भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार · अध्याय 10

10.1

बोधिचर्यावतारं मे यद्विचिन्तयतः शुभम्
तेन सर्वं जनाः सन्तु बोधिचर्या विभूषणाः ॥

10.2

सर्वासु दिक्षु यावन्तः कायचित्तव्यथातुराः
ते प्राप्नुवन्तु मत्पुण्यैः सुखप्रामोद्यसागरान् ॥

10.3

आसंसारं सुखज्यानिर् माभूत्तेषां कदाचन
बोधिसत्त्वसुखं प्राप्तुं भवत्यविरतं जगत् ॥

10.4

यावन्तो नारकाः केचिद् विद्यन्ते लोकधातुषु
सुखावती सुखामोदैर् मोदन्तां तेषु देहिनः ॥

10.5

शीतार्ताः प्राप्नुवन्तूष्णम् उष्णार्ताः सन्तु शीतलाः
बोधिसत्त्वमहामेघ संभवैर्जलसागरैः ॥

10.6

असिपत्रवनं तेषां स्यान्नन्दनवनद्युतिः
कूटशाल्मलीवृक्षाश्च जायन्तां कल्पपादपाः ॥

10.7

दात्यूहकारण्डवचक्रवाक हंसादिकोलाहलरम्यशोभैः
सरोभिरुद्यामसरोजगन्धैर् भवन्तु हृद्याः नरकप्रदेशाः ॥

10.8

सो ऽङ्गारराशिर्मणिराशिरस्तु तप्ता च भूः स्फाटिककुट्टिमं स्यात्
भवन्तु संघातमहीधराश्च पूजाविमानाः सुगतप्रपूर्णाः ॥

10.9

अङ्गारतप्तोपलशस्त्रवृष्टिर् अद्यप्रभृत्यस्तु च पुष्पवृष्टिः
तच्छस्त्रयुद्धं च परस्परेण कीडार्थमद्यास्तु च पुष्पयुद्धम् ॥

10.10

पतितसकलमांसाः कुन्दवर्णास्थिदेहा दहनसमजलायां वैतरण्यां निमग्नाः
मम कुशलबलेन प्राप्तदिव्यात्मभावाः सह सुरवनिताभिः सन्तु मन्दाकिनीस्थाः ॥

10.11

त्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोराः ध्वान्तं ध्वस्तं समन्तात् सुखरतिजननी कस्य सौम्या प्रभेयम्
इत्यूर्ध्वं प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं दृष्ट्वा प्रामोद्यवेगाद् व्यपगतदुरिता यांतु तेनैव सार्धम् ॥

10.12

पततु कमलवृष्टिर्गन्धपानीयमिश्राच् छमिति नरकवह्निं दृश्यते नाशयन्ती
किमिदमिति सुखेनाह्लादितं नाम कस्माद् भवतु कमलपाणेर्दर्शनं नारकाणाम् ॥

10.13

आयातायात शीघ्रं भयमपनयत भ्रातरो जीविताः स्मः संप्राप्तो ऽस्माकमेष ज्वलदभयकरः को ऽपि चीरी कुमारः
सर्वं यस्यानुभावाद् व्यसनमपगतं प्रीतिवेगाः प्रवृत्ताः जातं संबोधिचित्तं सकलजनपरित्राणमाता दया च ॥

10.14

पश्यन्त्वेनं भवन्तः सुरशतमुकुटैरर्च्यमानाङ्घ्रिपद्मं कारुण्यादार्द्रदृष्टिं शिरसि निपतितानेकपुष्पौघवृष्टिम्
कूटागारैर्मनोज्ञैः स्तुतिमुखरसुरस्त्रीसहस्त्रोपगीतैर् दृष्ट्वाग्रे मञ्जुघोषं भवतु कलकलः सांप्रतं नारकाणाम् ॥

10.15

इति मत्कुशलैः समन्तभद्र प्रमुखानावृतबोधिसत्त्वमेघान्
सुखशीतसुगन्धवातवृष्टीन् अभिनन्दन्तु विलोक्य नारकास्ते ॥

10.16

शाम्यन्तु वेदनास्तीव्रा नारकाणां भयानि च
दुर्गतिभ्यो विमुच्यन्तां सर्वदुर्गतिवासिनः ॥

10.17

अन्योन्यभक्षणभयं तिरश्चामपगच्छतु
भवन्तु सुखिनः प्रेता यथोत्तरकुरौ नराः ॥

10.18*

संतर्प्यन्तां प्रेताः स्नाप्यन्तां शीतला भवन्तु सदा ।
आर्यावलोकितेश्वरकरगलितक्षीरधाराभिः ॥

10.19

अन्धाः पश्यन्तु रूपाणि शृण्वन्तु बधिराः सदा
गर्भिण्यश्च प्रसूयन्तां मायादेवीव निर्व्यथाः ॥

10.20

वस्त्रभोजनपानीयं स्रक्चन्दनविभूषणम्
मनो ऽभिलषितं सर्वं लभन्तां हितसंहितम् ॥

10.21

भीताश्च निर्भयाः सन्तु शोकार्ताः प्रीतिलाभिनः
उद्विग्नाश्च निरुद्वेगा धृतिमन्तो भवन्तु च ॥

10.22

आरोग्यं रोगिणामस्तु मुच्यन्तां सर्वबन्धनात्
दुर्बला बलिनः सन्तु स्निग्धचित्ताः परस्परम् ॥

10.23

सर्वा दिशः शिवाः सन्तु सर्वेषां पथिवर्तिनाम्
येन कार्येण गच्छन्ति तदुपायेन सिध्यतु ॥

10.24

नौयानयात्रारूढाश्च सन्तु सिद्धमनोरथाः
क्षेमेण कूलमासाद्य रमन्तां सह बन्धुभिः ॥

10.25

कान्तारोन्मार्गपतिता लभन्तां सार्थसंहतिम्
अश्रमेण च गच्छन्तु चौरव्याघ्रादिनिर्भयाः ॥

10.26

सुप्तमत्तप्रमत्तानां व्याध्यारण्यादिसंकटे
अनाथबालवृद्धानां रक्षां कुर्वन्तु देवताः ॥

10.27

सर्वाक्षणविनिर्मुक्ताः श्रद्धाप्रज्ञाकृपान्विताः
आकाराचारसंपन्नाः सन्तु जातिस्मराः सदा ॥

10.28

भवन्त्वक्षयकोशाश्च यावद् नगनगञ्जवत्
निर्द्वन्द्वा निरुपायास्ताः सन्तु स्वाधीनवृत्तयः ॥

10.29

अल्पौजसश्च ये सत्त्वास् ते भवन्तु महौजसः
भवन्तु रूपसंपन्ना ये विरूपास्तपस्विनः ॥

10.30

याः काश्चन स्त्रियो लोके पुरुषत्वं व्रजन्तु ताः
प्राप्नुवन्तु च तां नीचा हतमाना भवन्तु च ॥

10.31

अनेन मम पुण्येन सर्वसत्त्वा अशेषतः
विरम्य सर्वपापेभ्यः कुर्वन्तु कुशलं सदा ॥

10.32

बोधिचित्ताविरहिता बोधिचर्यापरायणाः
बुद्धैः परिगृहीताश्च मारकर्मविवर्जिताः ॥

10.33

अप्रमेयायुषश्चैव सर्वसत्त्वा भवन्तु ते
नित्यं जीवन्तु सुखिता मृत्युशब्दो ऽपि नश्यतु ॥

10.34

रम्याः कल्पद्रुमोद्यानैः दिशः सर्वा भवन्तु च
बुद्धबुद्धात्मजाकीर्णा धर्मध्वनिमनोहरैः ॥

10.35

शर्करादिव्यपेता च समा पाणितलोपमा
मृद्वी च वैदूर्यमयी भूमिः सर्वत्र तिष्ठतु ॥

10.36

बोधिसत्त्वमहापर्षन् मण्डलानि समन्ततः
निषीदन्तु स्वशोभामिर् मण्डयन्तु महीतलम् ॥

10.37

पक्षिभ्यः सर्ववृक्षेभ्यो रश्मिभ्यो गगनादपि
धर्मध्वनिरविश्रामं श्रूयतां सर्वदेहिभिः ॥

10.38

बुद्धबुद्धसुतैर्नित्यं लभन्तां ते समागमम्
पूजामेघैरनन्तैश्च पूजयन्तु जगद्गुरुम् ॥

10.39

देवो वर्षतु कालेन शस्यसंपत्तिरस्तु च
स्फीतो भवतु लोकश्च राजा भवतु धार्मिकः ॥

10.40

शक्ता भवन्तु चौषध्यो मन्त्राः सिद्धन्तु जापिनाम्
भवन्तु करुणाविष्टा डाकिनीराक्षसादयः ॥

10.41

मा कश्चिद्दुःखितः सत्त्वो मा पापी मा च रोगितः
मा हीनः परिभूतो वा मा भूत् कश्चिच्च दुर्मनाः ॥

10.42

पाठस्वाध्यायकलिला विहाराः सन्तु सुस्थिताः
नित्यं स्यात् संघसामग्री संघकार्यं च सिध्यतु ॥

10.43

विवेकलाभिनः सन्तुः शिक्षाकामाश्च भिक्षवः
कर्मण्यचित्ता ध्यायन्तु सर्वविक्षेपवर्जिताः ॥

10.44

लाभिन्यः सन्तु भिक्षुण्यः कलहायासवर्जिताः
भवन्त्वखण्डशीलाश्च सर्वे प्रव्रजितास्तथा ॥

10.45

दुःशीलाः सन्तु संविग्नाः पापक्षयरताः सदा
सुगतेर्लाभिनः सन्तु तत्र चाखण्डितव्रताः ॥

10.46

पण्डिताः सत्कृताः सन्तु लाभिनः पैण्डपातिकाः
भवन्तु शुद्धसंतानाः सर्वदिक्ख्यातकीर्तयः ॥

10.47

अभुक्त्वापायिकं दुःखं विना दुस्करचर्यया
दिव्येनैकेन कायेन जगद्बुद्धत्वमाप्नुयात् ॥

10.48

पूज्यन्तां सर्वसंबुद्धाः सर्वसत्त्वैरनेकधा
अचिन्त्यबौद्धसौख्येन सुखिनः सन्तु भूयसा ॥

10.49

सिध्यन्तु बोधिसत्त्वानां जगदर्थं मनोरथाः
यच्चिन्तयन्ति ते नाथास् तत् सत्त्वानां समृध्यतु ॥

10.50

प्रत्येकबुद्धाः सुखिनो भवन्तु श्रावकास्तथा
देवासुरनरैर्नित्यं पूज्यमानाः सगौरवैः ॥

10.51

जातिस्मरत्वं प्रव्रज्याम् अहं च प्राप्नुयां सदा
यावत् प्रमुदितां भूमिं मञ्जुघोषपरिग्रहात् ॥

10.52

येन तेनासनेनाहं यापयेयं बलान्वितः
विवेकवाससामग्रीं प्राप्नुयां सर्वजातिषु ॥

10.53

यदा च द्रष्टुकामः स्यां प्रष्टुकामश्च किंचन
तमेव नाथं पश्येयं मञ्जुनाथमविघ्नतः ॥

10.54

दशदिग्व्योमपर्यन्त सर्वसत्त्वार्थसाधने
यदाचरति मञ्जुश्रीः सैव चर्या भवेन्मम ॥

10.55

आकाशस्य स्थितिर्यावद् यावच्च जगतः स्थितिः
तावन्मम स्थितिर्भूयाज् जगद्दुःखानि निघ्नतः ॥

10.56

यत्किंचिज्जगतो दुःखं तत् सर्वं मयि पच्यताम्
बोधिसत्त्वशुभैः सर्वैर् जगत् सुखितमस्तु च ॥

10.57

जगद्दुःखैकभैषज्यं सर्वसंपत् सुखाकरम्
लाभसत्कारसहितं चिरं तिष्ठतु शासनम् ॥

10.58

मञ्जुघोषं नमस्यामि यत् प्रसादान्मतिः शुभे
कल्याणमित्रं वन्दे ऽहं यत् प्रसादाच्च वर्धत इति ॥

मूल पाठ: Bodhicaryāvatāra · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc