भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार · अध्याय 5

5.1

शिक्षां रक्षितुकामेन चित्तं रक्ष्यं प्रयत्नतः
न शिक्षा रक्षितुं शक्या चलं चित्तमरक्षता ॥

5.2

अदान्ता मत्तमातङ्गा न कुर्वन्तीह तां व्यथाम्
करोति यामवीच्यादौ मुक्तश्चित्तमतङ्गजः ॥

5.3

बद्धश्चेच्चितमातङ्गः स्मृतिरज्ज्वा समन्ततः
भयमस्तं गतं सर्वं कृत्स्नं कल्याणमागतम् ॥

5.4

ब्याघ्राः सिंहा गजा ऋक्षाः सर्पाः सर्वे च शत्रवः
सर्वे नरकपालाश्च डाकिन्यो राक्षसास्तथा ॥

5.5

सर्वे बद्धा भवन्त्येते चित्तस्यैकस्य बन्धनात्
चित्तस्यैकस्य दमनात् सर्वे दान्ता भवन्ति च ॥

5.6

यस्माद्भयानि सर्वाणि दुःखान्यप्रमितानि च
चित्तादेव भवन्तीति कथितं तत्त्ववादिना ॥

5.7

शस्त्राणि केन नरके घटितानि प्रयत्नतः
तप्तायःकुट्टिमं केन कुतो जाताश्च ताः स्त्रियः ॥

5.8

पापचित्तसमुद्भूतं तत्तत्सर्वं जगौ मुनिः
तस्मान्न कश्चित्रैलोक्ये चित्तादन्यो भयानकः ॥

5.9

अदरिद्रं जगत्कृत्वा दानपारमिता यदि
जगद्दरिद्रमद्यापि सा कथं पूर्वतायिनाम् ॥

5.10

फलेन सह सर्वस्व त्यागचित्ताज्जने ऽखिले
दानपारमिता प्रोक्ता तस्मात् सा चित्तमेव तु ॥

5.11

मत्स्यादयः क्व नीयन्तां मारयेयं यतो न तान्
लब्धे विरतिचित्ते तु शीलपारमिता मता ॥

5.12

कियतो मारयिष्यामि दुर्जनान् गगनोपमान्
मारिते क्रोधचित्ते तु मारिताः सर्वशत्रवः ॥

5.13

भूमिं छादयितुं सर्वां कुतश्चर्म भविष्यति
उपानच्चर्ममात्रेण छन्ना भवति मेदिनी ॥

5.14

बाह्या भावा मया तद्वच् छक्या वारयितुं न हि
स्वचित्तं वारयिष्यामि किं ममान्यैर्निवारितैः ॥

5.15

सहापि वाक्छरीराभ्यां मन्दवृत्तेर्न तत्फलम्
यत्पटोरेककस्यापि चित्तस्य ब्रह्मतादिकम् ॥

5.16

जपास्तपांसि सर्वाणि दीर्घकालकृतान्यपि
अन्यचित्तेन मन्देन वृथैवेत्याह सर्ववित् ॥

5.17

दुःखं हन्तुं सुखं प्राप्तुं ते भ्रमन्ति मुधाम्बरे
यैरेतद्धर्मसर्वस्वं चित्तं गुह्यं न भावितम् ॥

5.18

तस्मात्स्वधिष्ठितं चित्तं मया कार्यं सुरक्षितम्
चित्तरक्षाव्रतं मुक्त्वा बहुभिः किं मम व्रतैः ॥

5.19

यथा चपलमध्यस्थो रक्षति व्रणमादरात्
एवं दुर्जनमध्यस्थो रक्षेच्चित्तव्रणं सदा ॥

5.20

व्रणदुःखलवाद्भीतो रक्षति व्रणमादरात्
संघातपर्वताघाताद् भीतश्चित्तव्रणं न किम् ॥

5.21

अनेन हि विहारेण विहरन् दुर्जनेष्वपि
प्रमदाजनमध्ये ऽपि यतिर्धीरो न खण्ड्यते ॥

5.22

लाभा नश्यन्तु मे कामं सत्कारः कायजीवितम्
नश्यत्वन्यच्च कुशलं मा तु चित्तं कदाचन ॥

5.23

चित्तं रक्षितुकामानां मयैष क्रियते ऽञ्जलिः
स्मृतिं च संप्रजन्यं च सर्वयत्नेन रक्षत ॥

5.24

व्याध्याकुलो नरो यद्वन् न क्षमः सर्वकर्मसु
तथाभ्यां व्याकुलं चित्तं न क्षमं सर्वकर्मसु ॥

5.25

असंप्रजन्यचित्तस्य श्रुतचिन्तितभावितम्
सच्छिद्रकुम्भजलवन् न स्मृताववतिष्ठते ॥

5.26

अनेके श्रुतवन्तो ऽपि श्राद्धा यत्नपरा अपि
असंप्रजन्यदोषेण भवन्त्यापत्तिकश्मलाः ॥

5.27

असंप्रजन्यचौरेण स्मृतिमोषानुसारिणा
उपचित्यापि पुण्यानि मुषिता यान्ति दुर्गतिम् ॥

5.28

क्लेशतस्करसङ्घो ऽयम् अवतारगवेषकः
प्राप्यावतारं मुष्णाति हन्ति सद्गतिजीबितम् ॥

5.29

तस्मात्स्मृतिर्मनोद्वारान् नापनेया कदाचन
गतापि प्रत्युपस्थाप्या संस्मृत्यापायिकीं व्यथाम् ॥

5.30

उपाध्यायानुशासिन्या भीत्याप्यादरकारिणाम्
धन्यानां गुरुसंवासात् सुकरं जायते स्मृतिः ॥

5.31

बुद्धाश्च बोधिसत्त्वाश्च सर्वत्राव्याहतेक्षणाः
सर्वमेवाग्रतस्तेषां तेषामस्मि पुरः स्थितः ॥

5.32

इति ध्यात्वा तथा तिष्ठेत् त्रपादरभयान्वितः
बुद्धानुस्मृतिरप्येवं भवेत्तस्य मुहुर्मुहुः ॥

5.33

संप्रजन्यं तदायाति न च यात्यागतं पुनः
स्मृतिर्यदा मनोद्वारे रक्षार्थमवतिष्ठते ॥

5.34

पूर्वं तावदिदं चित्तं सदोपस्थाप्यमीदृशम्
निरिन्द्रियेणेव मया स्थातव्यं काष्ठवत्सदा ॥

5.35

निष्फला नेत्रविक्षेपा न कर्त्तव्याः कदाचन
निध्यायन्तीव सततं कार्या दृष्टिरधोगता ॥

5.36

दृष्टिविश्रामहेतोस्तु दिशः पश्येत्कदाचन
आभासमात्रं दृष्ट्वा च स्वागतार्थं विलोकयेत् ॥

5.37

मार्गादौ भयबोधार्थं मुहुः पश्येच्चतुर्दिशम्
दिशो विश्रम्य वीक्षेत परावृत्येव पृष्ठतः ॥

5.38

सरेदपसरेद्वापि पुरः पश्चान्निरूप्य च
एवं सर्वास्ववस्थासु कार्यं बुद्ध्वा समाचरेत् ॥

5.39

कायेनैवमवस्थेयम् इत्याक्षिप्य क्रियां पुनः
कथं कायः स्थित इति द्रष्टव्यं पुनरन्तरा ॥

5.40

निरूप्यः सर्वयत्नेन चित्तमत्तद्विपस्तथा
धर्मचिन्तामहास्तम्भे यथा बद्धो न मुच्यते ॥

5.41

कुत्र मे वर्तत इति प्रत्यवेक्ष्यं तथा मनः
समाधानधुरं नैव क्षणमप्युत्सृजेद्यथा ॥

5.42

भयोत्सवादिसंबन्धे यद्यशक्तो यथासुखम्
दानकाले तु शीलस्य यस्मादुक्तमुपेक्षणम् ॥

5.43

यद्बुद्ध्वा कर्तुमारब्धं ततो ऽन्यन्न विचिन्तयेत्
तदेव तावन्निष्पाद्यं तद्गतेनान्तरात्मना ॥

5.44

एवं हि सुकृतं सर्वम् अन्यथा नोभयं भवेत्
असंप्रजन्यक्लेशो ऽपि वृद्धिं चैवं गमिष्यति ॥

5.45

नानाविधप्रलापेषु वर्तमानेष्वनेकधा
कौतूहलेषु सर्वेषु हन्यादौत्सुक्यमागतम् ॥

5.46

मृन्मर्दनतृणच्छेद रेखाद्यफलमागतम्
स्मृत्वा ताथागतीं शिक्षां भीतस्तत्क्षणमुत्सृजेत् ॥

5.47

यदा चलितुकामः स्याद् वक्तुकामो ऽपि वा भवेत्
स्वचित्तं प्रत्यवेक्ष्यादौ कुर्याद्धैर्येण युक्तिमत् ॥

5.48

अनुनीतं प्रतिहतं यदा पश्येत्स्वकं मनः
न कर्तव्यं न वक्तव्यं स्थातव्यं काष्ठवत्तदा ॥

5.49

उद्धतं सोपहासं वा यदा मानमदान्वितम्
सोत्प्रासातिशयं वक्रं वञ्चकं च मनो भवेत् ॥

5.50

यदात्मोत्कर्षणाभासं परपंसनमेव च
साधिक्षेपं ससंरम्भं स्थातव्यं काष्ठवत्तदा ॥

5.51

लाभसत्कारकीर्त्यर्थि परिवारार्थि वा पुनः
उपस्थानार्थि मे चित्तं तस्मात्तिष्ठामि काष्ठवत् ॥

5.52

परार्थरूक्षं स्वार्थार्थि परिषत्काममेव वा
वक्तुमिच्छति मे चित्तं तस्मात्तिष्ठामि काष्ठवत् ॥

5.53

असहिष्ण्वलसं भीतं प्रगल्भं मुखरं तथा
स्वपक्षाभिनिविष्टं वा तस्मात्तिष्ठामि काष्ठवत् ॥

5.54

एवं संक्लिष्टमालोक्य निष्फलारम्भि वा मनः
निगृह्णीयाद् दृढं शूरः प्रतिपक्षेण तत्सदा ॥

5.55

सुनिश्चितं सुप्रसन्नं धीरं सादरगौरवम्
सलज्जं सभयं शान्तं पराराधनतत्परम् ॥

5.56

परस्परविरुद्धाभिर् बालेच्छाभिरखेदितम्
क्लेशोत्पादादिदं ह्येतद् एषामिति दयान्वितम् ॥

5.57

आत्मसत्त्ववशं नित्यम् अनवद्येषु वस्तुषु
निर्माणमिव निर्मानं धारयाम्येष मानसम् ॥

5.58

चिरात्प्राप्तं क्षणवरं स्मृत्वा स्मृत्वा मुहुर्मुहुः
धारयामीदृशं चित्तम् अप्रकम्प्यं सुमेरुवत् ॥

5.59

गृध्रैरामिषसंगृद्धैः कृष्यमाण इतस्ततः
न करोत्यन्यथा कायः कस्मादत्र प्रतिक्रियाम् ॥

5.60

रक्षसीमं मनः कस्माद् आत्मीकृत्य समुच्छ्रयम्
त्वत्तश्चेत्पृथगेवायं तेनात्र तव को व्ययः ॥

5.61

न स्वीकरोषि हे मूढ काष्ठपुत्तलकं शुचिम्
अमेध्यघटितं यन्त्रं कस्माद्रक्षसि पूतिकम् ॥

5.62

इमं चर्मपुटं तावत् स्वबुद्ध्यैव पृथक् कुरु
अस्थिपञ्जरतो मांसं प्रज्ञाशस्त्रेण मोचय ॥

5.63

अस्थीन्यपि पृथक् कृत्वा पश्य मज्जानमन्ततः
किमत्र सारमस्तीति स्वयमेव विचारय ॥

5.64

एवमन्विष्य यत्नेन न दृष्टं सारमत्र ते
अधुना वद कस्मात्त्वं कायमद्यापि रक्षसि ॥

5.65

न खादितव्यमशुचि त्वया पेयं न शोणितम्
नान्त्राणि चूषितव्यानि किं कायेन करिष्यसि ॥

5.66

युक्तं गृध्रशृगालादेर् आहारार्थं तु रक्षितुम्
कर्मोपकरणं त्वेतन् मनुष्याणां शरीरकम् ॥

5.67

एवं ते रक्षतश्चापि मृत्युराच्छिद्य निर्दयः
कायं दास्यति गृध्रेभ्यस् तदा त्वं किं करिष्यसि ॥

5.68

न स्थास्यतीति भृत्याय न वस्त्रादि प्रदीयते
कायो यास्यति खादित्वा कस्मात्त्वं कुरुषे व्ययम् ॥

5.69

दत्त्वास्मै वेतनं तस्मात् स्वार्थं कुरु मनो ऽधुना
नहि वैतनिकोपात्तं सर्वं तस्मै प्रदीयते ॥

5.70

काये नौबुद्धिमाधाय गत्यागमननिश्चयात्
यथाकामङ्गमं कायं कुरु सत्त्वार्थसिद्धये ॥

5.71

एवं वशीकृतस्वात्मा नित्यं स्मितमुखो भवेत्
त्यजेद् भृकुटिसङ्कोचं पूर्वाभाषी जगत्सुहृत् ॥

5.72

सशब्दपातं सहसा न पीठादीन् विनिक्षिपेत्
नास्फालयेत्कपाटं च स्यान्निःशब्दरुचिः सदा ॥

5.73

बको बिडालश्चौरश्च निःशब्दो निभृतश्चरन्
प्राप्नोत्यभिमतं कार्यम् एवं नित्यं यतिश्चरेत् ॥

5.74

परचोदनदक्षाणाम् अनधीष्टोपकारिणाम्
प्रतीच्छेच्छिरसा वाक्यं सर्वशिष्यः सदा भवेत् ॥

5.75

सुभाषितेषु सर्वेषु साधुकारमुदीरयेत्
पुण्यकारिणमालोक्य स्तुतिभिः संप्रहर्षयेत् ॥

5.76

परोक्षं च गुणान् ब्रूयाद् अनुब्रूयाच्च तोषतः
स्ववर्णे भाष्यमाणे च भावयेत्तद्गुणज्ञताम् ॥

5.77

सर्वारम्भा हि तुष्ट्यर्थाः सा वित्तैरपि दुर्लभा
भोक्ष्ये तुष्टिसुखं तस्मात् परश्रमकृतैर्गुणैः ॥

5.78

न चात्र मे व्ययः कश्चित् परत्र च महत्सुखम्
अप्रीतिदुःखं द्वेषैस्तु महद्दुःखं परत्र च ॥

5.79

विश्वस्तविन्यस्तपदं विस्पष्टार्थं मनोरमम्
श्रुतिसौख्यं कृपामूलं मृदुमन्दस्वरं वदेत् ॥

5.80

ऋजु पश्येत्सदा सत्त्वांश् चक्षुषा संपिबन्निव
एतानेव समाश्रित्य बुद्धत्वं मे भविष्यति ॥

5.81

सातत्याभिनिवेशोत्थं प्रतिपक्षोत्थमेव च
गुणोपकारिक्षेत्रे च दुःखिते च महच्छुभम् ॥

5.82

दक्ष उत्थानसंपन्नः स्वयङ्कारी सदा भवेत्
नावकाशः प्रदातव्यः कस्यचित्सर्वकर्मसु ॥

5.83

उत्तरोत्तरतः श्रेष्ठा दानपारमितादयः
नेतरार्थं त्यजेच्छ्रेष्ठाम् अन्यत्राचारसेतुतः ॥

5.84

एवं बुद्ध्वा परार्थेषु भवेत्सततमुत्थितः
निषिद्धमप्यनुज्ञातं कृपालोरर्थदर्शिनः ॥

5.85

विनिपातगतानाथ ब्रतस्थान् संविभज्य च
भुञ्जीत मध्यमां मात्रां त्रिचीवरबहिस्त्यजेत् ॥

5.86

सद्धर्मसेबकं कायम् इतरार्थे न पीडयेत्
एवमेव हि सत्त्वानाम् आशामाशु प्रपूरयेत् ॥

5.87

त्यजेन्न जीवितं तस्माद् अशुद्धे करुणाशये
तुल्याशये तु तत्त्याज्यम् इत्थं न परिहीयते ॥

5.88

धर्मं निर्गौरवे स्वस्थे न शिरोवेष्ठिते वदेत्
सच्छत्रदण्डशस्त्रे च नावगुण्ठितमस्तके ॥

5.89

गम्भीरोदारमल्पेषु न स्त्रीषु पुरुषं विना
हीनोत्कृष्टेषु धर्मेषु समं गौरवमाचरेत् ॥

5.90

नोदारधर्मपात्रं च हीने धर्मे नियोजयेत्
न चाचारं परित्यज्य सूत्रमन्त्रैः प्रलोभयेत् ॥

5.91

दन्तकाष्ठस्य खेटस्य विसर्जनमपावृतम्
नेष्टं जले स्थले भोग्ये मूत्रादेश्चापि गर्हितम् ॥

5.92

मुखपूरं न भुञ्जीत सशब्दं प्रसृताननम्
प्रलम्बपादं नासीत न बाहू मर्दयेत्समम् ॥

5.93

नैकयाऽन्यस्त्रिया कुर्याद् यानं शयनमासनम्
लोकाप्रसादकं सर्वं दृष्ट्वा पृष्ट्वा च वर्जयेत् ॥

5.94

नाङ्गुल्या कारयेत्किंचिद् दक्षिणेन तु सादरम्
समस्तेनैव हस्तेन मार्गमप्येवमादिशेत् ॥

5.95

न बाहूत्क्षेपकं कंचिच् छब्दयेदल्पसंभ्रमे
अच्छटादि तु कर्तव्यम् अन्यथा स्यादसंवृतः ॥

5.96

नाथनिर्वाणशय्यावच् छयीतेप्सितया दिशा
संप्रजान।ल्लघूत्थानः प्रागवश्यं नियोगतः ॥

5.97

आचारो बोधिसत्त्वानाम् अप्रमेय उदाहृतः
चित्तशोधनमाचारं नियतं तावदाचरेत् ॥

5.98

रात्रिन्दिवं च त्रिस्कन्धं त्रिकालं च प्रवर्तयेत्
शेषापत्तिशमस्तेन बोधिचित्तजिनाश्रयात् ॥

5.99

या अवस्थाः प्रपद्येत स्वयं परवशो ऽपि वा
तास्ववस्थासु याः शिक्षाः शिक्षेत्ता एव यत्नतः ॥

5.100

न हि तद्विद्यते किंचिद् यन्न शिक्ष्यं जिनात्मजैः
न तदस्ति न यत्पुण्यम् एवं विहरतः सतः ॥

5.101

पारम्पर्येण साक्षाद्वा सत्त्वार्थं नान्यदाचरेत्
सत्त्वानामेव चार्थाय सर्वं बोधाय नामयेत् ॥

5.102

सदा कल्याणमित्रं च जीवितार्थे ऽपि न त्यजेत्
बोधिसत्त्वव्रतधरं महायानार्थकोविदम् ॥

5.103

श्रीसंभवविमोक्षाच्च शिक्षेद्यद्गुरुवर्तनम्
एतच्चान्यच्च बुद्धोक्तं ज्ञेयं सूत्रान्तवाचनात् ॥

5.104

शिक्षाः सूत्रेषु दृश्यन्ते तस्मात्सूत्राणि वाचयेत्
आकाशगर्भे सूत्रे च मूलापत्तीर्निरूपयेत् ॥

5.105

शिक्षासमुच्चयो ऽवश्यं द्रष्टव्यश्च पुनः पुनः
विस्तरेण सदाचारो यस्मात्तत्र प्रदर्शितः ॥

5.106

सङ्क्षेपेणाथवा तावत् पश्येत्सूत्रसमुच्चयम्
आर्यनागार्जुनाबद्धं द्वितीयं च प्रयत्नतः ॥

5.107

यतो निवार्यते यत्र यदेव च नियुज्यते
तल्लोकचित्तरक्षार्थं शिक्षां दृष्ट्वा समाचरेत् ॥

5.108

एतदेव समासेन संप्रजन्यस्य लक्षणम्
यत्कायचित्तावस्थायाः प्रत्यवेक्षा मुहुर्मुहुः ॥

5.109

कायेनैव पठिष्यामि वाक्पाठेन तु किं भवेत्
चिकित्सापाठमात्रेण रोगिणः किं भविष्यति ॥

मूल पाठ: Bodhicaryāvatāra · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc