ब्रह्म पुराण · अध्याय 104
विश्वामित्रं हरिश्चन्द्रं शुनःशेपं च रोहितम्
वारुणं ब्राह्मम् आग्नेयम् ऐन्द्रम् ऐन्दवम् ऐश्वरम् ॥
मैत्रं च वैष्णवं चैव याम्यम् आश्विनम् औशनम्
एतेषां पुण्यतीर्थानां नामधेयं शृणुष्व मे ॥
हरिश्चन्द्र इति त्व् आसीद् इक्ष्वाकुप्रभवो नृपः
तस्य गृहे मुनी प्राप्तौ नारदः पर्वतस् तथा
कृत्वातिथ्यं तयोः सम्यग् घरिश्चन्द्रो ऽब्रवीद् ऋषी ॥
पुत्रार्थं क्लिश्यते लोकः किं पुत्रेण भविष्यति
ज्ञानी वाप्य् अथवाज्ञानी उत्तमो मध्यमो ऽथवा
एतं मे संशयं नित्यं ब्रूताम् ऋषिवराव् उभौ ॥
ताव् ऊचतुर् हरिश्चन्द्रं पर्वतो नारदस् तथा ॥
एकधा दशधा राजञ् शतधा च सहस्रधा
उत्तरं विद्यते सम्यक् तथाप्य् एतद् उदीर्यते ॥
नापुत्रस्य परो लोको विद्यते नृपसत्तम
जाते पुत्रे पिता स्नानं यः करोति जनाधिप ॥
दशानाम् अश्वमेधानाम् अभिषेकफलं लभेत्
आत्मप्रतिष्ठा पुत्रात् स्याज् जायते चामरोत्तमः ॥
अमृतेनामरा देवाः पुत्रेण ब्राह्मणादयः
त्रिऋणान् मोचयेत् पुत्रः पितरं च पितामहान् ॥
किं तु मूलं किम् उ जलं किं तु श्मश्रूणि किं तपः
विना पुत्रेण राजेन्द्र स्वर्गो मुक्तिः सुतात् स्मृताः ॥
पुत्र एव परो लोको धर्मः कामो ऽर्थ एव च
पुत्रो मुक्तिः परं ज्योतिस् तारकः सर्वदेहिनाम् ॥
विना पुत्रेण राजेन्द्र स्वर्गमोक्षौ सुदुर्लभौ
पुत्र एव परो लोके धर्मकामार्थसिद्धये ॥
विना पुत्रेण यद् दत्तं विना पुत्रेण यद् धुतम्
विना पुत्रेण यज् जन्म व्यर्थं तद् अवभाति मे ॥
तस्मात् पुत्रसमं किंचित् काम्यं नास्ति जगत्त्रये
तच् छ्रुत्वा विस्मयवांस् ताव् उवाच नृपः पुनः ॥
कथं मे स्यात् सुतो ब्रूतां यत्र क्वापि यथातथम्
येन केनाप्य् उपायेन कृत्वा किंचित् तु पौरुषम्
मन्त्रेण यागदानाभ्याम् उत्पाद्यो ऽसौ सुतो मया ॥
ताव् ऊचतुर् नृपश्रेष्ठं हरिश्चन्द्रं सुतार्थिनम्
ध्यात्वा क्षणं तथा सम्यग् गौतमीं याहि मानद ॥
तत्रापांपतिर् उत्कृष्टं ददाति मनसीप्सितम्
वरुणः सर्वदाता वै मुनिभिः परिकीर्तितः ॥
स तु प्रीतः शनैः काले तव पुत्रं प्रदास्यति
एतच् छ्रुत्वा नृपश्रेष्ठो मुनिवाक्यं तथाकरोत् ॥
तोषयाम् आस वरुणं गौतमीतीरम् आश्रितः
ततश् च तुष्टो वरुणो हरिश्चन्द्रम् उवाच ह ॥
पुत्रं दास्यामि ते राजंल् लोकत्रयविभूषणम्
यदि यक्ष्यसि तेनैव तव पुत्रो भवेद् ध्रुवम् ॥
हरिश्चन्द्रो ऽपि वरुणं यक्ष्ये तेनेत्य् अवोचत
ततो गत्वा हरिश्चन्द्रश् चरुं कृत्वा तु वारुणम् ॥
भार्यायै नृपतिः प्रादात् ततो जातः सुतो नृपात्
जाते पुत्रे अपाम् ईशः प्रोवाच वदतां वरः ॥
अद्यैव पुत्रो यष्टव्यः स्मरसे वचनं पुरा ॥
हरिश्चन्द्रो ऽपि वरुणं प्रोवाचेदं क्रमागतम् ॥
निर्दशो मेध्यतां याति पशुर् यक्ष्ये ततो ह्य् अहम् ॥
तच् छ्रुत्वा वचनं राज्ञो वरुणो ऽगात् स्वम् आलयम्
निर्दशे पुनर् अभ्येत्य यजस्वेत्य् आह तं नृपम् ॥
राजापि वरुणं प्राह निर्दन्तो निष्फलः पशुः
पशोर् दन्तेषु जातेषु एहि गच्छाधुनाप्पते ॥
तच् छ्रुत्वा राजवचनं पुनः प्रायाद् अपांपतिः
जातेषु चैव दन्तेषु सप्तवर्षेषु नारद ॥
पुनर् अप्य् आह राजानं यजस्वेति ततो ऽब्रवीत्
राजापि वरुणं प्राह पत्स्यन्तीमे अपांपते ॥
संपत्स्यन्ति तथा चान्ये ततो यक्ष्ये व्रजाधुना
पुनः प्रायात् स वरुणः पुनर्दन्तेषु नारद
यजस्वेति नृपं प्राह राजा प्राह त्व् अपांपतिम् ॥
यदा तु क्षत्रियो यज्ञे पशुर् भवति वारिप
धनुर्वेदं यदा वेत्ति तदा स्यात् पशुर् उत्तमः ॥
तच् छ्रुत्वा राजवचनं वरुणो ऽगात् स्वम् आलयम्
यदास्त्रेषु च शस्त्रेषु समर्थो ऽभूत् स रोहितः ॥
सर्ववेदेषु शास्त्रेषु वेत्ताभूत् स त्व् अरिंदमः
युवराज्यम् अनुप्राप्ते रोहिते षोडशाब्दिके ॥
प्रीतिमान् अगमत् तत्र यत्र राजा सरोहितः
आगत्य वरुणः प्राह यजस्वाद्य सुतं स्वकम् ॥
ओम् इत्य् उक्त्वा नृपवर ऋत्विजः प्राह भूपतिः
रोहितं च सुतं ज्येष्ठं शृण्वतो वरुणस्य च ॥
एहि पुत्र महावीर यक्ष्ये त्वां वरुणाय हि ॥
किम् एतद् इत्य् अथोवाच रोहितः पितरं प्रति
पितापि तद् यथावृत्तम् आचचक्षे सविस्तरम्
रोहितः पितरं प्राह शृण्वतो वरुणस्य च ॥
अहं पूर्वं महाराज ऋत्विग्भिः सपुरोहितः
विष्णवे लोकनाथाय यक्ष्ये ऽहं त्वरितं शुचिः
पशुना वरुणेनाथ तद् अनुज्ञातुम् अर्हसि ॥
रोहितस्य तु तद् वाक्यं श्रुत्वा वारीश्वरस् तदा
कोपेन महताविष्टो जलोदरम् अथाकरोत् ॥
हरिश्चन्द्रस्य नृपते रोहितः स वनं ययौ
गृहीत्वा स धनुर् दिव्यं रथारूढो गतव्यथः ॥
यत्र चाराध्य वरुणं हरिश्चन्द्रो जनेश्वरः
गङ्गायां प्राप्तवान् पुत्रं तत्रागात् सो ऽपि रोहितः ॥
व्यतीतान्य् अथ वर्षाणि पञ्च षष्ठे प्रवर्तति
तत्र स्थित्वा नृपसुतः शुश्राव नृपते रुजम् ॥
मया पुत्रेण जातेन पितुर् वै क्लेशकारिणा
किं फलं किं नु कृत्यं स्याद् इत्य् एवं पर्यचिन्तयत् ॥
तस्यास् तीरे ऋषीन् पुण्यान् अपश्यन् नृपतेः सुतः
गङ्गातीरे वर्तमानम् अपश्यद् ऋषिसत्तमम् ॥
अजीगर्तम् इति ख्यातम् ऋषेस् तु वयसः सुतम्
त्रिभिः पुत्रैर् अनुवृतं भार्यया क्षीणवृत्तिकम्
तं दृष्ट्वा नृपतेः पुत्रो नमस्येदं वचो ऽब्रवीत् ॥
क्षीणवृत्तिः कृशः कस्माद् दुर्मना इव लक्ष्यसे ॥
अजीगर्तो ऽपि चोवाच रोहितं नृपतेः सुतम् ॥
वर्तनं नास्ति देहस्य भोक्तारो बहवश् च मे
विनान्नेन मरिष्यामो ब्रूहि किं करवामहे ॥
तच् छ्रुत्वा पुनर् अप्य् आह नृपपुत्र ऋषिं तदा ॥
तव किं वर्तते चित्ते तद् ब्रूहि वदतां वर ॥
हिरण्यं रजतं गावो धान्यं वस्त्रादिकं न मे
विद्यते नृपशार्दूल वर्तनं नास्ति मे ततः ॥
सुता मे सन्ति भार्या च अहं वै पञ्चमस् तथा
नैतेषां कतमस्यापि क्रेतान्नेन नृपोत्तम ॥
किं क्रीणासि महाबुद्धे ऽजीगर्त सत्यम् एव मे
वद नान्यच् च वक्तव्यं विप्रा वै सत्यवादिनः ॥
त्रयाणाम् अपि पुत्राणाम् एकं वा मां तथैव च
भार्यां वापि गृहाणेमां क्रीत्वा जीवामहे वयम् ॥
किं भार्यया महाबुद्धे किं त्वया वृद्धरूपिणा
युवानं देहि पुत्रं मे पुत्राणां यं त्वम् इच्छसि ॥
ज्येष्ठपुत्रं शुनःपुच्छं नाहं क्रीणामि रोहित
माता कनीयसं चापि न क्रीणाति ततो ऽनयोः
मध्यमं तु शुनःशेपं क्रीणामि वद तद्धनम् ॥
वरुणाय पशुः कल्प्यः पुरुषो गुणवत्तरः
यदि क्रीणासि मूल्यं त्वं वद सत्यं महामुने ॥
तथेत्य् उक्त्वा त्व् अजीगर्तः पुत्रमूल्यम् अकल्पयत्
गवां सहस्रं धान्यानां निष्कानां चापि वाससाम्
राजपुत्र वरं देहि दास्यामि स्वसुतं तव ॥
तथेत्य् उक्त्वा रोहितो ऽपि प्रादात् सवसनं धनम्
दत्त्वा जगाम पितरम् ऋषिपुत्रेण रोहितः
पित्रे निवेदयाम् आस क्रयक्रीतम् ऋषेः सुतम् ॥
वरुणाय यजस्व त्वं पशुना त्वम् अरुग् भव ॥
तथोवाच हरिश्चन्द्रः पुत्रवाक्याद् अनन्तरम् ॥
ब्राह्मणाः क्षत्रिया वैश्या राज्ञा पाल्या इति श्रुतिः
विशेषतस् तु वर्णानां गुरवो हि द्विजोत्तमाः ॥
विष्णोर् अपि हि ये पूज्या मादृशाः कुत एव हि
अवज्ञयापि येषां स्यान् नृपाणां स्वकुलक्षयः ॥
तान् पशून् कृत्वा कृपणं कथं रक्षितुम् उत्सहे
अहं च ब्राह्मणं कुर्यां पशुं नैतद् धि युज्यते ॥
वरं हि जातु मरणं न कथंचिद् द्विजं पशुम्
करोमि तस्मात् पुत्र त्वं ब्राह्मणेन सुखं व्रज ॥
एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी ॥
गौतमीं गच्छ राजेन्द्र ऋत्विग्भिः सपुरोहितः
पशुना विप्रपुत्रेण रोहितेन सुतेन च ॥
त्वया कार्यः क्रतुश् चैव शुनःशेपवधं विना
क्रतुः पूर्णो भवेत् तत्र तस्माद् याहि महामते ॥
तच् छ्रुत्वा वचनं शीघ्रं गङ्गाम् अगान् नृपोत्तमः
विश्वामित्रेण ऋषिणा वसिष्ठेन पुरोधसा ॥
वामदेवेन ऋषिणा तथान्यैर् मुनिभिः सह
प्राप्य गङ्गां गौतमीं तां नरमेधाय दीक्षितः ॥
वेदिमण्डपकुण्डादि यूपपश्वादि चाकरोत्
कृत्वा सर्वं यथान्यायं तस्मिन् यज्ञे प्रवर्तिते ॥
शुनःशेपं पशुं यूपे निबध्याथ समन्त्रकम्
वारिभिः प्रोक्षितं दृष्ट्वा विश्वामित्रो ऽब्रवीद् इदम् ॥
देवान् ऋषीन् हरिश्चन्द्रं रोहितं च विशेषतः
अनुजानन्त्व् इमं सर्वे शुनःशेपं द्विजोत्तमम् ॥
येभ्यस् त्व् अयं हविर् देयो देवेभ्यो ऽयं पृथक् पृथक्
अनुजानन्तु ते सर्वे शुनःशेपं विशेषतः ॥
वसाभिर् लोमभिस् त्वग्भिर् मांसैः सन्मन्त्रितैर् मखे
अग्नौ होष्यः पशुश् चायं शुनःशेपो द्विजोत्तमः ॥
उपासिताः स्युर् विप्रेन्द्रास् ते सर्वे त्व् अनुमन्य माम्
गौतमीं यान्तु विप्रेन्द्राः स्नात्वा देवान् पृथक् पृथक् ॥
मन्त्रैः स्तोत्रैः स्तुवन्तस् ते मुदं यान्तु शिवे रताः
एनं रक्षन्तु मुनयो देवाश् च हविषो भुजः ॥
तथेत्य् ऊचुश् च मुनयो मेने च नृपसत्तमः
ततो गत्वा शुनःशेपो गङ्गां त्रैलोक्यपावनीम् ॥
स्नात्वा तुष्टाव तान् देवान् ये तत्र हविषो भुजः
ततस् तुष्टाः सुरगणाः शुनःशेपं च ते मुने
अवदन्त सुराः सर्वे विश्वामित्रस्य शृण्वतः ॥
क्रतुः पूर्णो भवत्व् एष शुनःशेपवधं विना ॥
विशेषेणाथ वरुणश् चावदन् नृपसत्तमम्
ततः पूर्णो ऽभवद् राज्ञो नृमेधो लोकविश्रुतः ॥
देवानां च प्रसादेन मुनीनां च प्रसादतः
तीर्थस्य तु प्रसादेन राज्ञः पूर्णो ऽभवत् क्रतुः ॥
विश्वामित्रः शुनःशेपं पूजयाम् आस संसदि
अकरोद् आत्मनः पुत्रं पूजयित्वा सुरान्तिके ॥
ज्येष्ठं चकार पुत्राणाम् आत्मनः स तु कौशिकः
न मेनिरे ये च पुत्रा विश्वामित्रस्य धीमतः ॥
शुनःशेपस्य च ज्यैष्ठ्यं ताञ् शशाप स कौशिकः
ज्यैष्ठ्यं ये मेनिरे पुत्राः पूजयाम् आस तान् सुतान् ॥
वरेण मुनिशार्दूलस् तद् एतत् कथितं मया
एतत् सर्वं यत्र जातं गौतम्या दक्षिणे तटे ॥
तत्र तीर्थानि पुण्यानि विख्यातानि सुरादिभिः
बहूनि तेषां नामानि मत्तः शृणु महामते ॥
हरिश्चन्द्रं शुनःशेपं विश्वामित्रं सरोहितम्
इत्याद्य् अष्ट सहस्राणि तीर्थान्य् अथ चतुर्दश ॥
तेषु स्नानं च दानं च नरमेधफलप्रदम्
आख्यातं चास्य माहात्म्यं तीर्थस्य मुनिसत्तम ॥
यः पठेत् पाठयेद् वापि शृणुयाद् वापि भक्तितः
अपुत्रः पुत्रम् आप्नोति यच् चान्यन् मनसः प्रियम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0