भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार · अध्याय 7

7.1

एवं क्षमो भजेद्वीर्यं वीर्ये बोधिर्यतः स्थिता
न हि वीर्यं विना पुण्यं यथा वायुं विनागतिः ॥

7.2

किं वीर्यं कुशलोत्साहस् तद्विपक्षः क उच्यते
आलस्यं कुत्सितासक्तिर् विषादात्मावमन्यना ॥

7.3

अव्यापारसुखास्वाद निद्रापाश्रयतृष्णया
संसारदुःखानुद्वेगाद् आलस्यमुपजायते ॥

7.4

क्लेशवागुरिकाघ्रातः प्रविष्टो जन्मवागुराम्
किमद्यापि न जानासि मृत्योर्वदनमागतः ॥

7.5

स्वयूथ्यान्मार्यमाणांस्त्वं क्रमेणैव न पश्यसि
तथापि निद्रां यास्येव चण्डालमहिषो यथा ॥

7.6

यमेनोद्वीक्ष्यमाणस्य बद्धमार्गस्य सर्वतः
कथं ते रोचते भोक्तुं कथं निद्रा कथं रतिः ॥

7.7

यावत्संभृतसंभारं मरणं शीघ्रमेष्यति
संत्यज्यापि तदालस्यम् अकाले किं करिष्यसि ॥

7.8

इदं न प्राप्तमारब्धम् इदमर्धकृतं स्थितम्
अकस्मान्मृत्युरायातो हा हतो ऽस्मीति चिन्तयन् ॥

7.9

शोकवेगसमुच्छून साश्रुरक्तेक्षणाननान्
बन्धून् निराशान् संपश्यन् यमदूतमुखानि च ॥

7.10

स्वपापस्मृतिसंतप्तः शृण्वन्नादांश्च नारकान्
त्रासोच्चारविलिप्ताङ्गो विह्वलः किं करिष्यसि ॥

7.11

जीवमत्स्य इवास्मीति युक्तं भयमिहैव ते
किं पुनः कृतपापस्य तीव्रान्नरकदुःखतः ॥

7.12

स्पृष्ट उष्णोदकेनापि सुकुमार प्रतप्यसे
कृत्वा च नारकं कर्म किमेवं स्वस्थमास्यते ॥

7.13

निरुद्यमफलाकाङ्क्षिन् सुकुमार बहुव्यथ
मृत्युग्रस्तो ऽमराकार हा दुःखित विहन्यसे ॥

7.14

मानुष्यं नावमासाद्य तर दुःखमहानदीम्
मूढ कालो न निद्राया इयं नौर्दुर्लभा पुनः ॥

7.15

मुक्त्वा धर्मरतिं श्रेष्ठाम् अनन्तरतिसंततिम्
रतिरौद्धत्यहासादौ दुःखहेतौ कथं तव ॥

7.16

अविषादबलव्यूह तात्पर्यात्मविधेयता
परात्मसमता चैव परात्मपरिवर्तनम् ॥

7.17

नैवावसादः कर्तव्यः कुतो मे बोधिरित्यतः
यस्मात्तथागतः सत्यं सत्यवादीदमुक्तवान् ॥

7.18

ते ऽप्यासन् दंशमशका मक्षिकाः कृमयस्तथा
यैरुत्साहवशात् प्राप्ता दुरापा बोधिरुत्तमा ॥

7.19

किमुताहं नरो जात्या शक्तो ज्ञातुं हिताहितम्
सर्वज्ञनीत्यनुत्सर्गाद् बोधिं किं नाप्नुयामहम् ॥

7.20

अथापि हस्तपादादि दातव्यमिति मे भयम्
गुरुलाघवमूढत्वं तन्मे स्यादविचारतः ॥

7.21

छेत्तव्यश्चास्मि भेत्तव्यो दाह्यः पाट्यो ऽप्यनेकशः
कल्पकोटीरसंख्येया न च बोधिर्भविष्यति ॥

7.22

इदं तु मे परिमितं दुःखं संबोधिसाधनम्
नष्टशल्यव्यथापोहे तदुत्पादनदुःखवत् ॥

7.23

सर्वे ऽपि वैद्याः कुर्वन्ति क्रियादुःखैररोगताम्
तस्माद्बहूनि दुःखानि हन्तुं सोढव्यमल्पकम् ॥

7.24

क्रियामिमामप्युचितां वरवैद्यो न दत्तवान्
मधुरेणोपचारेण चिकित्सति महातुरान् ॥

7.25

आदौ शाकादिदाने ऽपि नियोजयति नायकः
तत्करोति क्रमात्पश्चाद् यत्स्वमांसान्यपि त्यजेत् ॥

7.26

यदा शाकेष्विव प्रज्ञा स्वमांसे ऽप्युपजायते
मांसास्थि त्यजतस्तस्य तदा किं नाम दुष्करम् ॥

7.27

न दुःखी त्यक्तपापत्वात् पण्डितत्वान्न दुर्मनाः
मिथ्याकल्पनया चित्ते पापात्काये यतो व्यथा ॥

7.28

पुण्येन कायः सुखितः पाण्डित्येन मनः सुखि
तिष्ठन् परार्थं संसारे कृपालुः केन खिद्यते ॥

7.29

क्षपयन् पूर्वपापानि प्रतीच्छन् पुण्यसागरान्
बोधिचित्तबलादेव श्रावकेभ्यो ऽपि शीघ्रगः ॥

7.30

एवं सुखात्सुखं गच्छन् को विषीदेत्सचेतनः
बोधिचित्तरथं प्राप्य सर्वखेदश्रमापहम् ॥

7.31

छन्दस्थामरतिमुक्ति बलं सत्त्वार्थसिद्धये
छन्दं दुःखभयात्कुर्याद् अनुशंसांश्च भावयन् ॥

7.32

एवं विपक्षमुन्मूल्य यतेतोत्साहवृद्धये
छन्दमानरतित्याग तात्पर्यवशिताबलैः ॥

7.33

अप्रमेया मया दोषा हन्तव्याः स्वपरात्मनोः
एकैकस्यापि दोषस्य यत्र कल्पार्णवैः क्षयः ॥

7.34

तत्र दोषक्षयारम्भे लेशो ऽपि मम नेक्ष्यते
अप्रमेयव्यथाभाज्ये नोरः स्फुटति मे कथम् ॥

7.35

गुणा मयार्जनीयाश्च बहवः स्वपरात्मनोः
तत्रैकैकगुणाभ्यासो भवेत्कल्पार्णवैर्न वा ॥

7.36

गुणलेशे ऽपि नाभ्यासो मम जातः कदाचन
वृथा नीतं मया जन्म कथंचिल्लब्धमद्भुतम् ॥

7.37

न प्राप्तं भगवत्पूजा महोत्सवसुखं मया
न कृता शासने कारा दरिद्राशा न पूरिता ॥

7.38

भीतेभ्यो नाभयं दत्तम् आर्ता न सुखिनः कृताः
दुःखाय केवलं मातुर् गतो ऽस्मि गर्भशल्यताम् ॥

7.39

धर्मच्छन्दवियोगेन पौर्विकेण ममाधुना
विपत्तिरीदृशी जाता को धर्मे छन्दमुत्सृजेत् ॥

7.40

कुशलानां च सर्वेषां छन्दं मूलं मुनिर्जगौ
तस्यापि मूलं सततं विपाकफलभावना ॥

7.41

दुःखानि दौर्मनस्यानि भयानि विविधानि च
अभिलाषविघाताश्च जायन्ते पापकारिणाम् ॥

7.42

मनोरथः शुभकृतां यत्र यत्रैव गच्छति
तत्र तत्रैव तत्पुण्यैः फलार्घेणाभिपूज्यते ॥

7.43

पापकारिसुखेच्छा तु यत्र यत्रैव गच्छति
तत्र तत्रैव तत्पापैर् दुःखशस्त्रैर्विहन्यते ॥

7.44

विपुलसुगन्धिशीतलसरोरुहगर्भगता मधुरजिनस्वराशनकृतोपचितद्युतयः
मुनिकरबोधिताम्बुजविनिर्गतसद्वपुषः सुगतसुता भवन्ति सुगतस्य पुरः कुशलैः ॥

7.45

यमपुरुषापनीतसकलच्छविरार्तरवो हुतवहतापविद्रुतकताम्रनिषिक्ततनुः
ज्वलदसिशक्तिघातशतशातितमांसदलः पतति सुतप्तलोहधरणीष्वशुभैर्बहुशः ॥

7.46

तस्मात्कार्यः शुभच्छन्दो भावयित्वैवमादरात्
वज्रध्वजस्य विधिना मानं त्वारभ्य भावयेत् ॥

7.47

पूर्वं निरूप्य सामग्रीम् आरभेन्नारभेत वा
अनारम्भो वरं नाम न त्वारभ्य निवर्तनम् ॥

7.48

जन्मान्तरे ऽपि सो ऽभ्यासः पापाद्दुःखं च वर्धते
अन्यच्च कार्यकालं च हीनं तच्च न साधितम् ॥

7.49

त्रिषु मानो विधातव्यः कर्मोपक्लेशशक्तिषु
मयैवैकेन कर्तव्यम् इत्येषा कर्ममानिता ॥

7.50

क्लेशस्वतन्त्रो लोको ऽयं न क्षमः स्वार्थसाधने
तस्मान्मयैषां कर्तव्यं नाशक्तो ऽहं यथा जनः ॥

7.51

नीचं कर्म करोत्यन्यः कथं मय्यपि तिष्ठति
मानाच्चेन्न करोम्येतन् मानो नश्यतु मे वरम् ॥

7.52

मृतं दुण्डुभमासाद्य काको ऽपि गरुडायते
आपदाबाधते ऽल्पापि मनो मे यदि दुर्बलम् ॥

7.53

विषादकृतनिश्चेष्ट आपदः सुकरा ननु
व्युत्थितश्चेष्टमानस्तु महतामपि दुर्जयः ॥

7.54

तस्माद्दृढेन चित्तेन करोम्यापदमापदः
त्रैलोक्यविजिगीषुत्वं हास्यमापज्जितस्य मे ॥

7.55

मया हि सर्वं जेतव्यम् अहं जेयो न केनचित्
मयैष मानो वोढव्यो जिनसिंहसुतो ह्यहम् ॥

7.56

ये सत्त्वा मानविजिता वराकास्ते न मानिनः
मानी शत्रुवशं नैति मानशत्रुवशाश्च ते ॥

7.57

मानेन दुर्गतिं नीता मानुष्ये ऽपि हतोत्सवाः
परपिण्डाशिनो दासा मूर्खा दुर्दर्शनाः कृशाः ॥

7.58

सर्वतः परिभूताश्च मानस्तब्धास्तपस्विनः
ते ऽपि चेन्मानिनां मध्ये दीनास्तु वद कीदृशाः ॥

7.59

ते मानिनो विजयिनश्च त एव शूरा ये मानशत्रुविजयाय वहन्ति मानम्
ये तं स्फुरन्तमपि मानरिपुं निहत्य कामं जने जयफलं प्रतिपादयन्ति ॥

7.60

संक्लेशपक्षमध्यस्थो भवेद्दृप्तः सहस्रशः
दुर्योधनः क्लेशगणैः सिंहो मृगगणैरिव ॥

7.61

महत्स्वपि हि कृच्छ्रेषु न रसं चक्षुरीक्षते
एवं कृच्छ्रमपि प्राप्य न क्लेशवशगो भवेत् ॥

7.62

यदेवापद्यते कर्म तत्कर्मव्यसनी भवेत्
तत्कर्मशौण्डो ऽतृप्तात्मा क्रीडाफलसुखेप्सुवत् ॥

7.63

सुखार्थं क्रियते कर्म तथापि स्यान्न वा सुखम्
कर्मैव तु सुखं यस्य निष्कर्मा स सुखी कथम् ॥

7.64

कामैर्न तृप्तिः संसारे क्षुरधारामधूपमैः
पुण्यामृतैः कथं तृप्तिर् विपाकमधुरैः शिवैः ॥

7.65

तस्मात्कर्मावसाने ऽपि निमज्जेत्तत्र कर्मणि
यथा मध्याह्नसंतप्त आदौ प्राप्तसराः करी ॥

7.66

बलनाशानुबन्धे तु पुनः कर्तुं परित्यजेत्
सुसमाप्तं च तन्मुञ्चेद् उत्तरोत्तरतृष्णया ॥

7.67

क्लेशप्रहारान् संरक्षेत् क्लेशांश्च प्रहरेद्दृढम्
खड्गयुद्धमिवापन्नः शिक्षितेनारिणा सह ॥

7.68

तत्र खड्गं यथा भ्रष्टं गृह्णीयात्सभयस्त्वरम्
स्मृतिखड्गं तथा भ्रष्टं गृह्णीयान्नरकान् स्मरन् ॥

7.69

विषं रुधिरमासाद्य प्रसर्पति यथा तनौ
तथैव च्छिद्रमासाद्य दोषश्चित्ते प्रसर्पति ॥

7.70

तैलपात्रधरो यद्वद् असिहस्तैरधिष्ठितः
स्खलिते मरणत्रासात् तत्परः स्यात्तथा व्रती ॥

7.71

तस्मादुत्सङ्गगे सर्पे यथोत्तिष्ठति सत्वरम्
निद्रालस्यागमे तद्वत् प्रतिकुर्वीत सत्वरम् ॥

7.72

एकैकस्मिंश्छले सुष्ठु परितप्य विचिन्तयेत्
कथं करोमि येनेदं पुनर्मे न भवेदिति ॥

7.73

संसर्गं कर्म वा प्राप्तम् इच्छेदेतेन हेतुना
कथं नामास्ववस्थासु स्मृत्यभ्यासो भवेदिति ॥

7.74

लघुं कुर्यात्तथात्मानम् अप्रमादकथां स्मरन्
कर्मागमाद्यथा पूर्वं सज्जः सर्वत्र वर्तते ॥

7.75

यथैव तूलकं वायोर् गमनागमने वशम्
तथोत्साहवशं यायाद् ऋद्धिश्चैवं समृध्यति ॥

मूल पाठ: Bodhicaryāvatāra · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc