बोधिसत्त्वयोगाचारचतुःशतकटीका · अध्याय 12
किं करिष्यति स त्यागं त्यागो पायं न वेत्ति यः ॥
शिवम् अन्यत्र नास्तीति नूनं तेनोक्तवान् मुनिः ॥
बुद्धोक्तेषु परोऽक्षेषु जायते यस्य संशयः ।
इहैव प्रत्ययस् तेन कर्तव्यः शून्यतां प्रति ॥
लोको ऽयं येन दुर्दृष्टो मूढ एव परत्र सः ॥
॥ वञ्चितास् ते भविष्यन्ति सुचिरं ये ऽनुयान्ति तम् ॥
स्वयं ये यान्ति निर्वाणं ते कुर्वन्ति सुदुष्करम् ।
गन्तुं नोत्सहते नेतुः पृष्ठतो ऽप्य् असतो मनः ॥
त्रासो नारभ्यते ऽदृष्टे दृष्टे ऽपैति स सर्वशः ।
नियमेनैव किंचिज्ज्ञे तेन त्रासो विधीयते ॥
द्र्ष्टे ऽपैति स सर्वशः ॥
एकान्तेनैव बालानां धर्मे ऽभ्यासः प्रवर्तके ।
धर्मान् निवर्तकात् तेषाम् अनभ्यासतया भयम् ॥
विघ्नं तत्त्वस्य यः कुर्याद् वृतो मोहेन केनचित् ।
कल्याण् आ धिगतिस् तस्य नास्ति मोक्षे तु का कथा ॥
शीलाद् अपि वरं स्रंसो न तु दृष्टेः कथंचन ॥
शीलेन गम्यते स्व र्गो दृष्ट्या याति परं पदम् ऽ ॥
अहङ्कारो ऽसतः श्रेयान् न तु नैरात्म्यदर्शनम् ।
अपायम् एव यात्य् एकः शिवम् एव तु नेतरः ॥
अद्वितीयं शिवद्वारं कुदृष्टीनां भ यङ्करम् ।
विषयः सर्वबुद्धानाम् इति नैरात्म्यम् उच्यते ॥
अस्य धर्मस्य ना म्नो ऽपि भयम् उत्पद्यते ऽसतः ॥
बलवान् नाम को दृष्टः परस्य न भयङ्करः ॥
वादस्य कृतशो धर्मो नायम् उक्तस् तथागतैः ।
प्राप्तश् चेद् गृह्यते शब्दस् तस्यादिः केन गृह्यते ।
वियुक्तम् इन्द्रियैश् चित्तं किं गत्वापि करिष्यति ॥
वियुक्तम् इन्द्रियैश् चित्तं किं गत्वापि करि ष्यति ।
एवं सतीह जीवो ऽयम् अमनस्कः सदा न किम् ॥
चक्षुः प्रतीत्य रू पं च मायावज् जायते मनः ॥
चक्षुः प्रतीत्य रूपं च मायावज् जायते मन
विद्यते यस्य सद्भावः स मायेति न युज्यते ॥
न विद्यते घटे रूपं न रूपे विद्यते घटः ।
मूल पाठ: Bodhisattvayogācāracatuḥśatakaṭīkā · Edition: Kōshin Suzuki Sanskrit Fragments and Tibetan Translation of Candrakīrti's Bodhisattvayogācāracatuḥśatakaṭīkā Tokyo The Sankibo Press Manuscript edited by Suzuki . · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0