भाषा

ENहिગુ
ग्रंथ पाठ

बोधिसत्त्वयोगाचारचतुःशतकटीका · अध्याय 7

7.9

हीयमानां रुजं दृष्ट्वा गमनादौ विपर्यये ।
सर्वकर्मक्षये तेन करोति मतिमान् मतिम् ॥

7.10

यदैकस्यापि कार्यस्य दृश्यते नादिकारणम् ।
तदा कस्य भयं न स्याद् दृष्ट्वैकस्यापि विस्तरम् ॥

7.11

सिद्धिः सर्वस्य कार्यस्य नियमेन न जायते ।
नियमेन कृतस्यान्तः किं तदर्थं विहन्यसे ॥

7.12

यत्नतः क्रियते कर्म कृतं नश्यत्य् अयत्नतः ।
विरागो ऽस्ति न ते कश्चिद् एवं सत्य् अपि कर्मणि ॥

7.13

अतीतस्य सुखं नास्ति नाप्य् अप्राप्तस्य विद्यते ।
वर्तमानो ऽपि यात्य् एव श्रमो ऽयं कस्य नाम ते ॥

7.14

स्वर्गो निरयतुल्यो ऽपि विदुषां स्याद् भयङ्करः ।
सर्वथा दुर्लभस् तेषां भवो यो न भयङ्करः ॥

7.15

संसारदुःखं जानीयाद् यदि बालो ऽपि सर्वशः ।
गच्छेद् अत्यन्ततो नाशं सह चित्तेन तत्क्षणम् ॥

7.16

अमानी दुर्ल भः शक्तो मानी नास्ति घृणान्वितः ।
उक्तः सुदुर्लभस् तेन ज्योतिर्ज्योतिः परायणः ॥

7.17

निवृत्तविषयस्येह विषयः किल लभ्यते ।
केनापि हेतुना धर्मो विपरीतो ऽपि स ं स्मृतः ॥

7.18

पुण्यस्य फलम् ऐश्वर्यं तच् च रक्ष्यं सदान्यतः ।
कथं नाम तद् आत्मीयं यद् रक्ष्यं सर्वदान्यतः ॥

7.19

या या लोकस्थितिस् तां तां धर्मः समनुवर्तते ।
धर्माद् अपि ततो लोको बलवान् इव दृश्यते ॥

7.20

विषयश् च शुभेनेष्टो विषयः स च कुत्सितः ।
श्रेयान् यस्य परित्यागो निष्पन्नेनापि तेन किम् ॥

7.21ab

कार्यं नास्त्य् आज्ञया यस्य तस्य धर्मो निरर्थकः ।

मूल पाठ: Bodhisattvayogācāracatuḥśatakaṭīkā · Edition: Kōshin Suzuki Sanskrit Fragments and Tibetan Translation of Candrakīrti's Bodhisattvayogācāracatuḥśatakaṭīkā Tokyo The Sankibo Press Manuscript edited by Suzuki . · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc