भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार · अध्याय 1

1.1

सुगतान् ससुतान् सधर्मकायान् प्रणिपत्यादरतो ऽखिलांश्च वन्द्यान्
सुगतात्मजसंवरावतारं कथयिष्यामि यथागमं समासात् ॥

1.2

न हि किंचिदपूर्वमत्र वाच्यं न च संग्रथनकौशलं ममास्ति
अतएव न मे परार्थचिन्ता स्वमनो वासयितुं कृतं ममेदं ॥

1.3

मम तावदनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः
अथ मत्समधातुरेव पश्येद् अपरो ऽप्येनमतो ऽपि सार्थको ऽयं ॥

1.4

क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी
यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः ॥

1.5

रात्रौ यथा मेघघनान्धकारे विद्युत्क्षणं दर्शयति प्रकाशं
बुद्धानुभावेन तथा कदाचिल् लोकस्य पुण्येषु मतिः क्षणं स्यात् ॥

1.6

तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरं
तज्जीयते ऽन्येन शुभेन केन संबोधिचित्तं यदि नाम न स्यात् ॥

1.7

कल्पाननल्पान् प्रविचिन्तयद्भिर् दृष्टं मुनीन्द्रैर्हितमेतदेव
यतः सुखेनैव सुखं प्रवृद्धम् उत्प्लावयत्यप्रमिताञ्जनौघान् ॥

1.8

भवदुःखशतानि तर्तुकामैर् अपि सत्त्वव्यसनानि हर्तुकामैः
बहुसौख्यशतानि भोक्तुकामैर् न विमोच्यं हि सदैव बोधिचित्तं ॥

1.9

भवचारकबन्धनो वराकः सुगतानां सुत उच्यते क्षणेन्
न नरामरलोकवन्दनीयो भवति स्मोदित एव बोधिचित्ते ॥

1.10

अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घां
रसजातमतीव वेधनीयं सुदृढं गृह्णत बोधिचित्तसंज्ञं ॥

1.11

सुपरीक्षितमप्रमेयधीभिर् बहुमूल्यं जगदेकसार्थवाहैः
गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णत बोधिचित्तरत्नं ॥

1.12

कदलीव फलं विहाय याति क्षयमन्यत्कुशलं हि सर्वमेव
सततं फलति क्षयं न याति प्रसवत्येव तु बोधिचित्तवृक्षः ॥

1.13

कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन
शूराश्रयेणेव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः ॥

1.14

युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन
यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमान् ॥

1.15

तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः
बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च ॥

1.16

गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते
तथा भेदो ऽनयोर्ज्ञेयो यथासंख्येन पण्डितैः ॥

1.17

बोधिप्रणिधिचित्तस्य संसारे ऽपि फलं महत्
न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः ॥

1.18

यतः प्रभृत्यपर्यन्त सत्त्वधातुप्रमोक्षणे
समाददाति तच्चित्तम् अनिवर्त्येन चेतसा ॥

1.19

ततः प्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः
अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः ॥

1.20

इदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान्
हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः ॥

1.21

शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन्
अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः ॥

1.22

किमुताप्रमितं शूलम् एकैकस्य जिहीर्षतः
अप्रमेयगुणं सत्त्वम् एकैकं च चिकीर्षतः ॥

1.23

कस्य मातुः पितुर्वापि हिताशंसेयमीदृशी
देवतानामृषीणां वा ब्रह्मणां वा भविष्यति ॥

1.24

तेषामेव च सत्त्वानां स्वार्थे ऽप्येष मनोरथः
नोत्पन्नपूर्वः स्वप्ने ऽपि परार्थे संभवः कुतः ॥

1.25

सत्त्वरत्नविशेषो ऽयम् अपूर्वो जायते कथं
यत्परार्थाशयो ऽन्येषां न स्वार्थे ऽप्युपजायते ॥

1.26

जगदानन्दबीजस्य जगद्दुःखौषधस्य च
चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयतां ॥

1.27

हिताशंसनमात्रेण बुद्धपूजा विशिष्यते
किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात् ॥

1.28

दुःखमेवाभिधावन्ति दुःखनिःसरणाशया
सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत् ॥

1.29

यस्तेषां सुखरङ्काणां पीडितानामनेकशः
तृप्तिं पूर्वसुखैः कुर्यात् सर्वाः पीडाश्छिनत्ति च ॥

1.30

नाशयत्यपि संमोहं साधुस्तेन समः कुतः
कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः ॥

1.31

कृते यः प्रतिकुर्वीत सो ऽपि तावत्प्रशस्यते
अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यतां ॥

1.32

कतिपयजनसत्रदायकः कुशलकृदित्यभिपूज्यते जनैः
क्षणमशनकमात्रदानतः सपरिभवं दिवसार्धयापनात् ॥

1.33

किमु निरवधिसत्त्वसंख्यया निरवधिकालमनुप्रयच्छतः
गगनजनपरिक्षयाक्षयं सकलमनोरथसंप्रपूरणं ॥

1.34

इति सत्त्रपतौ जिनस्य पुत्त्रे कलुषं स्वे हृदये करोति यश्च
कलुषोदयसंख्यया स कल्पान् नरकेष्वावसतीति नाथ आह ॥

1.35

अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततो ऽधिकं फलं
महता हि बलेन पापकर्म जिनपुत्त्रेषु शुभं त्वयत्नतः ॥

1.36

तेषां शरीराणि नमस्करोमि यत्रोदितं तद्वरचित्तरत्नं
यत्रापकारो ऽपि सुखानुबन्धी सुखाकरांस्तान् शरणं प्रयामि ॥

मूल पाठ: Bodhicaryāvatāra · Data entry Richard Mahoney · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc