भाषा

ENहिગુ
ग्रंथ पाठ

बोधिसत्त्वयोगाचारचतुःशतकटीका · अध्याय 13

13.13

पश्येच् चक्षुश् चिराद् दूरे गतिमद् यदि तद् भवेत् ।
अत्यभ्यासे च दुरे च रूपं व्यक्तं न तच् च किम् ॥

13.14

गतेन न गुणः कश्चिद् रूपं दृष्ट्वाक्षि याति चेत् ।
द्रष्टव्यं नियमेनेष्टम् इति वा जायते वृ था ॥

13.15

गृह्णीयाद् अगतञ् चक्षुः पश्येत् सर्वम् इदं जगत् ।
यस्य नास्ति गतिस् तस्य नास्ति दूरं न चावृतम् ॥

13.16

स्वभावः सर्वभावानां पूर्वम् आत्मनि दृश्यते ।
ग्रहणं चक्षुषः केन चक्षुषैव न जायते ॥

13.17

चक्षुषो ऽस्ति न विज्ञानं विज्ञानस्य न दर्शनम् ।
उभयं नास्ति रूपस्य तै रूपम् दृश्यते कथम् ॥

13.18

न वक्ता जायते केन शब्दो याति ब्रुवन् यदि ।
अथ यात्य् अब्रुवंस् तस्मिन् प्रत्ययः केन जायते ॥

13.19

प्राप्तश् चेद् गृह्यते शब्दस् तस्यादिः केन गृह्यते ।
न चैति केव लः शब्दो गृह्यते केवलः कथम् ॥

13.20

यावन् न श्रूयते शब्दस् तावच् छब्दो न जायते ।
अशब्दस्यापि शब्दत्वम् अन्ते तच् च न युज्यते ॥

13.22

मनसा गृह्यते यो ऽर्थः पूर्वदृष्टो मरीचिवत् ।
सर्वधर्मव्यवस्थासु स संज्ञास्कन्धसंज्ञकः ॥

13.24

यदा न किंचिद् आश्च र् यं विदुषां विद्यते भुवि ।
इन्द्रियाणां गताव् एवं तदा को नाम विस्मयः ॥

13.25

अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः ।
धूमिकान्तःप्रतिश्रुत्कामरीच्यभ्रैः समो भवः ॥

मूल पाठ: Bodhisattvayogācāracatuḥśatakaṭīkā · Edition: Kōshin Suzuki Sanskrit Fragments and Tibetan Translation of Candrakīrti's Bodhisattvayogācāracatuḥśatakaṭīkā Tokyo The Sankibo Press Manuscript edited by Suzuki . · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc