भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार · अध्याय 9

9.1

इमं परिकरं सर्वं प्रज्ञार्थं हि मुनिर्जगौ
तस्मादुत्पादयेत् प्रज्ञां दुःखनिवृत्तिकाङ्क्षया ॥

9.2

संवृतिः परमार्थश्च सत्यद्वयमिदं मतं
बुद्धेरगोचरस्तत्त्वं बुद्धिः संवृतिरुच्यते ॥

9.3

तत्र लोको द्विधा दृष्टो योगी प्राकृतकस्तथा
तत्र प्राकृतको लोको योगिलोकेन बाध्यते ॥

9.4

बाध्यन्ते धीविशेषेण योगिनो ऽप्युत्तरोत्तरैः
दृष्टान्तेनोभयेष्टेन कार्यार्थमविचारतः ॥

9.5

लोकेन भावा दृश्यन्ते कल्प्यन्ते चापि तत्त्वतः
न तु मायावदित्यत्र विवादो योगिलोकयोः ॥

9.6

प्रत्यक्षमपि रूपादि प्रसिद्ध्या न प्रमाणतः
अशुच्यादिषु शुच्यादि प्रसिद्धिरिव सा मृषा ॥

9.7

लोकावतारणार्थं च भावा नाथेन देशिताः
तत्त्वतः क्षणिका नैते संवृत्या चेद्विरुध्यते ॥

9.8

न दोषो योगिसंवृत्या लोकात्ते तत्त्वदर्शिनः
अन्यथा लोकबाधा स्याद् अशुचिस्त्रीनिरूपणे ॥

9.9

मायोपमाज्जिनात् पुण्यं सद्भावे ऽपि कथं यथा
यदि मायोपमः सत्त्वः किं पुनर्जायते मृतः ॥

9.10

यावत्प्रत्ययसामग्री तावन्मायापि वर्तते
दीर्घसंतानमात्रेण कथं सत्त्वो ऽस्ति सत्यतः ॥

9.11

मायापुरुषघातादौ चित्ताभावान्न पापकं
चित्तमायासमेते तु पापपुण्यसमुद्भवः ॥

9.12

मन्त्रादीनामसामर्थ्यान् न मायाचित्तसंभवः
सापि नानाविधा माया नानाप्रत्ययसंभवा ॥

9.13

नैकस्य सर्वसामर्थ्यं प्रत्ययस्यास्ति कुत्रचित्
निर्वृतः परमार्थेन संवृत्या यदि संसरेत् ॥

9.14

बुद्धो ऽपि संसरेदेवं ततः किं बोधिचर्यया
प्रत्ययानामनुच्छेदे मायाप्युच्छिद्यते न हि ॥

9.15

प्रत्ययानां तु विच्छेदात् संवृत्यापि न संभवः
यदा न भ्रान्तिरप्यस्ति माया केनोपलभ्यते ॥

9.16

यदा मायैव ते नास्ति तदा किमुपलभ्यते
चित्तस्यैव स आकारो यद्यप्यन्यो ऽस्ति तत्त्वतः ॥

9.17

चित्तमेव यदा माया तदा किं केन दृश्यते
उक्तं च लोकनाथेन चित्तं चित्तं न पश्यति ॥

9.18

न च्छिनत्ति यथात्मानम् असिधारा तथा मनः
आत्मभावं यथा दीपः संप्रकाशयतीति चेत् ॥

9.19

नैव प्रकाश्यते दीपो यस्मान्न तमसावृतः
न हि स्फटिकवन्नीलं नीलत्वे ऽन्यमपेक्षते ॥

9.20

तथा किंचित् परापेक्षम् अनपेक्षं च दृश्यते
अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना ॥

9.21

नीलमेव हि को नीलं कुर्यादात्मानमात्मना
अनीलत्वे न तन्नीलं कुर्यादात्मानमात्मना ॥

9.22

दीपः प्रकाशत इति ज्ञात्वा ज्ञानेन कथ्यते
बुद्धिः प्रकाशत इति ज्ञात्वेदं केन कथ्यते ॥

9.23

प्रकाशा वाप्रकाशा वा यदा दृष्टा न केनचित्
वन्ध्यादुहितृलीलेव कथ्यमानापि सा मुधा ॥

9.24

यदि नास्ति स्वसंवित्तिर् विज्ञानं स्मर्यते कथम्
अन्यानुभूते संबन्धात् स्मृतिराखुविषं यथा ॥

9.25

प्रत्ययान्तरयुक्तस्य दर्शनात् स्वं प्रकाशते
सिद्धाञ्जनविधेर्दृष्टो घटो नैवाञ्जनं भवेत् ॥

9.26

यथा दृष्टं श्रुतं ज्ञातं नैवेह प्रतिषिध्यते
सत्यतः कल्पना त्वत्र दुःखहेतुर्निवार्यते ॥

9.27

चित्तादन्या न माया चेन् नाप्यनन्येति कल्प्यते
वस्तु चेत् सा कथं नान्यान् अन्या चेन्नास्ति वस्तुतः ॥

9.28

असत्यपि यथा माया दृश्या द्रष्टृ तथा मनः
वस्त्वाश्रयश्चेत् संसारः सो ऽन्यथाकाशवद्भवेत् ॥

9.29

वस्त्वाश्रयेणाभावस्य क्रियावत्त्वं कथं भवेत्
असत्सहायमेकं हि चित्तमापद्यते तव ॥

9.30

ग्राह्यमुक्तं यदा चित्तं तदा सर्वे तथागताः
एवं च को गुणो लब्धश् चित्तमात्रे ऽपि कल्पिते ॥

9.31

मायोपमत्वे ऽपि ज्ञाते कथं क्लेशो निवर्तते
यदा मायास्त्रियां रागस् तत्कर्तुरपि जायते ॥

9.32

अप्रहीणा हि तत्कर्तुर् ज्ञेयसंक्लेशवासना
तद्दृष्टिकाले तस्यातो दुर्बला शून्यवासना ॥

9.33

शून्यतावासनाधानाद् धीयते भाववासना
किंचिन्नास्तीति चाभ्यासात् सापि पश्चात् प्रहीयते ॥

9.34

यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते
तदा निराश्रयो ऽभावः कथं तिष्ठेन्मतेः पुरः ॥

9.35

यदा न भावो नाभावो मतेः संतिष्ठते पुरः
तदान्यगत्यभावेन निरालम्बा प्रशाम्यते ॥

9.36

चिन्तामणिः कल्पतरुर् यथेच्छापरिपूरणः
विनेयप्रणिधानाभ्यां जिनबिम्बं तथेक्ष्यते ॥

9.37

यथा गारुडिकः स्तम्भं साधयित्वा विनश्यति
स तस्मिंश्चिरनष्टे ऽपि विषादीनुपशामयेत् ॥

9.38

बोधिचर्यानुरूप्येण जिनस्तम्भो ऽपि साधितः
करोति सर्वकार्याणि बोधिसत्त्वे ऽपि निर्वृते ॥

9.39

अचित्तके कृता पूजा कथं फलवती भवेत्
तुल्यैव पठ्यते यस्मात् तिष्ठतो निर्वृतस्य च ॥

9.40

आगमाच्च फलं तत्र संवृत्या तत्त्वतो ऽपि वा
सत्यबुद्धे कृता पूजा सफलेति कथं यथा ॥

9.41

सत्यदर्शनतो मुक्तिः शून्यतादर्शनेन किम्
न विनानेन मार्गेण बोधिरित्यागमो यतः ॥

9.42

नन्वसिद्धं महायानं कथं सिद्धस्त्वदागमः
यस्मादुभयसिद्धो ऽसौ न सिद्धो ऽसौ तवादितः ॥

9.43

यत्प्रत्यया च तत्रास्था महायाने ऽपि तां कुरु
अन्योभयेष्टसत्यत्वे वेदादेरपि सत्यता ॥

9.44

सविवादं महायानम् इति चेदागमं त्यज
तीर्थिकैः सविवादत्वात् स्वैः परैश्चागमान्तरम् ॥

9.45

शासनं भिक्षुतामूलं भिक्षुतैव च दुःखिता
सावलम्बनचित्तानां निर्वाणमपि दुःस्थितम् ॥

9.46

क्लेशप्रहाणान्मुक्तिश्चेत् तदनन्तरमस्तु सा
दृष्टं च तेषु सामर्थ्यं निःक्लेशस्यापि कर्मणः ॥

9.47

तृष्णा तावदुपादानं नास्ति चेत् संप्रधार्यते
किमक्लिष्टापि तृष्णैषां नास्ति संमोहवत् सती ॥

9.48

वेदनाप्रत्यया तृष्णा वेदनैषां च विद्यते
सालम्बनेन चित्तेन स्थातव्यं यत्र तत्र वा ॥

9.49

विना शून्यतया चित्तं बद्धमुत्पद्यते पुनः
यथासंज्ञिसमापत्तौ भावयेत्तेन शून्यताम् ॥

9.50

यत्सूत्रे ऽवतरेद्वाक्यं तच्चेद्बुद्धोक्तमिष्यते
महायानं भवत्सूत्रैः प्रायस्तुल्यं न किं मतम् ॥

9.51

एकेनागम्यमानेन सकलं यदि दोषवत्
एकेन सूत्रतुल्येन किं न सर्वं जिनोदितम् ॥

9.52

महाकाश्यपमुख्यैश्च यद्वाक्यं नावगाह्यते
तत्त्वयानवबुद्धत्वाद् अग्राह्यं कः करिष्यति ॥

9.53

सक्तित्रासात्त्वनिर्मुक्त्या संसारे सिध्यति स्थितिः
मोहेन दुःखिनामर्थे शून्यताया इदं फलम् ॥

9.54

तदेवं शून्यतापक्षे दूषणं नोपपद्यते
तस्मान्निर्विचिकित्सेन भावनीयैव शून्यता ॥

9.55

क्लेशज्ञेयावृतितमः प्रतिपक्षो हि शून्यता
शीघ्रं सर्वज्ञताकामो न भावयति तां कथम् ॥

9.56

यद्दुःखजननं वस्तु त्रासस्तस्मात् प्रजायताम्
शून्यता दुःखशमनी ततः किं जायते भयम् ॥

9.57

यतस्ततो वास्तु भयं यद्यहं नाम किंचन
अहमेव न किंचिच्चेद् भयं कस्य भविष्यति ॥

9.58

दन्तकेशनखा नाहं नास्थि नाप्यस्मि शोणितम्
न शिंघानं न च श्लेष्मा न पूयं लसिकापि वा ॥

9.59

नाहं वसा न च स्वेदो न मेदो ऽन्त्राणि नाप्यहम्
न चाहमन्त्रनिर्गुण्डी गूथमूत्रमहं न च ॥

9.60

नाहं मांसं न च स्नायुर् नोष्मा वायुरहं न च
न च छिद्राण्यहं नापि षड्विज्ञानानि सर्वथा ॥

9.61

शब्दज्ञानं यदि तदा शब्दो गृह्येत सर्वदा
ज्ञेयं विना तु किं वेत्ति येन ज्ञानं निरुच्यते ॥

9.62

अजानानं यदि ज्ञानं काष्ठं ज्ञानं प्रसज्यते
तेनासंनिहितज्ञेयं ज्ञानं नास्तीति निश्चयः ॥

9.63

तदेव रूपं जानाति तदा किं न शृणोत्यपि
शब्दस्यासंनिधानाच्चेत् ततस्तज्ज्ञानमप्यसत् ॥

9.64

शब्दग्रहणरूपं यत् तद्रूपग्रहणं कथम्
एकः पिता च पुत्रश्च कल्प्यते न तु तत्त्वतः ॥

9.65

सत्त्वं रजस्तमो वापि न पुत्रो न पिता यतः
शब्दग्रहणयुक्तस्तु स्वभावस्तस्य नेक्ष्यते ॥

9.66

तदेवान्येन रूपेण नटवत्सो ऽप्यशाश्वतः
स एवान्यस्वभावश्चेद् अपूर्वेयं तदेकता ॥

9.67

अन्यद्रूपमसत्यं चेन् निजं तद्रूपमुच्यताम्
ज्ञानता चेत्ततः सर्व पुंसामैक्यं प्रसज्यते ॥

9.68

चेतनाचेतने चैक्यं तयोर्येनास्तिता समा
विशेषश्च यदा मिथ्या कः सादृश्याश्रयस्तदा ॥

9.69

अचेतनश्च नैवाहम् अचैतन्यात्पटादिवत्
अथ ज्ञश्चेतनायोगाद् अज्ञो नष्टः प्रसज्यते ॥

9.70

अथाविकृत एवात्मा चैतन्येनास्य किं कृतम्
अज्ञस्य निष्क्रियस्यैवम् आकाशस्यात्मता मता ॥

9.71

न कर्मफलसंबन्धो युक्तश्चेदात्मना विना
कर्म कृत्वा विनष्टे हि फलं कस्य भविष्यति ॥

9.72

द्वयोरप्यावयोः सिद्धे भिन्नाधारे क्रियाफले
निर्व्यापारश्च तत्रात्मेत्य् अत्र वादो वृथा ननु ॥

9.73

हेतुमान् फलयोगीति दृश्यते नैष संभवः
संतानस्यैक्यमाश्रित्य कर्ता भोक्तेति देशितम् ॥

9.74

अतीतानागतं चित्तं नाहं तद्धि न विद्यते
अथोत्पन्नमहं चित्तं नष्टे ऽस्मिन्नास्त्यहं पुनः ॥

9.75

यथैव कदलीस्तम्भो न कश्चिद् भागशः कृतः
तथाहमप्यसद्भूतो मृग्यमाणो विचारतः ॥

9.76

यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत्
कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः ॥

9.77

कार्यं कस्य न चेत्सत्त्वः सत्यमीहा तु मोहतः
दुःखव्युपशमार्थं तु कार्यमोहो न वार्यते ॥

9.78

दुःखहेतुरहंकार आत्ममोहात्तु वर्धते
ततो ऽपि न निवर्त्यश्चेत् वरं नैरात्म्यभावना ॥

9.79

कायो न पादौ न जङ्घा नोरू कायः कटिर्न च
नोदरं नाप्ययं पृष्ठं नोरो बाहू न चापि सः ॥

9.80

न हस्तौ नाप्ययं पार्श्वौ न कक्षौ नांसलक्षणः
न ग्रीवा न शिरः कायः कायो ऽत्र कतरः पुनः ॥

9.81

यदि सर्वेषु कायो ऽथम् एकदेशेन वर्तते
अंशा अंशेषु वर्तन्ते स च कुत्र स्वयं स्थितः ॥

9.82

सर्वात्मना चेत्सर्वत्र स्थितः कायः करादिषु
कायास्तावन्त एव स्युर् यावन्तस्ते करादयः ॥

9.83

नैवान्तर्न बहिः कायः कथं कायः करादिषु
करादिभ्यः पृथग् नास्ति कथं नु खलु विद्यते ॥

9.84

तन्नास्ति कायो मोहात्तु कायबुद्धिः करादिषु
संनिवेशविशेषेण स्थानौ पुरुषबुद्धिवत् ॥

9.85

यावत्प्रत्ययसामग्री तावत्कायः पुमानिव
एवं करादौ सा यावत् तावत्कायो ऽत्र दृश्यते ॥

9.86

एवमङ्गुलिपुञ्जत्वात् पादो ऽपि कतरो भवेत्
सो ऽपि पर्वसमूहत्वात् पर्वापि स्वांशभेदतः ॥

9.87

अंशा अप्यणुभेदेन सो ऽप्यणुर्दिग्विभागतः
दिग्विभागो निरंशत्वाद् आकाशं तेन नास्त्यणुः ॥

9.88

एवं स्वप्नोपमे रूपे को रज्येत विचारकः
कायश्चैवं यदा नास्ति तदा का स्त्री पुमांश्च कः ॥

9.89

यद्यस्ति दुःखं तत्त्वेन प्रहृष्टान् किं न बाधते
शोकाद्यार्ताय मृष्टादि सुखं चेत्किं न रोचते ॥

9.90

बलीयसाभिभूतत्वाद् यदि तन्नानुभूयते
वेदनात्वं कथं तस्य यस्य नानुभवात्मता ॥

9.91

अस्ति सूक्ष्मतया दुःखं स्थौल्यं तस्य हृतं ननु
तुष्टिमात्राऽपरा चेत्स्यात् तस्मात्साप्यस्य सूक्ष्मता ॥

9.92

विरुद्धप्रत्ययोत्पत्तौ दुःखस्यानुदयो यदि
कल्पनाभिनिवेशो हि वेदनेत्यागतं ननु ॥

9.93

अत एव विचारो ऽयं प्रतिपक्षो ऽस्य भाव्यते
विकल्पक्षेत्रसंभूत ध्यानाहारा हि योगिनः ॥

9.94

सान्तराविन्द्रियार्थौ चेत् संसर्गः कुत एतयोः
निरन्तरत्वे ऽप्येकत्वं कस्य केनास्तु संगतिः ॥

9.95

नाणोरणौ प्रवेशो ऽस्ति निराकाशः समश्च सः
अप्रवेशे न मिश्रत्वम् अमिश्रत्वे न संगतिः ॥

9.96

निरंशस्य च संसर्गः कथं नामोपपद्यते
संसर्गे च निरंशत्वं यदि दृष्टं निदर्शय ॥

9.97

विज्ञानस्य त्वमूर्तस्य संसर्गो नैव युज्यते
समूहस्याप्यवस्तुत्वाद् यथा पूर्वं विचारितम् ॥

9.98

तदेवं स्पर्शनाभावे वेदनासंभवः कुतः
किमर्थमयमायासः बाधा कस्य कुतो भवेत् ॥

9.99

यदा न वेदकः कश्चिद् वेदना च न विद्यते
तदावस्थामिमां दृष्ट्वा तृष्णे किं न विदीर्यसे ॥

9.100

दृश्यते स्पृश्यते चापि स्वप्नमायोपमात्मना
चित्तेन सहजातत्वाद् वेदना तेन नेक्ष्यते ॥

9.101

पूर्वं पश्चाच्च जातेन स्मर्यते नानुभूयते
स्वात्मानं नानुभवति न चान्येनानुभूयते ॥

9.102

न चास्ति वेदकः कश्चिद् वेदनातो न तत्त्वतः
निरात्मके कलापे ऽस्मिन् क एव बाध्यते ऽनया ॥

9.103

नेन्द्रियेषु न रूपादौ नान्तराले मनः स्थितम्
नाप्यन्तर्न बहिश्चित्तम् अन्यत्रापि न लभ्यते ॥

9.104

यन्न काये न चान्यत्र न मिश्रं न पृथक् क्वचित्
तन्न किंचिदतः सत्त्वाः प्रकृत्या परिनिर्वृताः ॥

9.105

ज्ञेयात्पूर्वं यदि ज्ञानं किमालम्ब्यास्य संभवः
ज्ञेयेन सह चेज्ज्ञानं किमालम्ब्यास्य संभवः ॥

9.106

अथ ज्ञेयाद्भवेत्पश्चात् तदा ज्ञानं कुतो भवेत्
एवं च सर्वधर्माणाम् उत्पत्तिर्नावसीयते ॥

9.107

यद्येवं संवृतिर्नास्ति ततः सत्यद्वयं कुतः
अथ साप्यन्यसंवृत्या स्यात्सत्त्वो निर्वृतः कुतः ॥

9.108

परचित्तविकल्पो ऽसौ स्वसंवृत्या तु नास्ति सः
स पश्चान्नियतः सो ऽस्ति न चेन्नास्त्येव संवृतिः ॥

9.109

कल्पना कल्पितं चेति द्वयमन्योन्यनिश्रितम्
यथाप्रसिद्धमाश्रित्य विचारः सर्व उच्यते ॥

9.110

विचारितेन तु यदा विचारेण विचार्यते
तदानवस्था तस्यापि विचारस्य विचारणात् ॥

9.111

विचारिते विचार्ये तु विचारस्यास्ति नाश्रयः
निराश्रयत्वान्नोदेति तच्च निर्वाणमुच्यते ॥

9.112

यस्य त्वेतद्द्वयं सत्यं स एवात्यन्तदुःस्थितः
यदि ज्ञानवशादर्थो ज्ञानास्तित्वे तु का गतिः ॥

9.113

अथ ज्ञेयवशाज्ज्ञानं ज्ञेयास्तित्वे तु का गतिः
अथान्योन्यवशात्सत्त्वम् अभावः स्याद्द्वयोरपि ॥

9.114

पिता चेन्न विना पुत्रात् कुतः पुत्रस्य संभवः
पुत्राभावे पिता नास्ति तथा सत्त्वं तयोर्द्वयोः ॥

9.115

अङ्कुरो जायते बीजाद् बीजं तेनैव सूच्यते
ज्ञेयाज्ज्ञानेन जातेन तत्सत्ता किं न गम्यते ॥

9.116

अङ्कुरादन्यतो ज्ञानाद् बीजमस्तीति गम्यते
ज्ञानास्तित्वं कुतो ज्ञातं ज्ञेयं यत्तेन गम्यते ॥

9.117

लोकः प्रत्यक्षतस्तावत् सर्वं हेतुमुदीक्षते
पद्मनालादिभेदो हि हेतुभेदेन जायते ॥

9.118

किंकृतो हेतुभेदश्चेत् पूर्वहेतुप्रभेदतः
कस्माच्चेत्फलदो हेतुः पूर्वहेतुप्रभावतः ॥

9.119

ईश्वरो जगतो हेतुः वद कस्तावदीश्वरः
भूतानि चेद्भवत्वेवं नाममात्रे ऽपि किं श्रमः ॥

9.120

अपि त्वनेके ऽनित्याश्च निश्चेष्टा न च देवताः
लङ्घ्याश्चाशुचयश्चैव क्ष्मादयो न स ईश्वरः ॥

9.121

नाकाशमीशो ऽचेष्टत्वात् नात्मा पूर्वनिषेधतः
अचिन्त्यस्य च कर्तृत्वम् अप्यचिन्त्यं किमुच्यते ॥

9.122

तेन किं स्रष्टुमिष्टं च आत्मा चेत् नन्वसौ ध्रुवः
क्ष्मादिस्वभाव ईशश्च ज्ञानं ज्ञेयादनादि च ॥

9.123

कर्मणः सुखदुःखे च वद किं तेन विर्मितम्
हेतोरादिर्न चेदस्ति फलस्यादिः कुतो भवेत् ॥

9.124

कस्मात्सदा न कुरुते न हि सो ऽन्यमपेक्षते
तेनाकृतो ऽन्यो नास्त्येव तेनासौ किमपेक्षताम् ॥

9.125

अपेक्षते चेत्सामग्रीं हेतुर्न पुनरीश्वरः
नाकर्तुमीशः सामग्र्यां न कर्तुं तदभावतः ॥

9.126

करोत्यनिच्छन्नीशश्चेत् परायत्तः प्रसज्यते
इच्छन्नपीच्छायत्तः स्यात् कुर्वतः कुत ईशता ॥

9.127

ये ऽपि नित्यानणूनाहुस् ते ऽपि पूर्वं निवारिताः
सांख्याः प्रधानमिच्छन्ति नित्यं लोकस्य कारणम् ॥

9.128

सत्त्वं रजस्तमश्चेति गुणा अविषमस्थिताः
प्रधानमिति कथ्यन्ते विषमैर्जगदुच्यते ॥

9.129

एकस्य त्रिस्वभावत्वम् अयुक्तं तेन नास्ति तत्
एवं गुणा न विद्यन्ते प्रत्येकं ते ऽपि हि त्रिधा ॥

9.130

गुणाभावे च शब्दादेर् अस्तित्वमतिदूरतः
अचेतने च वस्त्रादौ सुखादेरप्यसंभवः ॥

9.131

तद्धेतुरूपा भावाश्चेन् ननु भावा विचारिताः
सुखाद्येव च ते हेतुः न च तस्मात्पटादयः ॥

9.132

पटादेस्तु सुखादि स्यात् तदभावात्सुखाद्यसत्
सुखादीनां च नित्यत्वं कदाचिन्नोपलभ्यते ॥

9.133

सत्यामेव सुखव्यक्तौ संवित्तिः किं न गृह्यते
तदेव सूक्ष्मतां याति स्थूलं सूक्ष्मं च तत्कथम् ॥

9.134

स्थौल्यं त्यक्त्वा भवेत्सूक्ष्मम् अनित्ये स्थौल्यसूक्ष्मते
सर्वस्य वस्तुनस्तद्वत् किं नानित्यत्वमिष्यते ॥

9.135

न स्थौल्यं चेत्सुखादन्यत् सुखस्यानित्यता स्फुटम्
नासदुत्पद्यते किंचिद् असत्त्वादिति चेन्मतम् ॥

9.136

व्यक्तस्यासत उत्पत्तिर् अकामस्यापि ते स्थिता
अन्नादो ऽमेध्यभक्षः स्यात् फलं हेतौ यदि स्थितम् ॥

9.137

पटार्घेणैव कर्पास बीजं क्रीत्वा निवस्यताम्
मोहाच्चेन्नेक्षते लोकः तत्त्वज्ञस्यापि सा स्थितिः ॥

9.138

लोकस्यापि च तज्ज्ञानम् अस्ति कस्मान्न पश्यति
लोकाप्रमाणतायां चेत् व्यक्तदर्शनमप्यसत् ॥

9.139

प्रमाणमप्रमाणं चेन् ननु तत्प्रमितं मृषा
तत्त्वतः शून्यता तस्माद् भावानां नोपपद्यते ॥

9.140

कल्पितं भावमस्पृष्ट्वा तदभावो न गृह्यते
तस्माद्भावो मृषा यो हि तस्याभावः स्फुटं मृषा ॥

9.141

तस्मात्स्वप्ने सुते नष्टे स नास्तीति विकल्पना
तद्भावकल्पनोत्पादं विबध्नाति मृषा च सा ॥

9.142

तस्मादेवं विचारेण नास्ति किंचिदहेतुतः
न च व्यस्तसमस्तेषु प्रत्ययेषु व्यवस्थितम् ॥

9.143

अन्यतो नापि चायातं न तिष्ठति न गच्छति
मायातः को विशेषो ऽस्य यन्मूढैः सत्यतः कृतम् ॥

9.144

मायया निर्मितं यच्च हेतुभिर्यच्च निर्मितम्
आयाति तत्कुतः कुत्र याति चेति निरूप्यताम् ॥

9.145

यदन्यसंनिधानेन दृष्टं न तदभावतः
प्रतिबिम्बसमे तस्मिन् कृत्रिमे सत्यता कथम् ॥

9.146

विद्यमानस्य भावस्य हेतुना किं प्रयोजनम्
अथाप्यविद्यमानो ऽसौ हेतुना किं प्रयोजनम् ॥

9.147

नाभावस्य विकारो ऽस्ति हेतुकोटिशतैरपि
तदवस्थः कथं भावः को वान्यो भावतां गतः ॥

9.148

नाभावकाले भावश्चेत् कदा भावो भविष्यति
नाजातेन हि भावेन सो ऽभावो ऽपगमिष्यति ॥

9.149

न चानपगते ऽभावे भावावसरसंभवः
भावश्चाभावतां नैति द्विस्वभावप्रसङ्गतः ॥

9.150

एवं च न विरोधो ऽस्ति न च भावो ऽस्ति सर्वदा
अजातमनिरुद्धं च तस्मात्सर्वमिदं जगत् ॥

9.151

स्वप्नोपमास्तु गतयो विचारे कदलीसमाः
निर्वृतानिर्वृतानां च विशेषो नास्ति वस्तुतः ॥

9.152

एवं शून्येषु धर्मेषु किं लब्धं किं हृतं भवेत्
सत्कृतः परिभूतो वा केन कः संभविष्यति ॥

9.153

कुतः सुखं वा दुःखं वा किं प्रियं वा किमप्रियम्
का तृष्णा कुत्र सा तृष्णा मृग्यमाणा स्वभावतः ॥

9.154

विचारे जीवलोकः कः को नामात्र मरिष्यति
को भविष्यति को भूतः को बन्धुः कस्य कः सुहृत् ॥

9.155

सर्वमाकाशसंकाशं परिगृह्णन्तु मद्विधाः
प्रकुप्यन्ति प्रहृष्यन्ति कलहोत्सवहेतुभिः ॥

9.156

शोकायासैर्विषादैश्च मिथश्छेदनभेदनैः
यापयन्ति सुकृच्छ्रेण पापैरात्मसुखेच्छवः ॥

9.157

मृताः पतन्त्यपायेषु दीर्घतीव्रव्यथेषु च
आगत्यागत्य सुगतिं भूत्वा भूत्वा सुखोचिताः ॥

9.158

भवे बहुप्रपातश्च तत्र चासत्त्वमीदृशम्
तत्रान्योन्यविरोधश्च न भवेत्तत्त्वमीदृशम् ॥

9.159

तत्र चानुपमास्तीव्रा अनन्तदुःखसागराः
तत्रैवमल्पबलता तत्राप्यल्पत्वमायुषः ॥

9.160

तत्रापि जीवितारोग्य व्यापारैः क्षुत्क्लमश्रमैः
निद्रयोपद्रवैर्बाल संसर्गैर्निष्फलैस्तथा ॥

9.161

वृथैवायुर्वहत्याशु विवेकस्तु सुदुर्लभः
तत्राप्यभ्यस्तविक्षेप निवारणगतिः कुतः ॥

9.162

तत्रापि मारो यतते महापायप्रपातने
तत्रासन्मार्गबाहुल्याद् विचिकित्सा च दुर्जया ॥

9.163

पुनश्च क्षणदौर्लम्यं बुद्धोत्पादो ऽतिदुर्लभः
क्लेशौघो दुर्निवारश्चेत्य् अहो दुःखपरम्परा ॥

9.164

अहो बतातिशोच्यत्वम् एषां दुःखौघवर्तिनाम्
ये नेक्षन्ते स्वदौःस्थित्यम् एवमप्यतिदुःस्थिताः ॥

9.165

स्नात्वा स्नात्वा यथा कश्चिद् विशेद्वह्निं मुहुर्मुहुः
स्वसौस्थित्यं च मन्यन्त एवमप्यतिदुःस्थिताः ॥

9.166

अजरामरलीलानाम् एवं विहरतां सताम्
आयास्यन्त्यापदो घोराः कृत्वा मरणमग्रतः ॥

9.167

एवं दुःखाग्नितप्तानां शान्तिं कुर्यामहं कदा
पुण्यमेघसमुद्भूतैः सुखोपकरणैः स्वकैः ॥

9.168

कदोपलम्भदृष्टिभ्यो देशयिष्यामि शून्यताम्
संवृत्यानुपलम्भेन पुण्यसंभारमादरात् ॥

मूल पाठ: Bodhicaryāvatāra · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc