भाषा

ENहिગુ
ग्रंथ पाठ

बोधिसत्त्वयोगाचारचतुःशतकटीका · अध्याय 15

15.18

जायमानो न तस्यास्ति स्यात् तस्याप्य् अन्तरं यतः ॥

15.19

जायमाननिरोधेन जात उत्पद्यते यतः ।
ततो ऽन्यस्यापि सद्भावो जायमानस्य दृश्यते ॥

15.20ab

जातो यदा तदा नास्ति जायमानस्य सम्भवः ।

15.20cd

जात उत्पद्यते कस्माज् जायमानो यदा तदा ॥

15.21ab

अजातो जात इत्य् एव जायमानः कृतः किल ॥

15.21cd

भेदाभावाद् घटो ऽभावस् तदा किं न विकल्प्यते ॥

15.22ab

अनिष्पन्नो ऽप्य् अजातात् तु जायमानो बहिष्कृतः ॥

15.22cd

तथापि जाय ते ऽजा तो यतो जाताद् बहिष्कृतः ॥

15.23abc

नासीत् प्राग् जायमानो ऽपि पश्चाच् च किल विद्यते ।
तेनापि जायते ऽजातः ॥

15.23d

नाभूतो नाम जायते ॥

15.24ab

जायते ऽस्तीति निष्पन्नो नास्तीत्य् अकृत उच्यते ॥

15.24cd

जायमानो यदाभावस् तदा को नाम स स्मृतः ॥

15.25

कारणव्यतिरेकेण यदा कार्यं न विद्यते ।
प्रवृत्तिश् च निवृत्तिश् च तदा नैवोपपद्यते ॥

15.1

केनचिद् धेतुना शून्यम् अशून्यम् इव दृश्यते ।
तस्य प्रकरणैः सर्वैः प्रतिषेधो विधीयते ॥

15.2a

यदा वक्तास्ति वाच्यञ् च न शून्य ।

मूल पाठ: Bodhisattvayogācāracatuḥśatakaṭīkā · Edition: Kōshin Suzuki Sanskrit Fragments and Tibetan Translation of Candrakīrti's Bodhisattvayogācāracatuḥśatakaṭīkā Tokyo The Sankibo Press Manuscript edited by Suzuki . · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc