भाषा

ENहिગુ
ग्रंथ पाठ

बोधिसत्त्वयोगाचारचतुःशतकटीका · अध्याय 8

8.2

तत्रैव रज्यते कश्चित् कश्चित् तत्रैव दुष्यति ।
कश्चिन् मुह्यति तत्रैव तस्मात् कामो निरर्थकः ॥

8.3

विना कल्पनयास्तित्वं रागादीनां न विद्यते ।
भूतार्थः कल्पना चेति को ग्रहीष्यति बुद्धिमान् ॥

8.4ab

कस्यचित् केनचित् सार्धं बन्धो नाम न विद्यते ॥

8.4cd

परेण सह बन्धस्य विप्रयोगो न युज्यते ॥

8.5

अस्मिन् धर्मे ऽल्पपुण्यस्य संदेहो ऽपि न जायते ।
भवः संदेहमात्रेण जायते जर्जरीकृतः ॥

8.6

आ मोक्षाद् यस्य धर्मस्य वृद्धिम् एवोक्तवान् मुनिः ।
तत्र भक्तिर् न यस्यास्ति सुव्यक्तं बुद्धिमान् न सः ॥

8.7ab

नाशून्यं शून्यवद् दृष्टं निर्वाणं मे भवत्व् इति ॥

8.7cd

मिथ्यादृष्टेर् न निर्वाणं वर्णयन्ति तथागताः ॥

8.8

लौकिकी देश ना यत्र प्रवृत्तिस् तत्र वर्ण्यते ।
परमार्थकथा यत्र निवृत्तिस् तत्र वर्ण्यते ॥

8.9

किं करिष्याम्य् असत् सर्वम् इति ते जायते भयम् ।
विद्यते यदि कर्तव्यं नायं धर्मो निवर्तकः ॥

8.10

स्वपक्षे विद्यते रागः परपक्षस् तु ते ऽप्रियः ।
न गमिष्यसि निर्वाणं न शिवं द्वन्द्वचारिणः ॥

8.11

अकुर्वाणस्य निर्वाणं कुर्वाणस्य पुनर्भवः ।
निश्चिन्तेन सुखं प्राप्तुं निर्वाणं तेन नेतरः ॥

8.12

उद्वेगो यस्य नास्तीह भक्तिस् तस्य कुतः शिवे ।
निर्गमश् च भवाद् अस्मात् स्वगृहाद् इव दुष्करः ॥

8.13

दुःखाभिभूता दृश्यन्ते केचिन् मरणकाङ्क्षिणः ।
ते तदा केवलं मोहान् न गच्छन्ति परं पदम् ॥

8.20ab

सद् असत् सदसच् चेति नोभयं चेति कथ्यते ॥

8.20cd

ननु व्याधिवशात् पथ्यम् औषधं नाम जायते ॥

8.21

सम्यग्दृष्टे परं स्थानं किंचिद् दृष्टे शुभा गतिः ।
तस्माद् अध्यात्मचिन्तायां कार्या नित्यं मतिर् बुधैः ॥

8.22

इह यद्य् अपि तत्त्वज्ञो निर्वाणं नाधिगच्छति ।
प्राप्नोत्य् अयत्नतो ऽवश्यं पुनर्जन्मनि कर्मवत् ।

8.23

सर्वकार्येषु निष्पत्तिश् चिन्त्यमाना सुदुर्लभा ।
न च नास्तीह निर्वाणं युक्ता मुक्ताश् च दुर्लभाः ॥

8.24

श्रुत्वा शरीरनैर्गुण्यं क्षणं रागो न तिष्ठति ।
प्राप्तस् तेनैव मार्गेण सर्वस्यापि ननु क्षयः ॥

8.25

यथा बीजस्य दृष्टो ऽन्तो न चादिस् तस्य विद्यते ।
तथा कारणवैकल्याज् जन्मनो ऽपि न सम्भवः ॥

मूल पाठ: Bodhisattvayogācāracatuḥśatakaṭīkā · Edition: Kōshin Suzuki Sanskrit Fragments and Tibetan Translation of Candrakīrti's Bodhisattvayogācāracatuḥśatakaṭīkā Tokyo The Sankibo Press Manuscript edited by Suzuki . · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc