भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार · अध्याय 2

2.1

तच्चित्तरत्नग्रहणाय सम्यक् पूजां करोम्येष तथागतानां
सद्धर्मरत्नस्य च निर्मलस्य बुद्धात्मजानां च गुणोदधीनां ॥

2.2

यावन्ति पुष्पाणि फलानि चैव भैषज्यजातानि च यानि सन्ति
रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि ॥

2.3

महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः
लताः सपुष्पाभरणोज्ज्वलाश्च द्रुमाश्च ये सत्फलनम्रशाखाः ॥

2.4

देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः
सरांसि चाम्भोरुहभूषणानि हंसस्वनात्यन्तमनोहराणि ॥

2.5

अकृष्टजातानि च शस्यजातान्य् अन्यानि वा पूज्यविभूषणानि
आकाशधातुप्रसराविधीनि सर्वाण्यपीमान्यपरिग्रहाणि ॥

2.6

आदाय बुद्ध्या मुनिपुङ्गवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः
गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः ॥

2.7

अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित्
अतो ममार्थाय परार्थचिन्ता गृह्णन्तु नाथा इदमात्मशक्त्या ॥

2.8

ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः
परिग्रहं मे कुरुताग्रसत्त्वाः युष्मासु दासत्वमुपैमि भक्त्या ॥

2.9

परिग्रहेणास्मि भवत्कृतेन निर्भीर्भवे सत्त्वहितं करोमि
पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः ॥

2.10

रत्नोज्ज्वलस्तम्भमनोरमेषु मुक्तामयोद्भासिवितानकेषु
स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु सुगन्धिषु स्नानगृहेषु तेषु ॥

2.11

मनोज्ञगन्धोदकपुष्पपूर्णैः कुम्भैर्महारत्नमयैरनेकैः
स्नानं करोम्येष तथागतानां तदात्मजानां च सगीतवाद्यं ॥

2.12

प्रधूपितैर्धौतमलैरतुल्यैर् वर्स्त्रैश्च तेषां तनुमुन्मृशामि
ततः सुरक्तानि सुधूपितानि ददामि तेभ्यो वरचीवराणि ॥

2.13

दिव्यैर्मृदुश्लक्ष्णविचित्रशोभैर् वस्त्रैरलङ्कारवरैश्च तैस्तैः
समन्तभद्राजितमञ्जुघोष लोकेश्वरादीनपि मण्डयामि ॥

2.14

सर्वत्रिसाहस्रविसारिगन्धैर् गन्धोत्तमैस्ताननुलेपयामि
सूत्तप्तसून्मृष्टसुधौतहेम प्रभोज्ज्वलान्सर्वमुनीन्द्रकायान् ॥

2.15

मन्दारवेन्दीवरमल्लिकाद्यैः सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः
अभ्यर्चयाम्यर्च्यतमान्मुनीन्द्रान् स्रग्भिश्च संस्थानमनोरमाभिः ॥

2.16

स्फीतस्फुरद्गन्धमनोरमैश्च तान्धूपमेघैरुपधूपयामि
भौज्यैश्च स्वाद्यैर्विविधैश्च पेयैस् तेभ्यो निविद्यं च निवेदयामि ॥

2.17

रत्नप्रदीपांश्च निवेदयामि सुवर्णपद्मेषु निविष्टपङ्क्वीन्
गन्धोपलिप्तेषु च कुट्टिमेषु किरामि पुष्पप्रकरान्मनोज्ञान् ॥

2.18

प्रलम्बमुक्तामणिहारशोभान् आभास्वरान्दिग्मुखमण्डनांस्तान्
विमानमेघान् स्तुतिगीतरम्यान् मैत्रीमयेभ्यो ऽपि निवेदयामि ॥

2.19

सुवर्णदण्डैः कमनीयरूपैः संसक्तमुक्तानि समुच्छ्रितानि
प्रधारयाम्येष महामुनीनां रत्नातपत्राण्यतिशोभनानि ॥

2.20

अतः परं प्रितष्ठन्तां पूजामेघा मनोरमाः
तूर्यसङ्गीतिमेघाश्च सर्वसत्त्वप्रहर्षणाः ॥

2.21

सर्वसद्धर्मरत्नेषु चैत्येषु प्रतिमासु च
पुष्परत्नादिवर्षाश्च प्रवर्त्तन्तां निरन्तरम् ॥

2.22

मञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान्
तथा तथागतान्नाथान् सपुत्रान्पूजयाम्यहम् ॥

2.23

स्वराङ्गसागरैः स्तोत्रैः स्तौमि चाहं गुणोदधीन्
स्तुतिसङ्गीतिमेघाश्च संभवन्त्वेष्वनन्यथा ॥

2.24

सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहं
सर्वत्राध्वगतान्बुद्धान् सहधर्मगणोत्तमान् ॥

2.25

सर्चचैत्यानि वन्दे ऽहं बोधिसत्त्वाश्रयांस्तथा
नमः करोम्युपाध्यायान् अभिवन्द्यान्यतींस्तथा ॥

2.26

बुद्धं गच्छामि शरणं यावदाबोधिमण्डतः
धर्मं गच्छामि शरणं बोधिसत्त्वगणं तथा ॥

2.27

विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान्
महाकारुणिकांश्चापि बोधिसत्त्वान्कृताञ्जलिः ॥

2.28

अनादिमति संसारे जन्मन्यत्रैव वा पुनः
यन्मया पशुना पापं कृतं कारितमेव वा ॥

2.29

यच्चानुमोदितं किंचिद् आत्मघाताय मोहतः
तदत्ययं देशयामि पश्चात्तापेन तापितः ॥

2.30

रत्नत्रये ऽपकारो यो मातापितृषु वा मया
गुरुष्वन्येषु वा क्षेपात् कायवाग्बुद्धिभिः कृतः ॥

2.31

अनेकदोषदुष्टेन मया पापेन नायकाः
यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम् ॥

2.32

कथं च निःसराम्यस्मान् नित्योद्वेगो ऽस्मि नायकाः
मा भून्मे मृत्युरचिराद् अक्षीणे पापसंचये ॥

2.33

कथं च निःसराम्यस्मात् परित्रायत सत्वरं
मा ममाक्षीणपापस्य मरणं शीघ्रमेष्यति ॥

2.34

कृताकृतापरीक्षो ऽयं मृत्युर्विश्रम्भघातकः
स्वस्थास्वस्थैरविश्वास्य आकस्मिकमहाशनिः ॥

2.35

प्रियाप्रियनिमित्तेन पापं कृतमनेकधा
सर्वमुत्सृज्य गन्तव्यम् इति न ज्ञातमीदृशम् ॥

2.36

तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते
स्वप्नानुभूतवत्सर्वं गतं न पुनरीक्ष्यते ॥

2.37

अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति
अहं च न भविष्यामि सर्वं च न भविष्यति ॥

2.38

इहैव तिष्ठतस्तावद् गता नैके प्रियाप्रियाः
तन्निमित्तं तु यत्पापं तत्स्थितं घोरमग्रतः ॥

2.39

एवमागन्तुको ऽस्मीति न मया प्रत्यवेक्षितं
मोहानुनयविद्वैषैः कृतं पापमनेकधा ॥

2.40

रात्रिन्दिवमविश्रामम् आयुषो वर्धते व्ययः
आयस्य चागमो नास्ति न मरिष्यामि किं न्वहम् ॥

2.41

इह शय्यागतेनापि बन्धुमध्ये ऽपि तिष्ठता
मयैवैकेन सोढव्या मर्मच्छेदादिवेदना ॥

2.42

यमदूतैर्गृहीतस्य कुतो बन्धुः कुतः सुहृत्
पुण्यमेकं तदा त्राणं मया तच्च न सेवितम् ॥

2.43

अनित्यजीवितासङ्गाद् इदं भयमजानता
प्रमत्तेन मया नाथा बहु पापमुपार्जितम् ॥

2.44

अङ्गच्छेदार्थमप्यद्य नीयमानो विशुष्यति
पिपासितो दीनदृष्टिर् अन्यदेवेक्षते जगत् ॥

2.45

किं पुनर्भैरवाकारैर् यमदूतैरधिष्ठितः
महात्रासज्वरग्रस्तः पुरीषोत्सर्गवेष्टितः ॥

2.46

कातरैर्दृष्टिपातैश्च त्राणान्वेषी चतुर्दिशं
को मे महाभयादस्मात् साधुस्त्राणं भविष्यति ॥

2.47

त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः
तदाहं किं करिष्यामि तस्मिन्स्थाने महाभये ॥

2.48

अद्यैव शरणं यामि जगन्नाथान्महाबलान्
जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरांजिनान् ॥

2.49

तैश्चाप्यधिगतं धर्मं संसारभयनाशनं
शरणं यामि भावेन बोधिसत्त्वगणं तथा ॥

2.50

समस्तभद्रायात्मानं ददामि भयविह्वलः
पुनश्च मञ्जुघोषाय ददाम्यात्मानमात्मना ॥

2.51

तं चावलोकितं नाथं कृपाव्याकुलचारिणं
विरौम्यार्तरवं भीतः स मां रक्षतु पापिनम् ॥

2.52

आर्यमाकाशगर्भं च क्षितिगर्भं च भावतः
सर्वान्महाकृपांश्चापि त्राणान्वेषी विरौम्यहम् ॥

2.53

यं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशं
यमदूतादयो दुष्टास् तं नमस्यामि वज्रिणम् ॥

2.54

अतीत्य युष्मद्वचनं साम्प्रतं भयदर्शनात्
शरणं यामि वो भीतो भयं नाशयत द्रुतम् ॥

2.55

इत्वरव्याधिभीतो ऽपि वैद्यवाक्यं न लङ्घयेत्
किमु व्याधिशतैर्ग्रस्तश् चतुर्भिश्चतुरुत्तरैः ॥

2.56

एकेनापि यतः सर्वे जम्बुद्वीपगता नराः
नश्यन्ति येषां भैषज्यं सर्वदिक्षु न लभ्यते ॥

2.57

तत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः
वाक्यमुल्लङ्घयामीति धिङ्मामत्यन्तमोहितम् ॥

2.58

अत्यप्रमत्तस्तिष्ठामि प्रपातेष्वितरेष्वपि
किमु योजनसाहस्त्रे प्रपाते दीर्घकालिके ॥

2.59

अद्यैव मरणं नेति न युक्ता मे सुखासिका
अवश्यमेति सा वेला न भविष्याम्यहं यदा ॥

2.60

अभयं केन मे दत्तं निःसरिष्यामि वा कथं
अवश्यं न भविष्यामि कस्मान्मे सुस्थितं मनः ॥

2.61

पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितं
येषु मे ऽभिनिविष्टेन गुरूणां लङ्घितं वचः ॥

2.62

जीवलोकमिमं त्यक्त्वा बन्धून्परिचितांस्तथा
एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः ॥

2.63

इयमेव तु मे चिन्ता युक्ता रात्रिन्दिवं सदा
अशुभान्नियतं दुःखं निःसरेयं ततः कथम् ॥

2.64

मया बालेन मूढेन यत्किंचित्पापमाचितं
प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च ॥

2.65

तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः
कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः ॥

2.66

अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः
न भद्रकमिदं नाथा न कर्त्तव्यं पुनर्मया ॥

मूल पाठ: Bodhicaryāvatāra · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc