भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार · अध्याय 4

4.1

एवं गृहीत्वा सुदृढं बोधिचित्तं जिनात्मजः
शिक्षानतिक्रमे यत्नं कुर्यान्नित्यमतन्द्रितः ॥

4.2

सहसा यत्समारब्धं सम्यग् यदविचारितं
तत्र कुर्यान्नवेत्येवं प्रतिज्ञायापि युज्यते ॥

4.3

विचारितं तु यद्बुद्धैर् महाप्राज्ञैश्च तत्सुतैः
मयापि च यथाशक्ति तत्र किं परिलम्ब्यते ॥

4.4

यदिचैवं प्रतिज्ञाय साधयेयं न कर्मणा
एतां सर्वां विसंवाद्य का गतिर्मे भविष्यति ॥

4.5

मनसा चिन्तयित्वापि यो न दद्यात्पुनर्नरः
स प्रेतो भवतीत्युक्तम् अल्पमात्रे ऽपि वस्तुनि ॥

4.6

किमुतानुत्तरं सौख्यम् उच्चैरुद्धुष्य भावतः
जगत्सर्वं विसंवाद्य का गतिर्मे भविष्यति ॥

4.7

वेत्ति सर्वज्ञ एवैताम् अचिन्त्यां कर्मणो गतिं
यद्बोधिचित्तत्यागे ऽपि मोचयत्येव तान्नरान् ॥

4.8

बोधिसत्त्वस्य तेनैवं सर्वापत्तिर्गरीयसी
यस्मादापद्यमानो ऽसौ सर्व सत्त्वार्थहानिकृत् ॥

4.9

यो ऽप्यन्यः क्षणमप्यस्य पुण्यविघ्नं करिष्यति
तस्य दुर्गतिपर्यन्तो नास्ति सत्त्वार्थधातिनः ॥

4.10

एकस्यापि हि सत्त्वस्य हितं हत्वा हतो भवेत्
अशेषाकाशपर्यन्त वासिनां किमु देहिनां ॥

4.11

एवमापत्तिबलतो बोधिचित्तबलेन च
दोलायमानः संसारे भूमिप्राप्तश्चिरायते ॥

4.12

तस्माद्यथा प्रतिज्ञातं साधनीयं मयादरात्
नाद्य चेत्क्रियते यत्नस् तलेनास्मि तलं गतः ॥

4.13

अप्रमेया गता बुद्धाः सर्वसत्त्वगवेषकाः
नैषामहं स्वदोषेण चिकित्सागोचरं गतः ॥

4.14

अद्यापि चेत्तथैव स्यां यथैवाहं पुनः पुनः
दुर्गतिव्याधिमरण च्छेदभेदाद्यवाप्नुयां ॥

4.15

कदा तथागतोत्पादं श्रद्धां मानुष्यमेव वा
कुशलाभ्यासयोग्यत्वम् एवं लप्स्ये ऽति दुर्लभं ॥

4.16

आरोग्यदिवसं चेदं सभक्तं निरुपद्रवं
आयुः क्षणं विसंवादि कायो याचितकोपमः ॥

4.17

नहीदृशैर्मच्चरितैर् मानुष्यं लभ्यते पुनः
अलभ्यमाने मानुष्ये पापमेव कुतः शुभं ॥

4.18

यदा कुशलयोग्यो ऽपि कुशलं न करोम्यहं
अपायदुःखैः संमूढः किं करिष्याम्यहं तदा ॥

4.19

अकुर्वतश्च कुशलं पापं चाप्युपचिन्वतः
हतः सुगतशब्दो ऽपि कल्पकोटिशतैरपि ॥

4.20

अत एवाह भगवान् मानुषमतिदुर्लभं
महार्णवयुगच्छिद्र कूर्मग्रीवार्पणोपमं ॥

4.21

एकक्षणात्कृतात्पापाद् अवीचौ कल्पमाप्स्यते
अनादिकालोपचितात् पापात्का सुगतौ कथा ॥

4.22

न च तन्मात्रमेवासौ वेदयित्वा विमुच्यते
यस्यात्तद्वेदयन्नेव पापमन्यत्प्रसूयते ॥

4.23

नातःपरा वञ्चनास्ति न च मोहो ऽस्त्यतःपरः
यदीदृशं क्षणं प्राप्य नाभ्यस्तं कुशलं मया ॥

4.24

यदि चैवं विमृष्यामि पुनः सीदामि मोहितः
शोचिष्यामि चिरं भूयो यमदूतैः प्रचोदितः ॥

4.25

चिरं धक्ष्यति मे कायं नारकाग्निः सुदुःसहः
पश्चात्तापानलश्चित्तं चिरं धक्ष्यतिनिश्चितं ॥

4.26

कथंचिदपि संप्राप्तो हितभूमिं सुदुर्लभां
जानन्नपि च नीयो ऽहं तानेव नरकान्पुनः ॥

4.27

अत्र मे चेतना नास्ति मन्त्रैरिव विमोहितः
न जाने केन मुह्यामि को ऽत्रान्तर्मम तिष्ठति ॥

4.28

हस्तपादादिरहितास् तृष्णाद्वेषादिशत्रवः
न शुरा न च ते प्राज्ञाः कथं दासीकृतो ऽस्मि तैः ॥

4.29

मच्चित्तावस्थिता एव ध्नन्ति मामेव सुस्थिताः
तत्राप्यहं न कुप्यामि धिगस्थानसहिष्णुतां ॥

4.30

सर्वे देवा मनुष्याश्च यदि स्युर्मम शत्रवः
ते ऽपि नावीचिकं वह्निं समुदानयितुं क्षमाः ॥

4.31

मेरोरपि यदासङ्गान् न भस्माप्युपलभ्यते
क्षणात्क्षिपन्ति मां तत्र बलिनः क्लेशशत्रवः ॥

4.32

नहि सर्वान्यशत्रूणां दीर्घमायुरपीदृशं
अनाद्यन्तं महादीर्घं यन्मम क्लेशवैरिणां ॥

4.33

सर्वे हिताय कल्पन्ते आनुकूल्येन सेविताः
सेव्यमानास्त्वमी क्लेशाः सुतरां दुःखकारकाः ॥

4.34

इतिसततदीर्घवैरिषु व्यसनौघप्रसवैकहेतुषु
हृदये निवसत्सु निर्भयं मम संसाररतिः कथं भवेत् ॥

4.35

भवचारकपालका इमे नरकादिष्वपि वध्यघातकाः
मतिवेश्मनि लोभपञ्जरे यदि तिष्ठति कुतः सुखं मम ॥

4.36

तस्मान्न तावदहमत्र धुरं क्षिपामि यावन्न शत्रव इमे निहताः समक्षं
खल्पे ऽपि तावदपकारिणि बद्धरोषा मानोन्नतास्तमनिहत्य न यान्ति निद्रां ॥

4.37

प्रकृतिमरणदुःखितान्धकारान् रणशिरसि प्रसमं निहन्तुमुग्राः
अगणितशरशक्तिघातदुःखा न विमुखतामुपयान्त्यसाधयित्वा ॥

4.38

किमुत सततसर्वदुःखहेतून् प्रकृतिरिपूनुपहन्तुमुद्यतस्य
भवति मम विषाददैन्यमद्य व्यसनशतैरपि केन हेतुना वै ॥

4.39

अकारणेनैव रिपुक्षतानि गात्रेष्वलण्कारवदुद्वहन्ति
महार्हसिद्ध्यै तु समुद्यतस्य दुःखानि कस्मान्मम बाधकानि ॥

4.40

स्वजीविकामात्रनिबद्धचित्ताः कैवर्तचण्डालकृषीवलाद्याः
शीतातपादिव्यसनं सहन्ते जगद्धितार्थं न कथं सहे ऽहम् ॥

4.41

दशदिग्व्योमपर्यन्त जगत्क्लेशविमोक्षणे
प्रतिज्ञाय महात्मापि न क्लेशेभ्यो विमोचितः ॥

4.42

आत्मप्रमाणमज्ञात्वा ब्रुवन्नुन्मत्तकस्तदा
अनिवर्त्ती भविष्यामि तस्मात्क्लेशवधे सदा ॥

4.43

अत्र ग्रही भविष्यामि बद्धवैरश्च विग्रही
अन्यत्र तद्विधात्क्लेशात् क्लेशघातानुबन्धिनः ॥

4.44

गलन्त्वन्त्राणि मे कामं शिरः पततु नाम मे
न त्वेवावनतिं यामि सर्वथा क्लेशवैरिणाम् ॥

4.45

निर्वासितस्यापि तु नाम शत्रोर् देशान्तरे स्थानपरिग्रहः स्यात्
यतः पुनः संभृतशक्तिरेति न क्लेशशत्रोर्गतिरीदृशी तु ॥

4.46

क्वासौ यायान्मनःस्थो निरस्तः स्थित्वा यस्मिन्मद्वधार्थं यतेत
नोद्योगो मे केवलं मन्दबुद्धेः क्लेशाः प्रज्ञादृष्टिसाध्या वराकाः ॥

4.47

न क्लेशा विषयेषु नेन्द्रियगणे नाप्यन्तराले स्थिता नातो ऽन्यत्र कुहस्थिताः पुनरिमे मथ्नन्ति कृत्स्नं जगत्
मायैवेयमतो विमुञ्च हृदयत्रासं भजस्वोद्यमं प्रज्ञार्थं किमकाण्ड एव नरकेष्वात्मानमाबाधसे ॥

4.48

एवं विनिश्चित्य करोमि यत्नं यथोक्तशिक्षाप्रतिपत्तिहेतोः
वैद्योपदेशाच्चलतः कुतो ऽस्ति भैषज्यसाध्यस्य निरामयत्वम् ॥

मूल पाठ: Bodhicaryāvatāra · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc