ब्रह्म पुराण · अध्याय 102
सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती
एतानि पञ्च तीर्थानि पुण्यानि मुनयो विदुः ॥
तत्र स्नात्वा तु पीत्वा तु मुच्यते सर्वकल्मषात्
सावित्री चैव गायत्री श्रद्धा मेधा सरस्वती ॥
एता मम सुता ज्येष्ठा धर्मसंस्थानहेतवः
सर्वासाम् उत्तमां कांचिन् निर्ममे लोकसुन्दरीम् ॥
तां दृष्ट्वा विकृता बुद्धिर् ममासीन् मुनिसत्तम
गृह्यमाणा मया बाला सा मां दृष्ट्वा पलायिता ॥
मृगीभूता तु सा बाला मृगो ऽहम् अभवं तदा
मृगव्याधो ऽभवच् छंभुर् धर्मसंरक्षणाय च ॥
ता मद्भीताः पञ्च सुता गङ्गाम् ईयुर् महानदीम्
ततो महेश्वरः प्रायाद् धर्मसंरक्षणाय सः ॥
धनुर् गृहीत्वा सशरम् ईशो ऽपि मृगरूपिणम्
माम् उवाच वधिष्ये त्वां मृगव्याधस् तदा हरः ॥
तत्कर्मणो निवृत्तो ऽहं प्रादां कन्यां विवस्वते
सावित्र्याद्याः पञ्च सुता नदीरूपेण संगताः ॥
ता आगताः पुनश् चापि स्वर्गं लोकं ममान्तिकम्
यत्र ताः संगता देव्या पञ्च तीर्थानि नारद ॥
संगतानि च पुण्यानि पञ्च नद्यः सरस्वती
तेषु स्नानं तथा दानं यत् किंचित् कुरुते नरः ॥
सर्वकामप्रदं तत् स्यान् नैष्कर्म्यान् मुक्तिदं स्मृतम्
तत्राभवन् मृगव्याधं तीर्थं सर्वार्थदं नृणाम्
स्वर्गमोक्षफलं चान्यद् ब्रह्मतीर्थफलं स्मृतम् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0