भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार · अध्याय 3

3.1

अपायदुःखविश्रामं सर्वसत्त्वैः कृतंशुभं
अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः ॥

3.2

संसारदुःखनिर्मोक्षम् अनुमोदे शरीरिणां
बोधिसत्त्वत्वबुद्धत्वम् अनुमोदे च तायिनाम् ॥

3.3

चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान्
सर्वसत्त्वहिताधानान् अनुमोदे च शासिनाम् ॥

3.4

सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः
धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम् ॥

3.5

निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः
कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत् ॥

3.6

एवं सर्वमिदं कृत्वा यन्मयासादितं शुभं
तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत् ॥

3.7

ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च
तदुपस्थायकश्चैव यावद्रोगापुनर्भवः ॥

3.8

क्षुत्पिपासाव्यथां हन्याम् अन्नपानप्रवर्षणैः
दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम् ॥

3.9

दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः
नानोपकरणाकारैर् उपतिष्ठेयमग्रतः ॥

3.10

आत्मभावांस्तथा भोगान् सर्वत्राध्वगतं शुभं
निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये ॥

3.11

सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः
त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयतां ॥

3.12

यथासुखीकृतश्चात्मा मयायं सर्वदेहिनां
घ्नन्तु निन्दन्तु वा नित्यम् आकिरन्तु च पांसुभिः ॥

3.13

क्रीडन्तु मम कायेन हसन्तु विलसन्तु च
दत्तस्तेभ्यो मया कायश् चिन्तया किं मयानया ॥

3.14

कारयन्तु च कर्माणि यानि तेषां सुखावहं
अनर्थः कस्यचिन्मा भून् मामालम्ब्य कदाचन ॥

3.15

येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत्
तेषां स एव हेतुः स्यान् नित्यं सर्वार्थसिद्धये ॥

3.16

अभ्याख्यास्यन्ति मां ये च ये चान्ये ऽप्यपकारिणः
उत्प्रासकास्तथान्ये ऽपि सर्वे स्युर्बोधिभागिनः ॥

3.17

अनाथानामहं नाथः सार्थवाहश्च यायिनां
पारेप्सूनां च नौभूतः सेतुः सङ्क्रम एव च ॥

3.18

दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहं
दासार्थिनामहं दासो भवेयं सर्वदेहिनां ॥

3.19

चिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः
भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनां ॥

3.20

पृथिव्यादीनि भूतानि निःशेषाकाशवासिनां
सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा ॥

3.21

एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा
भवेयमुपजीव्यो ऽहं यावत्सर्वे न निर्वृताः ॥

3.22

यथा गृहीतं सुगतैर् बोधिचित्तं पुरातनैः
ते बोधिसत्त्वशिक्षायाम् आनुपूर्व्या यथा स्थिताः ॥

3.23

तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते
तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमं ॥

3.24

एवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः
पुनः पृष्ठस्य पुष्ट्यर्थं चित्तमेवं प्रहर्षयेत् ॥

3.25

अद्य मे सफलं जन्म सुलब्धो मानुषो भवः
अद्य बुद्धकुले जातो बुद्धपुत्रो ऽस्मि साम्प्रतं ॥

3.26

तथाधुना मया कार्यं स्वकुलोचितकारिणां
निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा ॥

3.27

अन्धः सङ्करकूटेभ्यो यथा रत्नमवाप्नुयात्
तथा कथंचिदप्येतद् बोधिचित्तं ममोदितं ॥

3.28

जगन्मृत्युविनाशाय जातमेतद्रसायनं
जगद्दारिद्र्यशमनं निधानमिदमक्षयं ॥

3.29

जगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमं
भवाध्वभ्रमणश्रान्तो जगद्विश्रामपादपः ॥

3.30

दुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनां
जगत्क्लेशोष्मशमन उदितश्चित्तचन्द्रमाः ॥

3.31

जगदज्ञानतिमिर प्रोत्सारणमहारविः
सद्धर्मक्षीरमथनान् नवनीतं समुत्थितं ॥

3.32

सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः
सुखसत्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणं ॥

3.33

जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा
पुरतः खलु सर्वतायिनाम् अभिनन्दन्तु सुरासुरादयः ॥

मूल पाठ: Bodhicaryāvatāra · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc