक्षते
उभयं चामरं जातं दैत्यश् चायं महाबलः ॥

106.34

शिरः काये समाविष्टं सर्वान् भक्षयते सुरान्
तस्माद् देहम् इदं पूर्वं नाशयामो महीगतम्
ततस् ते शंकरं प्राहुर् देवाः सर्वे ससंभ्रमाः ॥

106.35

महीगतं दैत्यदेहं नाशयस्व सुरोत्तम
त्वं देव करुणासिन्धुः शरणागतरक्षकः ॥

106.36

शिरसा नैव युज्येत दैत्यदेहं तथा कुरु ॥

106.37

प्रेषयाम् आस चेशो ऽपि श्रेष्ठां शक्तिं तदात्मनः
मातृभिः सहितां देवीं मातरं लोकपालिनीम् ॥

106.38

ईशायुधधरा देवी ईशशक्तिसमन्विता
महीगतं यत्र देहं तत्रागाद् भक्ष्यकाङ्क्षिणी ॥

106.39

शिरोमात्रं सुराः सर्वे मेरौ तत्रैव सान्त्वयन्
देहो देव्या पुनस् तत्र युयुधे बहवः समाः ॥

106.40

राहुस् तत्र सुरान् आह भित्त्वा देहं पुरा मम
अत्रास्ते रसम् उत्कृष्टं तद् आकृष्य शरीरतः ॥

106.41

पृथक्भूते रसे देहं प्रवरे ऽमृतम् उत्तमम्
भस्मीभूयात् क्षणेनैव तस्मात् कुर्वन्तु तत् पुरा ॥

106.42

एतद् राहुवचः श्रुत्वा प्रीताः सर्वे ऽसुरारयः
अभ्यषिञ्चन् ग्रहाणां त्वं ग्रहो भूया मुदान्वितः ॥

106.43

तद्देववचनाच् छक्तिर् ईश्वरी या निगद्यते
देहं भित्त्वा दैत्यपतेः सुरशक्तिसमन्विता ॥

106.44

आकृष्य शीघ्रम् उत्कृष्टं प्रवरं चामृतं बहिः
स्थापयित्वा तु तद् देहं भक्षयाम् आस चाम्बिका ॥

106.45

कालरात्रिर् भद्रकाली प्रोच्यते या महाबला
स्थापितं रसम् उत्कृष्टं रसानां प्रवरं रसम् ॥

106.46

व्यस्रवत् स्थापितं तत् तु प्रवरा साभवन् नदी
आकृष्टम् अमृतं चैव स्थापितं साप्य् अभक्षयत् ॥

106.47

ततः श्रेष्ठा नदी जाता प्रवरा चामृता शुभा
राहुदेहसमुद्भूता रुद्रशक्तिसमन्विता ॥

106.48

नदीनां प्रवरा रम्या चामृता प्रेरिता तहा
तत्र पञ्च सहस्राणि तीर्थानि गुणवन्ति च ॥

106.49

तत्र शंभुः स्वयं तस्थौ सर्वदा सुरपूजितः
तस्यै तुष्टाः सुराः सर्वे देव्यै नद्यै पृथक् पृथक् ॥

106.50

वरान् ददुर् मुदा युक्ता यथा पूजाम् अवाप्स्यति
शंभुः सुरपतिर् लोके तथा पूजाम् अवाप्स्यसि ॥

106.51

निवासं कुरु देवि त्वं लोकानां हितकाम्यया
सदा तिष्ठ रसेशानि सर्वेषां सर्वसिद्धिदा ॥

106.52

स्तवनात् कीर्तनाद् ध्यानात् सर्वकामप्रदायिनी
त्वां नमस्यन्ति ये भक्त्या किंचिद् आपेक्ष्य सर्वदा ॥

106.53

तेषां सर्वाणि कार्याणि भवेयुर् देवताज्ञया
शिवशक्त्योर् यतस् तस्मिन् निवासो ऽभूत् सनातनः ॥

106.54

अतो वदन्ति मुनयो निवासपुरम् इत्य् अदः
प्रवरायाः पुरा देवाः सुप्रीतास् ते वरान् ददुः ॥

106.55

गङ्गायाः संगमो यस् ते विख्यातः सुरवल्लभः
तत्राप्लुतानां सर्वेषां भुक्तिर् वा मुक्तिर् एव च ॥

106.56

यद् वापि मनसः काम्यं देवानाम् अपि दुर्लभम्
स्यात् तेषां सर्वम् एवेह एवं दत्त्वा सुरा ययुः ॥

106.57

ततः प्रभृति तत् तीर्थं प्रवरासंगमं विदुः
प्रेरिता देवदेवेन शक्तिर् या प्रेरिता तु सा ॥

106.58

अमृता सैव विख्याता प्रवरैवं महानदी ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc