बोधिसत्त्वयोगाचारचतुःशतकटीका · अध्याय 14
आयत्तं यस्य भावस्य भवेन् नान्यत्र कुत्रचित् ।
सिध्येत् तस्यास्तिता नाम क्वचित् स च न विद्यते ॥
रूपम् एव घटो नैक्यं घटो नान्यो ऽस्ति रूपवान् ।
न विद्यते घटे रूपं न रूपे विद्यते घटः ॥
रूपम् एव घटो नैक्यम् ।
घटो नान्यो ऽस्ति रूपवान् ।
वैलक्षण्यं द्वयोर् दृष्ट्वा भावाद् अन्यो घटो यदि ।
घटाद् अन्यो न भावो ऽपि किम् एवं न भविष्यति ॥
वैलक्षण्यं द्वयोर् दृष्ट्वा भावाद् अन्यो घट
एको यदि घटो नेष्टो घटो ऽप्य् एको न जायते ॥
न चायं समयोर् योगस् तेनाप्य् एको न जायते ॥
यावद् द्रव्यं यदा रूपं तदा रूपं महन् न किम् ॥
समयो जायते वाच्यः प्रतिवाद्य् अपरो यदि ॥
लक्षणेनापि लक्ष्यस्य यत्र सि द्धिर् न विद्यते ।
संख्यादिव्यतिरेकेण तत्र भावो न विद्यते ॥
लक्षणेनापि लक्ष्यस्य यत्र सिद्धिर् न विद्यते ।
संख्यादिव्यतिरेकेण तत्र भावो न विद्यते ॥
घटस्य न भवत्य् ऐक्यम् अपृथक्त्वाद् धि लक्षणैः ।
एकैकस्मिन् घटाभावे बहुत्वं नोपपद्यते ॥
न ह्य् अस्पर्शवतो नाम योगः स्पर्शवता सह ।
रूपादीनाम् अतो योगः सर्वथापि न युज्यते ॥
घटस्यावयवो रूपं तेन तावन् न तद् घटः ।
यस्माद् अवयवी नास्ति तेन नावयवो ऽपि तत् ॥
सर्वेषाम् अपि रूपाणां रूपत्वम् अविलक्षणम् ।
एकस्य घटसद्भावो नान्येषां किं नु कारणम् ॥
रूपम् अन्यद् रसादिभ्यो न घटाद् इति ते मतम् ।
स्वयं यस् तैर् विना नास्ति सो ऽनन्यो रूपतः कथम् ॥
घटस्य कारणं नास्ति ॥
स्वयं कार्यं न जायते ॥
रूपादिभ्यः पृथक् कश्चिद् घटस् तस्मान् न विद्यते ॥
घटः कारनतः सिद्धः सिद्धं कारणम् अन्यतः ।
सिद्धिर् यस्य स्वतो नास्ति तद् अन्यज् जनयेत् कथम् ॥
समवाये ऽपि रूपस्य गन्धत्वं नोपपद्यते ।
समूहस्यैकता तेन घटस्येव न युज्यते ॥
घटस्य न भवत्य् ऐक्यम् अपृथक्त्वाद् धि लक्षणैर्
समूहस्यैकता तेन घटस्येव न युज्यते ।
रूपादिव्यतिरेके ण यथा कुम्भो न विद्यते ।
वाय्वादिव्यतिरेकेण तथा रूपं न विद्यते ॥
अग्निर् एव भवत्य् उष्णम् अनुष्णं दह्यते कथम् ।
नास्ति तेनेन्धनं नाम तदृते ऽग्निर् न विद्यते ॥
तदृते ऽग्निर् न विद्यते ।
अभिभूतो ऽपि यद्य् उष्णः सो ऽप्य् अग्निः किं न जायते ॥
अथानुष्णे परो ऽप्य् अग्नौ भावो ऽस्तीति न युज्यते ॥
इन्धनं यद्य् अणोर् नास्ति तेनास्त्य् अग्निर् अनिन्धनः ॥
अणुर् एकात्मको नास्ति स्यात् तस्यापीन्धनं यदि ॥
तस्य तस्यैकता नास्ति यो यो भावः परीक्ष्यते ॥
न सन्ति तेनानेके ऽपि येनैको ऽपि न विद्यते ॥
भावास् त्रयो न सन्त्य् अन्ये तत्रैको ऽस्तीति चेन् मतम् ॥
त्रित्वं येनास्ति सर्वत्र तेनैकत्वं न विद्यते ॥
सद् असत् सदसच् चेति सदसन् नेति च क्रमः ।
एस प्रयोज्यो विद्वद्भिर् एकत्वादिषु नित्यशः ॥
मूल पाठ: Bodhisattvayogācāracatuḥśatakaṭīkā · Edition: Kōshin Suzuki Sanskrit Fragments and Tibetan Translation of Candrakīrti's Bodhisattvayogācāracatuḥśatakaṭīkā Tokyo The Sankibo Press Manuscript edited by Suzuki . · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0