भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 105

105.1

सोमतीर्थम् इति ख्यातं पितॄणां प्रीतिवर्धनम्
तत्र वृत्तं महापुण्यं शृणु यत्नेन नारद ॥

105.2

सोमो राजामृतमयो गन्धर्वाणां पुराभवत्
न देवानां तदा देवा माम् अभ्येत्येदम् अब्रुवन् ॥

105.3

गन्धर्वैर् आहृतः सोमो देवानां प्राणदः पुरा
तम् अध्यायन् सुरगणा ऋषयस् त्व् अतिदुःखिताः
यथा स्यात् सोमो ह्य् अस्माकं तथा नीतिर् विधीयताम् ॥

105.4

तत्र वाग् विबुधान् आह गन्धर्वाः स्त्रीषु कामुकाः
तेभ्यो दत्त्वाथ मां देवाः सोमम् आहर्तुम् अर्हथ ॥

105.5

वाचं प्रत्यूचुर् अमरास् त्वां दातुं न क्षमा वयम्
विना तेनापि न स्थातुं शक्यं नैव त्वया विना ॥

105.6

पुनर् वाग् अब्रवीद् देवान् पुनर् एष्याम्य् अहं त्व् इह
अत्र बुद्धिर् विधातव्या क्रियतां क्रतुर् उत्तमः ॥

105.7

गौतम्या दक्षिणे तीरे भवेद् देवागमो यदि
मखं तु विषयं कृत्वा आयान्तु सुरसत्तमाः ॥

105.8

गन्धर्वाः स्त्रीप्रिया नित्यं पणध्वं तं मया सह
तथेत्य् उक्त्वा सुरगणाः सरस्वत्या वचःस्थिताः ॥

105.9

देवदूतैः पृथग् देवान् यक्षान् गन्धर्वपन्नगान्
आह्वानं चक्रिरे तत्र पुण्ये देवगिरौ तदा ॥

105.10

ततो देवगिरिर् नाम पर्वतस्याभवन् मुने
तत्रागमन् सुरगणा गन्धर्वा यक्षकिंनराः ॥

105.11

देवाः सिद्धाश् च ऋषयस् तथाष्टौ देवयोनयः
ऋषिभिर् गौतमीतीरे क्रियमाणे महाध्वरे ॥

105.12

तत्र देवैः परिवृतः सहस्राक्षो ऽभ्यभाषत ॥

105.13

गन्धर्वान् अथ संपूज्य सरस्वत्याः समीपतः
सरस्वत्या पणध्वं नो युष्माकम् अमृतात्मना ॥

105.14

तच् छक्रवचनात् ते वै गन्धर्वाः स्त्रीषु कामुकाः
सोमं दत्त्वा सुरेभ्यस् तु जगृहुस् तां सरस्वतीम् ॥

105.15

सोमो ऽभवच् चामराणां गन्धर्वाणां सरस्वती
अवसत् तत्र वागीशा तथापि च सुरान्तिके ॥

105.16

आयाति च रहो नित्यम् उपांशु क्रियताम् इति
अत एव हि सोमस्य क्रयो भवति नारद ॥

105.17

उपांशुना वर्तितव्यं सोमक्रयण एव हि
ततो ऽभवद् देवतानां सोमश् चापि सरस्वती ॥

105.18

गन्धर्वाणां नैव सोमो नैवासीच् च सरस्वती
तत्रागमन् सर्व एव सोमार्थं गौतमीतटम् ॥

105.19

गावो देवाः पर्वता यक्षरक्षाः सिद्धाः साध्या मुनयो गुह्यकाश्
गन्धर्वास् ते मरुतः पन्नगाश् सर्वौषध्यो मातरो लोकपालाः

105.20

पञ्चविंशतिनद्यस् तु गङ्गायां संगता मुने
पूर्णाहुतिर् यत्र दत्ता पूर्णाख्यानं तद् उच्यते ॥

105.21

गौतम्यां संगता यास् तु सर्वाश् चापि यथोदिताः
तन्नामधेयतीर्थानि संक्षेपाच् छृणु नारद ॥

105.22

सोमतीर्थं च गान्धर्वं देवतीर्थम् अतः परम्
पूर्णातीर्थं ततः शालं श्रीपर्णासंगमं तथा ॥

105.23

स्वागतासंगमं पुण्यं कुसुमायाश् च संगमम्
पुष्टिसंगमम् आख्यातं कर्णिकासंगमं शुभम् ॥

105.24

वैणवीसंगमश् चैव कृशरासंगमस् तथा
वासवीसंगमश् चैव शिवशर्या तथा शिखी ॥

105.25

कुसुम्भिका उपारथ्या शान्तिजा देवजा तदा
अजो वृद्धः सुरो भद्रो गौतम्या सह संगताः ॥

105.26

एते चान्ये च बहवो नदीनदसहायगाः
पृथिव्यां यानि तीर्थानि ह्य् अगमन् देवपर्वते ॥

105.27

सोमार्थं वै तथा चान्ये ऽप्य् आगमन् मखमण्डपम्
तानि तीर्थानि गङ्गायां संगतानि यथाक्रमम् ॥

105.28

नदीरूपेण कान्य् एव नदरूपेण कानिचित्
सरोरूपेण कान्य् अत्र स्तवरूपेण कानिचित् ॥

105.29

तान्य् एव सर्वतीर्थानि विख्यातानि पृथक् पृथक्
तेषु स्नानं जपो होमः पितृतर्पणम् एव च ॥

105.30

सर्वकामप्रदं पुंसां भुक्तिदं मुक्तिभाजनम्
एतेषां पठनं चापि स्मरणं वा करोति यः
सर्वपापविनिर्मुक्तो याति विष्णुपुरं जनः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc