भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार · अध्याय 8

8.1

वर्धयित्वैवमुत्साहं समाधौ स्थापयेन्मनः
विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः ॥

8.2

कायचित्तविवेकेन विक्षेपस्य न संभवः
तस्माल्लोकं परित्यज्य वितर्कान् परिवर्जयेत् ॥

8.3

स्नेहान्न त्यज्यते लोको लाभादिषु च तृष्णया
तस्मादेतत्परित्यागे विद्वानेवं विभावयेत् ॥

8.4

शमथेन विपश्यनासुयुक्तः कुरुते क्लेशविनाशमित्यवेत्य
शमथः प्रथमं गवेषणीयः स च लोके निरपेक्षयाभिरत्या ॥

8.5

कस्यानित्येष्वनित्यस्य स्नेहो भवितुमर्हति
येन जन्मसहस्राणि द्रष्टव्यो न पुनः प्रियः ॥

8.6

अपश्यन्नरतिं याति समाधौ न च तिष्ठति
न च तृप्यति दृष्ट्वापि पूर्ववद् बाध्यते तृषा ॥

8.7

न पश्यति यथाभूतं संवेगादवहीयते
दह्यते तेन शोकेन प्रियसंगमकाङ्क्षया ॥

8.8

तच्चिन्तया मुधा याति ह्रस्वमायुर्मुहुर्मुहुः
अशाश्वतेन मित्रेन धर्मो भ्रश्यति शाश्वतः ॥

8.9

बालैः सभागचरितो नियतं याति दुर्गतिम्
नेष्यते विषभागश्च किं प्राप्तं बालसंगमात् ॥

8.10

क्षणाद् भवन्ति सुहृदो भवन्ति रिपवः क्षणात्
तोषस्थाने प्रकुप्यन्ति दुराराधाः पृथग्जनाः ॥

8.11

हितमुक्ताः प्रकुप्यन्ति वारयन्ति च मां हितात्
अथ न श्रूयते तेषां कुपिता यान्ति दुर्गतिम् ॥

8.12

ईर्ष्योत्कृष्टात् समाद्वन्द्वो हीनान्मानः स्तुतेर्मदः
अवर्णात् प्रतिघश्चेति कदा बालाद्धितं भवेत् ॥

8.13

आत्मोत्कर्षः परावर्णः संसाररतिसंकथा
इत्याद्यवश्यमशुभं किंचिद्बालस्य बालतः ॥

8.14

एवं तस्यापि तत्सङ्गात् तेनानर्थसमागमः
एकाकी विहरिष्यामि सुखमक्लिष्टमानसः ॥

8.15

बालाद्दूरं पलायेत प्राप्तमाराधयेत् प्रियैः
न संस्तवानुबन्धेन किंतूदासीनसाधुवत् ॥

8.16

धर्मार्थमात्रमादाय भृङ्गवत् कुसुमान्मधु
अपूर्व इव सर्वत्र विहरिष्याम्यसंस्तुतः ॥

8.17

लाभी च सत्कृतश्चाहम् इच्छन्ति बहवश्च माम्
इति मर्त्यस्य संप्राप्तान् मरणाज्जायते भयम् ॥

8.18

यत्र तत्र रतिं याति मनः सुखाभिमोहितम्
तत्तत्सहस्रगुणितं दुःखं भूत्वोपतिष्ठति ॥

8.19

तस्मात् प्राज्ञो न तमिच्छेद् इच्छातो जायते भयम्
स्वयमेव च यात्येतद् धैर्यं कृत्वा प्रतीक्षताम् ॥

8.20

बहवो लाभिनो ऽभूवन् बहवश्च यशस्विनः
सह लाभयशोभिस्ते न ज्ञाताः क्व गता इति ॥

8.21

मामेवान्ये जुगुप्सन्ति किं प्रहृष्याम्यहं स्तुतः
मामेवान्ये प्रशंसन्ति किं विषीदामि निन्दितः ॥

8.22

नानाधिमुक्तिकाः सत्त्वा जिनैरपि न तोषिताः
किं पुनर्मादृशैरज्ञैस् तस्मात् किं कोकचिन्तया ॥

8.23

निन्दन्त्यलाभिनं सत्त्वम् अवध्यायन्ति लाभिनम्
प्रकृत्या दुःखसंवासैः कथं तैर्जायते रतिः ॥

8.24

न बालः कस्यचिन्मित्रम् इति चोक्तं तथागतैः
न स्वार्थेन विना प्रीतिर् यस्माद्बालस्य जायते ॥

8.25

स्वार्थद्वारेण या प्रीतिर् आत्मार्थं प्रीतिरेव सा
द्रव्यनाशे यथोद्वेगः सुखहानिकृतो हि सः ॥

8.26

नावध्यायन्ति तरवो न चाराध्याः प्रयत्नतः
कदा तैः सुखसंवासैः सह वासो भवेन्मम ॥

8.27

शून्यदेवकुले स्थित्वा वृक्षमूले गुहासु वा
कदानपेक्षो यास्यामि पृष्ठतो ऽनवलोकयन् ॥

8.28

अममेषु प्रदेशेषु विस्तीर्णेषु स्वभावतः
स्वच्छन्दचार्यनिलयो विहरिष्याम्यहं कदा ॥

8.29

मृत्पात्रमात्रविभवश् चौरासंभोगचीवरः
निर्भयो विहरिष्यामि कदा कायमगोपयन् ॥

8.30

कायभूमिं निजां गत्वा कङ्कालैरपरैः सह
स्वकायं तुलयिष्यामि कदा शतनधर्मिणम् ॥

8.31

अयमेव हि कायो मे एवं पूतिर्भविष्यति
शृगाला अपि यद्गन्धान् नोपसर्पेयुरन्तिकम् ॥

8.32

अस्यैकस्यापि कायस्य सहजा अस्थिखण्डकाः
पृथक् पृथग्गमिष्यन्ति किमुतान्यः प्रियो जनः ॥

8.33

एक उत्पद्यते जन्तुर् म्रियते चैक एव हि
नान्यस्य तद्व्यथाभागः किं प्रियैर्विघ्नकारकैः ॥

8.34

अध्वानं प्रतिपन्नस्य यथावासपरिग्रहः
तथा भवाध्वगस्यापि जन्मावासपरिग्रहः ॥

8.35

चतुर्भिः पुरुषैर्यावत् स न निर्धार्यते ततः
आशोच्यमानो लोकेन तावदेव वनं व्रजेत् ॥

8.36

असंस्तवाविरोधाभ्याम् एक एव शरीरकः
पूर्वमेव मृतो लोके म्रियमाणो न शोचति ॥

8.37

न चान्तिकचराः केचिच् छोचन्तः कुर्वते व्यथाम्
बुद्धाद्यनुस्मृतिं चास्य विक्षिपन्ति न केचन ॥

8.38

तस्मादेकाकिता रम्या निरायासा शिवोदया
सर्वविक्षेपशमनी सेवितव्या मया सदा ॥

8.39

सर्वान्यचिन्तानिर्मुक्तः स्वचित्तैकाग्रमानसः
समाधानाय चित्तस्य प्रयतिष्ये दमाय च ॥

8.40

कामा ह्यनर्थजनका इह लोके परत्र च
इह बन्धवधच्छेदैर् नरकादौ परत्र च ॥

8.41

यदर्थं दूतदूतीनां कृताञ्जलिरनेकधा
न च पापमकीर्त्तिर्वा यदर्थं गणिता पुरा ॥

8.42

प्रक्षिप्तश्च भये ऽप्यात्मा द्रविणं च व्ययीकृतम्
यान्येव च परिष्वज्य वभूवोत्तमनिर्वृताः ॥

8.43

तान्येवास्थीनि नान्यानि स्वाधीनान्यममानि च
प्रकामं संपरिष्वज्य किं न गच्छसि निर्वृतिम् ॥

8.44

उन्नाम्यमानं यत्नाद् यन् नीयमानमधो ह्रिया
पुरा दृष्टमदृष्टं वा मुखं जालिकयावृतम् ॥

8.45

तन्मुखं तूत्परिक्लेशम् असहद्भिरिवाधुना
गृध्रैर्व्यक्तीकृतं पश्य किमिदानीं पलायसे ॥

8.46

परचक्षुर्निपातेभ्यो ऽप्यासीद्यत्परिरक्षितम्
तदद्य भक्षितं यावत् किमीर्ष्यालो न रक्षसि ॥

8.47

मांसोच्छ्रयमिमं दृष्ट्वा गृध्रैरन्यैश्च भक्षितम्
आहारः पूज्यते ऽन्येषां स्रक्चन्दनविभूषणैः ॥

8.48

निश्चलादपि ते त्रासः कङ्कालादेवमीक्षितात्
वेताडेनेव केनापि चाल्यमानाद् भयं न किम् ॥

8.49

एकस्मादशनादेषां लालामेध्यं च जायते
तत्रामेध्यमनिष्टं ते लालापानं कथं प्रियम् ॥

8.50

तूलगर्भैर्मृदुस्पर्शै रमन्ते नोपधानकैः
दुर्गन्धं न स्रवन्तीति कामिनो ऽमेध्यमोहिताः ॥

8.51

यत्र च्छन्ने ऽप्ययं रागस् तदच्छन्नं किमप्रियम्
न चेत्प्रयोजनं तेन कस्माच्छन्नं विमृद्यते ॥

8.52

यदि ते नाशुचौ रागः कस्मादालिङ्गसे ऽपरम्
मांसकर्दमसंलिप्तं स्नायुबद्धास्थिपञ्जरम् ॥

8.53

स्वमेव बह्वमेध्यं ते तेनैव धृतिमाचर
अमेध्यभस्त्रामपरां गूथघस्मर विस्मर ॥

8.54

मांसप्रियो ऽहमस्येति द्रष्टुं स्प्रष्टुं च वाञ्छसि
अचेतनं स्वभावेन मांसं त्वं कथमिच्छसि ॥

8.55

यदिच्छसि न तच्चित्तं द्रष्टुं स्प्रष्टुं च शक्यते
यच्च शक्यं न तद्वेत्ति किं तदालिङ्गसे मुधा ॥

8.56

नामेध्यमयमन्यस्य कायं वेत्सीत्यनद्भुतम्
स्वामेध्यमयमेव त्वं तं नावैषीति विस्मयः ॥

8.57

विघनार्कांशुविकचं मुक्त्वा तरुणपङ्कजम्
अमेध्यशौण्डचित्तस्य का रतिर्गूथपञ्जरे ॥

8.58

मृदाद्यमेध्यलिप्तत्वाद् यदि न स्प्रष्टुमिच्छसि
यतस्तन्निर्गतं कायात् तं स्प्रष्टुं कथमिच्छसि ॥

8.59

यदि ते नाशुचौ रागः कस्मादालिङ्गसे परम्
अमेध्यक्षेत्रसंभूतं तद्बीजं तेन वर्धितम् ॥

8.60

अमेध्यभवमल्पत्वान् न वाञ्छस्यशुचिं कृमिम्
बह्वमेध्यमयं कायम् अमेध्यजमपीच्छसि ॥

8.61

न केवलममेध्यत्वम् आत्मीयं न जुगुप्ससि
अमेध्यभाण्डानपरान् गूथघस्मर वाञ्छसि ॥

8.62

कर्पूरादिषु हृद्येषु शाल्यन्नव्यञ्जनेषु वा
मुखक्षिप्तविसृष्टेषु भूमिरप्यशुचिर्मता ॥

8.63

यदि प्रत्यक्षमप्येतद् अमेध्यं नाधिमुच्यसे
श्मशाने पतितान् घोरान् कायान् पश्यापरानपि ॥

8.64

चर्मण्युत्पाटिते यस्माद् भयमुत्पद्यते महत्
कथं ज्ञात्वापि तत्रैव पुनरुत्पद्यते रतिः ॥

8.65

काये न्यस्तो ऽप्यसौ गन्धश् चन्दनादेव नान्यतः
अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते ॥

8.66

यदि स्वभावदौर्गन्ध्याद् रागो नात्र शिवं ननु
किमनर्थरुचिर्लोकस् तं गन्धेनानुलिम्पति ॥

8.67

कायस्यात्र किमायातं सुगन्धि यदि चन्दनम्
अन्यदीयेन गन्धेन कस्मादन्यत्र रज्यते ॥

8.68

यदि केशनखैर्दीर्घैर् दन्तैः समलपाण्डुरैः
मलपङ्कधरो नग्नः कायः प्रकृतिभीषणः ॥

8.69

स किं संस्क्रियते यत्नाद् आत्मघाताय शस्त्रवत्
आत्मव्यामोहनोद्युक्तैर् उन्मत्तैराकुला मही ॥

8.70

कङ्कालान् कतिचिद्दृष्ट्वा श्मशाने किल ते घृणा
ग्रामश्मशाने रमसे चलत्कङ्कालसंकुले ॥

8.71

एवं चामेध्यमप्येतद् विना मूल्यं न लभ्यते
तदर्थमर्जनायासो नरकादिषु च व्यथा ॥

8.72

शिशोर्नार्जनसामर्थ्यं केनासौ यौवने सुखी
यात्यर्जनेन तारुण्यं वृद्धः कामैः करोति किम् ॥

8.73

केचिद्दिनान्तव्यापारैः परिश्रान्ताः कुकामिनः
गृहमागत्य सायाह्ने शेरते स्म मृता इव ॥

8.74

दण्डयात्राभिरपरे प्रवासक्लेशदुःखिताः
वत्सरैरपि नेक्षन्ते पुत्रदारांस्तदर्थिनः ॥

8.75

यदर्थमिव विक्रीत आत्मा कामविमोहितैः
तन्न प्राप्तं मुधैवायुर् नीतं तु परकर्मणा ॥

8.76

विक्रीतस्वात्मभावानां सदा प्रेषणकारिणाम्
प्रसूयन्ते स्त्रियो ऽन्येषाम् अटवीविटपादिषु ॥

8.77

रणं जीवितसंदेहं विशन्ति किल जीवितम्
मानार्थं दासतां यान्ति मूढाः कामविडम्बिताः ॥

8.78

छिद्यन्ते कामिनः केचिद् अन्ये शूलसमर्पिताः
दृश्यन्ते दह्यमानाश्च हन्यमानाश्च शक्तिभिः ॥

8.79

अर्जनरक्षणनाशविषादैर् अर्थमनर्थमनन्तमवैहि
व्यग्रतया धनसक्तमतीनां नावसरो भवदुःखविमुक्तेः ॥

8.80

एवमादीनवो भूयान् अल्पास्वादस्तु कामिनाम्
शकटं वहतो यद्वत् पशोर्घासलवग्रहः ॥

8.81

तस्यास्वादलवस्यार्थे यः पशोरप्यदुर्लभः
हता दैवहतेनेयं क्षणसंपत्सुदुर्लभा ॥

8.82

अवश्यं गन्तुरल्पस्य नरकादिप्रपातिनः
कायस्यार्थे कृतो यो ऽयं सर्वकालं परिश्रमः ॥

8.83

ततः कोटिशतेनापि श्रमभागेन बुद्धता
चर्यादुःखान्महद्दुःखं सा च बोधिर्न कामिनाम् ॥

8.84

न शस्त्रं न विषं नाग्निर् न प्रपातो न वैरिणः
कामानामुपमां यान्ति नरकादिव्यथास्मृतेः ॥

8.85

एवमुद्विज्य कामेभ्यो विवेके जनयेद्रतिम्
कलहायासशून्यासु शान्तासु वनभूमिषु ॥

8.86

धन्यैः शशाङ्ककरचन्दनशीतलेषु रम्येषु हर्म्यविपुलेषु शिलातलेषु
निःशब्दसौम्यवनमारुतवीज्यमानैः चंक्रम्यते परहिताय विचिन्त्यते च ॥

8.87

विहृत्य यत्र क्वचिदिष्टकालं शून्यालये वृक्षतले गुहासु
परिग्रहरक्षणखेदमुक्तः चरत्यपेक्षाविरतो यथेष्टम् ॥

8.88

स्वच्छन्दचार्यनिलयः प्रतिबद्धो न कस्यचित्
यत्संतोषसुखं भुङ्क्ते तदिन्द्रस्यापि दुर्लभम् ॥

8.89

एवमादिभिराकारैर् विवेकगुणभावनात्
उपशान्तवितर्कः सन् बोधिचित्तं तु भावयेत् ॥

8.90

परात्मसमतामादौ भावयेदेवमादरात्
समदुःखसुखाः सर्वे पालनीया मयात्मवत् ॥

8.91

हस्तादिभेदेन बहुप्रकारः कायो यथैकः परिपालनीयः
तथा जगद्भिन्नमभिन्नदुःख सुखात्मकं सर्वमिदं तथैव ॥

8.92

यद्यप्यन्येषु देहेषु मद्दुःखं न प्रबाधते
तथापि तद्दुःखमेव ममात्मस्नेहदुःसहम् ॥

8.93

तथा यद्यप्यसंवेद्यम् अन्यद्दुःखं मयात्मना
तथापि तस्य तद्दुःखम् आत्मस्नेहेन दुःसहम् ॥

8.94

मयान्यदुःखं हन्तव्यं दुःखत्वादात्मदुःखवत्
अनुग्राह्या मयान्ये ऽपि सत्त्वत्वादात्मसत्त्ववत् ॥

8.95

यदा मम परेषां च तुल्यमेव सुखं प्रियम्
तदात्मनः को विशेषो येनात्रैव सुखोद्यमः ॥

8.96

यदा मम परेषां च भयं दुःखं च न प्रियम्
तदात्मनः को विशेषो यत्तं रक्षामि नेतरम् ॥

8.97

तद्दुःखेन न मे बाधेत्य् अतो यदि न रक्ष्यते
नागामिकायदुःखान्मे बाधा तत्केन रक्ष्यते ॥

8.98

अहमेव तदापीति मिथ्येयं प्रतिकल्पना
अन्य एव मृतो यस्माद् अन्य एव प्रजायते ॥

8.99

यदि यस्यैव यद्दुःखं रक्ष्यं तस्यैव तन्मतम्
पाददुःखं न हस्तस्य कस्मात् तत्तेन रक्ष्यते ॥

8.100

अयुक्तमपि चेदेतद् अहंकारात्प्रवर्तते
यदयुक्तं निवर्त्यं तत् स्वमन्यच्च यथाबलम् ॥

8.101

संतानः समुदायश्च पङ्क्तिसेनादिवन्मृषा
यस्य दुःखं स नास्त्यस्मात् कस्य तत् स्वं भविष्यति ॥

8.102

अस्वामिकानि दुःखानि सर्वाण्येवाविशेषतः
दुःखत्वादेव वार्याणि नियमस्तत्र किंकृतः ॥

8.103

दुःखं कस्मान्निवार्यं चेत् सर्वेषामविवादतः
वार्यं चेत्सर्वमप्येवं न चेदात्मनि सर्ववत् ॥

8.104

कृपया बहु दुःखं चेत् कस्मादुत्पद्यते बलात्
जगद्दुःखं निरूप्येदं कृपादुःखं कथं बहु ॥

8.105

बहूनामेकदुःखेन यदि दुःखं विगच्छति
उत्पाद्यमेव तद्दुःखं सदयेन परात्मनोः ॥

8.106

अतः सुपुष्पचन्द्रेण जानतापि नृपापदम्
आत्मदुःखं न निहतं बहूनां दुःखिनां व्ययात् ॥

8.107

एवं भावितसंतानाः परदुःखसमप्रियाः
अवीचिमवगाहन्ते हंसाः पद्मवनं यथा ॥

8.108

मुच्यमानेषु सत्त्वेषु ये ते प्रामोद्यसागराः
तैरेव ननु पर्याप्तं मोक्षेणारसिकेन किम् ॥

8.109

अतः परार्थं कृत्वापि न मदो न च विस्मयः
न विपाकफलाकाङ्क्षा परार्थैकान्ततृष्णया ॥

8.110

तस्माद्यथान्तशो ऽवर्णाद् आत्मानं गोपयाम्यहम्
रक्षाचित्तं दयाचित्तं करोम्येवं परेष्वपि ॥

8.111

अभ्यासादन्यदीयेषु शुक्रशोणितबिन्दुषु
भवत्यहमिति ज्ञानम् असत्यपि हि वस्तुनि ॥

8.112

तथाकायो ऽन्यदीयो ऽपि किमात्मेति न गृह्यते
परत्वं तु स्वकायस्य स्थितमेव न दुष्करम् ॥

8.113

ज्ञात्वा सदोषमात्मानं परानपि गुणोदधीन्
आत्मभावपरित्यागं परादानं च भावयेत् ॥

8.114

कायस्यावयवत्वेन यथाभीष्टाः करादयः
जगतो ऽवयवत्वेन तथा कस्मान्न देहिनः ॥

8.115

यथात्मबुद्धिरभ्यासात् स्वकाये ऽस्मिन् निरात्मके
परेष्वपि तथात्मत्वं किमभ्यासान्न जायते ॥

8.116

एवं परार्थं कृत्वापि न मदो न च विस्मयः
आत्मानं भोजयित्वैव फलाशा न च जायते ॥

8.117

तस्माद्यथार्तिशोकादेर् आत्मानं गोप्तुमिच्छसि
रक्षाचित्तं दयाचित्तं जगत्यभ्यस्यतां तथा ॥

8.118

अध्यतिष्ठदथो नाथः स्चनामाप्यवलोकितः
पर्षच्छारद्यभयमप्य् अपनेतुं जनस्य हि ॥

8.119

दुष्करान्न निवर्तेत यस्मादभ्यासशक्तितः
यस्यैव श्रवणात्त्रासस् तेनैव न विना रतिः ॥

8.120

आत्मानं च परांश्चैव यः शीघ्रं त्रातुमिच्छति
स चरेत्परमं गुह्यं परात्मपरिवर्तनम् ॥

8.121

यस्मिन्नात्मन्यतिस्नेहाद् अल्पादपि भयाद्भयम्
न द्विषेत्कस्तमात्मानं शत्रुवद्यो भयावहः ॥

8.122

यो मन्द्य क्षुत्पिपासादि प्रतीकारचिकीर्षया
पक्षिमत्स्यमृगान् हन्ति परिपन्थं च तिष्ठति ॥

8.123

यो लाभसत्क्रियाहेतोः पितरावपि मारयेत्
रत्नत्रयस्वमादद्याद् येनावीचीन्धनो भवेत् ॥

8.124

कः पण्डितस्तमात्मानम् इच्छेद्रक्षेत् प्रपूजयेत्
न पश्येच्छत्रुवच्चैनं कश्चैनं प्रतिमानयेत् ॥

8.125

यदि दास्यामि किं भोक्ष्य इत्यात्मार्थे पिशाचता
यदि भोक्ष्ये किं ददामीति परार्थे देवराजता ॥

8.126

आत्मार्थं पीडयित्वान्यं नरकादिषु पच्यते
आत्मानं पीडयित्वा तु परार्थं सर्वसंपदः ॥

8.127

दुर्गतिर्नीचता मौर्ख्यं ययैवात्मोन्नतीच्छया
तामेवान्यत्र संक्राम्य सुगतिः सत्कृतिर्मतिः ॥

8.128

आत्मार्थं परमाज्ञप्य दासत्वाद्यनुभूयते
परार्थं त्वेनमाज्ञप्य स्वामित्वाद्यनुभूयते ॥

8.129

ये केचिद् दुःखिता लोके सर्वे ते स्वसुखेच्छया
ये केचित् सुखिता लोके सर्वे ते ऽन्यसुखेच्छया ॥

8.130

बहुना वा किमुक्तेन दृश्यतामिदमन्तरम्
स्वार्थार्थिनश्च बालस्य मुनेश्चान्यार्थकारिणः ॥

8.131

न नाम साध्यं बुद्धत्वं संसारे ऽपि कुतः सुखम्
स्वसुखस्यान्यदुःखेन परिवर्तमकुर्वतः ॥

8.132

आस्तां तावत्परो लोको दृष्टो ऽप्यर्थो न सिध्यति
भृत्यस्याकुर्वतः कर्म स्वामिनो ऽददतो भृतिम् ॥

8.133

त्यक्त्वान्यो ऽन्यसुखोत्पादं दृष्टादृष्टसुखोत्सवम्
अन्यो ऽन्यदुःखनाद्घोरं दुःखं गृह्णन्ति मोहिताः ॥

8.134

उपद्रवा ये च भवन्ति कोके यावन्ति दुःखानि भयानि चैव
सर्वाणि तान्यात्मपरिग्रहेण तत्किं ममानेन परिग्रहेण ॥

8.135

आत्मानमपरित्यज्य दुःखं त्यक्तुं न शक्यते
यथाग्निमपरित्यज्य दाहं त्यक्तुं न शक्यते ॥

8.136

तस्मात्स्वदुःखशान्त्यर्थं परदुःखशमाय च
ददाम्यन्येभ्य आत्मानं परान् गृह्णामि चात्मवत् ॥

8.137

अन्यसंबद्धमस्मीति निश्चयं कुरु मे मनः
सर्वसत्त्वार्थमुत्सृज्य नान्यच्चिन्त्यं त्वयाधुना ॥

8.138

न युक्तं स्वार्थदृष्ट्यादि तदीयैश्चक्षुरादिभिः
न युक्तं स्यन्दितुं स्वार्थम् अन्यदीयैः करादिभिः ॥

8.139

तेन सत्त्वपरो भूत्वा काये ऽस्मिन्यद्यदीक्षसे
तत्तदेवापहृत्यास्मात् परेभ्यो हितमाचर ॥

8.140

हीनादिष्वात्मतां कृत्वा परत्वमपि चात्मनि
भावयेर्ष्यां च मानं च निर्विकल्प्येन चेतसा ॥

8.141

एष सत्क्रियते नाहं लाभी नाहमयं यथा
स्तूयते ऽयमहं निन्द्यो दुःखितो ऽहमयं सुखी ॥

8.142

अहं करोमि कर्माणि तिष्ठत्येष तु सुस्थितः
अयं किल महा।ल्लोके नीचो ऽहं किल निर्गुणः ॥

8.143

किं निर्गुणेन कर्तव्यं सर्वस्यात्मा गुणान्वितः
सन्ति ते येष्वहं नीचः सन्ति ते येष्वहं वरः ॥

8.144

शीलदृष्टिविपत्त्यादि क्लेशशक्त्या न मद्वशात्
चिकित्स्यो ऽहं यथाशक्ति पीडाप्यङ्गीकृता मया ॥

8.145

अथाहमचिकित्स्यो ऽस्य कस्मान्मामवमन्यते
किं ममैतद्गुणैः कृत्यम् आत्मा तु गुणवानयम् ॥

8.146

दुर्गतिव्याडवक्त्रस्थे -नैवास्य करुणा जने
अपरान् गुणमानेन पण्डितान् विजिगीषते ॥

8.147

सममात्मानमालोक्य यतः स्वाधिक्यवृद्धये
कलहेनापि संसाध्यं लाभसत्कारमात्मनः ॥

8.148

अपि सर्वत्र मे लोके भवेयुः प्रकटाः गुणाः
अपि नाम गुणा ये ऽस्य न श्रोष्यन्त्यपि केचन ॥

8.149

छाद्येरन्नपि मे दोषाः स्यान्मे पूजास्य नो भवेत्
सुलब्धा अद्य मे लाभाः पूजितो ऽहमयं न तु ॥

8.150

पश्यामो मुदितास्तावच् चिरादेनं खलीकृतम्
हास्यं जनस्य सर्वस्य निन्द्यमानमितस्ततः ॥

8.151

अस्यापि हि वराकस्य स्पर्धा किल मया सह
किमस्य श्रुतमेतावत् प्रज्ञारूपं कुलं धनम् ॥

8.152

एवमात्मगुणाञ्श्रुत्वा कीर्त्यमानानितस्ततः
संजातपुलको हृष्टः परिभोक्ष्ये सुखोत्सवम् ॥

8.153

यद्यप्यस्य भवेल्लाभो ग्राह्यो ऽस्माभिरसौ बलात्
दत्वास्मै यापनामात्रम् अस्मत्कर्म करोति चेत् ॥

8.154

सुखाच्च च्यावनीयो ऽयं योज्यो ऽस्मद्व्यथया सदा
अनेन शतशः सर्वे संसारव्यथिता वयम् ॥

8.155

अप्रमेया गताः कल्पाः स्वार्थं जिज्ञासतस्तव
श्रमेण महतानेन दुःखमेव त्वयार्जितम् ॥

8.156

मद्विज्ञप्त्या तथात्रापि प्रवर्तस्वाविचारतः
द्रक्ष्यस्येतद्गुणान् पश्चाद् भूतं हि वचनं मुनेः ॥

8.157

अभविष्यदिदं कर्म कृतं पूर्वं यदि त्वया
बौद्धं संपत्सुखं मुक्त्वा नाभविष्यदियं दशा ॥

8.158

तस्माद्यथान्यदीयेषु शुक्रशोणितबिन्दुषु
चकर्थ त्वमहंकारं तथान्येष्वपि भावय ॥

8.159

अन्यदीयश्चरो भूत्वा काये ऽस्मिन् यद्यदीक्षसे
तत्तदेवापहृत्यर्थं परेभ्यो हितमाचर ॥

8.160

अयं सुस्थः परो दुःस्थो नीचैरन्यो ऽयमुच्चकैः
परः करोत्ययं नेति कुरुष्वेर्ष्यां त्वमात्मनि ॥

8.161

सुखाच्च च्यावयात्मानं परदुःखे नियोजय
कदायं किं करोतीति छलमस्य निरूपय ॥

8.162

अन्येनापि कृतं दोषं पातयास्यैव मस्तके
अल्पमप्यस्य दोषं च प्रकाशय महामुनेः ॥

8.163

अन्याधिकयशोवादैर् यशो ऽस्य मलिनीकुरु
निकृष्टदासवच्चैनं सत्त्वकार्येषु वाहय ॥

8.164

नागन्तुकगुणांशेन स्तुत्यो दोषमयो ह्ययम्
यथा कश्चिन्न जानीयाद् गुणमस्य तथा कुरु ॥

8.165

संक्षेपाद् यद्यदात्मार्थे परेष्वपकृतं त्वया
तत्तदात्मनि सत्त्वार्थे व्यसनं विनिपातय ॥

8.166

नैवोत्साहो ऽस्य दातव्यो येनायं मुखरो भवेत्
स्थाप्यो नवबधूवृत्तौ ह्रीतो भीतो ऽथ संवृतः ॥

8.167

एवं कुरुष्व तिष्ठैवं न कर्तव्यमिदं त्वया
एवमेषः वशः कार्यो निग्राह्यस्तदतिक्रमे ॥

8.168

अथैवमुच्यमाने ऽपि चित्तं नेदं करिष्यसि
त्वामेव निग्रहीष्यामि सर्वदोषास्तदाश्रिताः ॥

8.169

क्व यास्यसि मया दृष्टः सर्वदर्पान्निहन्मि ते
अन्यो ऽसौ पूर्वकः कालस् त्वया यत्रास्मि नाशितः ॥

8.170

अद्याप्यस्ति मम स्वार्थ इत्याशां त्यज सांप्रतम्
त्वं विक्रीतो मयान्येषु बहुखेदमचिन्तयन् ॥

8.171

त्वां सत्त्वेषु न दास्यामि यदि नाम प्रमादतः
त्वं मां नरकपालेषु प्रदास्यसि न संशयः ॥

8.172

एवं चानेकधा दत्वा त्वयाहं व्यथितश्चिरम्
निहन्मि स्वार्थचेटं त्वां तानि वैराण्यनुस्मरन् ॥

8.173

न कर्तव्यात्मनि प्रीतिर् यद्यात्मप्रीतिरस्ति ते
यद्यात्मा रक्षितव्यो ऽयं रक्षितव्यो न युज्यते ॥

8.174

यथा यथास्य कायस्य क्रियते परिपालनम्
सुकुमारतरो भूत्वा पतत्येव तथा तथा ॥

8.175

अस्यैवं पतितस्यापि सर्वापीयं वसुन्धरा
नालं पूरयितुं वाञ्छां तत्को ऽस्येच्छां करिष्यति ॥

8.176

अशक्यमिच्छतः क्लेश आशाभङ्गश्च जायते
निराशो यस्तु सर्वत्र तस्य संपदजीर्णिका ॥

8.177

तस्मान्न प्रसरो देयः कायस्येच्छाभिवृद्धये
भद्रकं नाम तद्वस्तु यदिष्टत्वान्न गृह्यते ॥

8.178

भस्मनिष्ठावसानो ऽयं निश्चेष्टान्येन चाल्यते
अशुचिप्रतिमा घोरा कस्मादत्र ममाग्रहः ॥

8.179

किं ममानेन यन्त्रेण जीविना वा मृतेन वा
लोष्ट्रादेः को विशेषो ऽस्य हाहंकारं न नश्यसि ॥

8.180

शरीरपक्षपातेन वृथा दुःखमुपार्ज्यते
किमस्य काष्ठतुल्यस्य द्वेषेणानुनयेन वा ॥

8.181

मया वा पालितस्यैवं गृध्राद्यैर्भक्षितस्य वा
न च स्नेहो न च द्वेषस् तस्मात् स्नेहं करोमि किम् ॥

8.182

रोषो यस्य खलीकारात् तोषो यस्य च पूजया
स एव चेन्न जानाति श्रमः कस्य कृतेन मे ॥

8.183

इमं ये कायमिच्छन्ति ते ऽपि मे सुहृदः किल
सर्वे स्वकायमिच्छन्ति ते ऽपि कस्मान्न मे प्रियाः ॥

8.184

तस्मान्मयानपेक्षेण कायस्त्यक्तो जगद्धिते
अतो ऽयं बहुदोषो ऽपि धार्यते कर्मभाण्डवत् ॥

8.185

तेनालं लोकचरितैः पण्डिताननुयाम्यहम्
अप्रमादकथां स्मृत्वा स्त्यानमिद्धं निवारयन् ॥

8.186

तस्मादावरणं हन्तुं समाधानं करोम्यहम्
विमार्गाच्चित्तमाकृष्य स्वालम्बननिरन्तरम् ॥

मूल पाठ: Bodhicaryāvatāra · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc