ब्रह्म पुराण · अध्याय 101
पुरूरवसम् आख्यातं तीर्थं वेदविदो विदुः
स्मरणाद् एव पापानां नाशनं किं तु दर्शनात् ॥
पुरूरवा ब्रह्मसदः प्राप्य तत्र सरस्वतीम्
यदृच्छया देवनदीं हसन्तीं ब्रह्मणो ऽन्तिके
तां दृष्ट्वा रूपसंपन्नाम् उर्वशीं प्राह भूपतिः ॥
केयं रूपवती साध्वी स्थितेयं ब्रह्मणो ऽन्तिके
सर्वासाम् उत्तमा योषिद् दीपयन्ती सभाम् इमाम् ॥
उर्वशी प्राह राजानम् इयं देवनदी शुभा
सरस्वती ब्रह्मसुता नित्यम् एति च याति च
तच् छ्रुत्वा विस्मितो राजा आनयेमां ममान्तिकम् ॥
उर्वशी पुनर् अप्य् आह राजानं भूरिदक्षिणम् ॥
आनीयते महाराज तस्याः सर्वं निवेद्य च ॥
ततस् तां प्राहिणोत् तत्र राजा प्रीत्या तदोर्वशीम्
सा गत्वा राजवचनं न्यवेदयद् अथोर्वशी ॥
सरस्वत्य् अपि तन् मेने उर्वश्या यन् निवेदितम्
सा तथेति प्रतिज्ञाय प्रायाद् यत्र पुरूरवाः ॥
सरस्वत्यास् ततस् तीरे स रेमे बहुलाः समाः
सरस्वान् अभवत् पुत्रो यस्य पुत्रो बृहद्रथः ॥
तां गच्छन्तीं नृपगृहं नित्यम् एव सरस्वतीम्
सरस्वन्तं ततो लक्ष्म ज्ञात्वान्येषु तथा कृतम् ॥
तस्यै ददाव् अहं शापं भूया इति महानदी
मच्छापभीता वागीशा प्रागाद् देवीं च गौतमीम् ॥
कमण्डलुभवां पूतां मातरं लोकपावनीम्
तापत्रयोपशमनीम् ऐहिकामुष्मिकप्रदाम् ॥
सा गत्वा गौतमीं देवीं प्राह मच्छापम् आदितः
गङ्गापि माम् उवाचेदं विशापां कर्तुम् अर्हसि ॥
न युक्तं यत् सरस्वत्याः शापं त्वं दत्तवान् असि
स्त्रीणाम् एष स्वभावो वै पुंस्कामा योषितो यतः ॥
स्वभावचपला ब्रह्मन् योषितः सकला अपि
त्वं कथं तु न जानीषे जगत्स्रष्टाम्बुजासन ॥
विडम्बयति कं वा न कामो वापि स्वभावतः
ततो विशापम् अवदं दृश्यापि स्यात् सरस्वती ॥
तस्माच् छापान् नदी मर्त्ये दृश्यादृश्या सरस्वती
यत्रैषा संगता देवी गङ्गायां शापविह्वला ॥
तत्र प्रायान् नृपवरो धार्मिकः स पुरूरवाः
तपस् तप्त्वा समाराध्य देवं सिद्धेश्वरं हरम् ॥
सर्वान् कामान् अथावाप गङ्गायाश् च प्रसादतः
ततः प्रभृति तत् तीर्थं पुरूरवसम् उच्यते ॥
सरस्वतीसंगमं च ब्रह्मतीर्थं तद् उच्यते
सिद्धेश्वरो यत्र देवः सर्वकामप्रदं तु तत् ॥
मूल पाठ: Brahmapurāṇa 1-246 · Data entry Peter Schreiner Renate Söhnen-Thieme · GRETIL (Göttingen) · CC BY-NC-SA 4.0