भाषा

ENहिગુ
ग्रंथ पाठ

ब्रह्म पुराण · अध्याय 103

103.1

शमीतीर्थम् इति ख्यातं सर्वपापोपशान्तिदम्
तस्याख्यानं प्रवक्ष्यामि शृणु यत्नेन नारद ॥

103.2

आसीत् प्रियव्रतो नाम क्षत्रियो जयतां वरः
गौतम्या दक्षिणे तीरे दीक्षां चक्रे पुरोधसा ॥

103.3

हयमेध उपक्रान्ते ऋत्विग्भिर् ऋषिभिर् वृते
तस्य राज्ञो महाबाहोर् वसिष्ठस् तु पुरोहितः ॥

103.4

तद्यज्ञवाटम् अगमद् दानवो ऽथ हिरण्यकः
तं दानवम् अभिप्रेक्ष्य देवास् त्व् इन्द्रपुरोगमाः ॥

103.5

भीताः केचिद् दिवं जग्मुर् हव्यवाट् शमिम् आविशत्
अश्वत्थं विष्णुर् अगमद् भानुर् अर्कं वटं शिवः ॥

103.6

सोमः पलाशम् अगमद् गङ्गाम्भो हव्यवाहनः
अश्विनौ तु हयं गृह्य वायसो ऽभूद् यमः स्वयम् ॥

103.7

एतस्मिन्न् अन्तरे तत्र वसिष्ठो भगवान् ऋषिः
यष्टिम् आदाय दैतेयान् न्यवारयद् अथाज्ञया ॥

103.8

ततः प्रवृत्तः पुनर् एव यज्ञो दैत्यो गतः स्वेन बलेन युक्तः
इमानि तीर्थानि ततः शुभानि दशाश्वमेधस्य फलानि दद्युः

103.9

प्रथमं तु शमीतीर्थं द्वितीयं वैष्णवं विदुः
आर्कं शैवं च सौम्यं च वासिष्ठं सर्वकामदम् ॥

103.10

देवाश् च ऋषयः सर्वे निवृत्ते मखविस्तरे
तुष्टाः प्रोचुर् वसिष्ठं तं यजमानं प्रियव्रतम् ॥

103.11

तांश् च वृक्षांस् तां च गङ्गां मुदा युक्ताः पुनः पुनः
हयमेधस्य निष्पत्त्यै एते याता इतस् ततः ॥

103.12

हयमेधफलं दद्युस् तीर्थानीत्य् अवदन् सुराः
तस्मात् स्नानेन दानेन तेषु तीर्थेषु नारद
हयमेधफलं पुण्यं प्राप्नोति न मृषा वचः ॥

मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc