भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार (अन्य संस्करण) · अध्याय 2

2.1

इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां बोधिचित्तानुशंसाविवरणं नाम प्रथमः परिच्छेदः ॥
2 पापदेशना नाम द्वितीयः परिच्छेदः ।
तच्चित्तरत्नग्रहणाय सम्यक् पूजां करोम्येष तथागतानाम् ।
सद्धर्मरत्नस्य च निर्मलस्य बुद्धात्मजानां च गुणोदधीनाम्

2.2

यावन्ति पुष्पाणि फलानि चैव भैषज्यजातानि च यानि सन्ति ।
रत्नानि यावन्ति च सन्ति लोके जलानि च स्वच्छमनोरमाणि

2.3

महीधरा रत्नमयास्तथान्ये वनप्रदेशाश्च विवेकरम्याः ।
लताः सपुष्पाभरणोज्ज्वलाश्च द्रुमाश्च ये सत्फलनम्रशाखाः

2.4

देवादिलोकेषु च गन्धधूपाः कल्पद्रुमा रत्नमयाश्च वृक्षाः ।
सरांसि चाम्भोरुहभूषणानि हंसस्वनात्यन्तमनोहराणि

2.5

अकृष्टजातानि च शस्यजातान्य् अन्यानि वा पूज्यविभूषणानि ।
आकाशधातुप्रसरावधीनि सर्वाण्यपीमान्यपरिग्रहाणि

2.6

आदाय बुद्ध्या मुनिपुंगवेभ्यो निर्यातयाम्येष सपुत्रकेभ्यः ।
गृह्णन्तु तन्मे वरदक्षिणीया महाकृपा मामनुकम्पमानाः

2.7

अपुण्यवानस्मि महादरिद्रः पूजार्थमन्यन्मम नास्ति किंचित् ।
अतो ममार्थाय परार्थचित्ता गृह्णन्तु नाथा इदमात्मशक्त्या

2.8

ददामि चात्मानमहं जिनेभ्यः सर्वेण सर्वं च तदात्मजेभ्यः ।
परिग्रहं मे कुरुताग्रसत्त्वा युष्मासु दासत्वमुपैमि भक्त्या

2.9

परिग्रहेणास्मि भवत्कृतेन निर्भीर्भवे सत्त्वहितं करोमि ।
पूर्वं च पापं समतिक्रमामि नान्यच्च पापं प्रकरोमि भूयः

2.10

रत्नोज्ज्वलस्तम्भमनोरमेषु मुक्तामयोद्भासिवितानकेषु ।
स्वच्छोज्ज्वलस्फाटिककुट्टिमेषु सुगन्धिषु स्नानगृहेषु तेषु

2.11

मनोज्ञगन्धोदकपुष्पपूर्णैः कुम्भैर्महारत्नमयैरनेकैः ।
स्नानं करोम्येष तथागतानां तदात्मजानां च सगीतिवाद्यम्

2.12

प्रधूपितैर्घौतमलैरतुल्यैर् वस्त्रैश्च तेषां तनुमुन्मृषामि ।
ततः सुरक्तानि सुधूपितानि ददामि तेभ्यो वरचीवराणि

2.13

दिव्यैर्मृदुश्लक्ष्णविचित्रशोभैर् वस्त्रैरलंकारवरैश्च तैस्तैः ।
समन्तभद्राजितमञ्जुघोषलोकेश्वरादीनपि मण्डयामि

2.14

सर्वत्रिसाहस्रविसारिगन्धैर् गन्धोत्तमैस्ताननुलेपयामि ।
सूत्तप्तसून्मृष्टसुधौतहेमप्रभोज्ज्वलान् सर्वमुनीन्द्रकायान्

2.15

मान्दारवेन्दीवरमल्लिकाद्यैः सर्वैः सुगन्धैः कुसुमैर्मनोज्ञैः ।
अभ्यर्चयाभ्यर्च्यतमान् मुनीन्द्रान् स्रग्भिश्च संस्थानमनोरमाभिः

2.16

स्फीतस्फुरद्गन्धमनोरमैश्च तान् धूपमेघैरुपधूपयामि ।
भोज्यैश्च खाद्यैर्विविधैश्च पेयैस् तेभ्यो निवेद्यं च निवेदयामि

2.17

रत्नप्रदीपांश्च निवेदयामि सुवर्णपद्मेषु निविष्टपङ्क्तीन् ।
गन्धोपलिप्तेषु च कुट्टिमेषु किरामि पुष्पप्रकरान् मनोज्ञान्

2.18

प्रलम्बमुक्तामणिहारशोभान् आभास्वरान् दिङ्मुखमण्डनांस्तान् ।
विमानमेघान् स्तुतिगीतरम्यान् मैत्रीमयेभ्यो ऽपि निवेदयामि

2.19

सुवर्णदण्डैः कमनीयरूपैः संसक्तमुक्तानि समुच्छ्रितानि ।
प्रधारयाम्येष महामुनीनां रत्नातपत्राण्यतिशोभनानि

2.20

अतः परं प्रतिष्ठन्तां पूजामेघा मनोरमाः ।
तूर्यसंगीतिमेघाश्च सर्वसत्त्वप्रहर्षणाः

2.21

सर्वसद्धर्मरत्नेषु चैत्येषु प्रतिमासु च ।
पुष्परत्नादिवर्षाश्च प्रवर्तन्तां निरन्तरम्

2.22

मञ्जुघोषप्रभृतयः पूजयन्ति यथा जिनान् ।
तथा तथागतान्नाथान् सपुत्रान् पूजयाम्यहम्

2.23

स्वराङ्गसागरैः स्तोत्रैः स्तौमि चाहं गुणोदधीन् ।
स्तुतिसंगीतिमेघाश्च संभवन्त्वेष्वनन्यथा

2.24

सर्वक्षेत्राणुसंख्यैश्च प्रणामैः प्रणमाम्यहम् ।
सर्वत्र्यध्वगतान् बुद्धान् सहधर्मगणोत्तमान्

2.25

सर्वचैत्यानि वन्दे ऽहं बोधिसत्त्वाश्रयांस्तथा ।
नमः करोम्युपाध्यायानभिवन्द्यान् यतींस्तथा

2.26

बुद्धं गच्छामि शरणं यावदा बोधिमण्डतः ।
धर्मं गच्छामि शरणं बोधिसत्त्वगणं तथा

2.27

विज्ञापयामि संबुद्धान् सर्वदिक्षु व्यवस्थितान् ।
महाकारुणिकांश्चापि बोधिसत्त्वान् कृताञ्जलिः

2.28

अनादिमति संसारे जन्मन्यत्रैव वा पुनः ।
यन्मया पशुना पापं कृतं कारितमेव वा

2.29

यच्चानुमोदितं किंचिदात्मघाताय मोहतः ।
तदत्ययं देशयामि पश्चात्तापेन तापितः

2.30

रत्नत्रये ऽपकारो यो मातपितृषु वा मया ।
गुरुष्वन्येषु वा क्षेपात् कायवाग्बुद्धिभिः कृतः

2.31

अनेकदोषदुष्टेन मया पापेन नायकाः ।
यत्कृतं दारुणं पापं तत्सर्वं देशयाम्यहम्

2.32

कथं च निःसराम्यस्मान्नित्योद्वेगोऽस्मि नायकाः ।
मा भून्मे मृत्युरचिरादक्षीणे पापसंचये

2.33

कथं च निःसराम्यस्मात् परित्रायत सत्वरम् ।
मा ममाक्षीणपापस्य मरणं शीघ्रमेष्यति

2.34

कृताकृतापरीक्षो ऽयं मृत्युर्विश्रम्भघातकः ।
स्वस्थास्वस्थैरविश्वास्य आकस्मिकमहाशनिः

2.35

प्रियाप्रियनिमित्तेन पापं कृतमनेकधा ।
सर्वमुत्सृज्य गन्तव्यमिति न ज्ञातमीदृशम्

2.36

अप्रिया न भविष्यन्ति प्रियो मे न भविष्यति ।
अहं च न भविष्यामि सर्वं च न भविष्यति

2.37

तत्तत्स्मरणतां याति यद्यद्वस्त्वनुभूयते ।
स्वप्नानुभूतवत्सर्वं गतं न पुनरीक्ष्यते

2.38

इहैव तिष्ठतस्तावद्गता नैके प्रियाप्रियाः ।
तन्निमित्तं तु यत्पापं तत्स्थितं घोरमग्रतः

2.39

एवमागन्तुको ऽस्मीति न मया प्रत्यवेक्षितम् ।
मोहानुनयविद्वेषैः कृतं पापमनेकधा

2.40

रात्रिंदिवमविश्राममायुषो वर्धते व्ययः ।
आयस्य चागमो नास्ति न मरिष्यामि किं न्वहम्

2.41

इह शय्यागतेनापि बन्धुमध्ये ऽपि तिष्ठता ।
मयैवेकेन सोढव्या मर्मच्छेदादिवेदना

2.42

यमदूतैर्गृहीतस्य कुतो बन्धुः कुतः सुहृत् ।
पुण्यमेकं तदा त्राणं मया तच्च न सेवितम्

2.43

अनित्यजीवितासङ्गादिदं भयमजानता ।
प्रमत्तेन मया नाथा बहु पापमुपार्जितम्

2.44

अङ्गच्छेदार्थमप्यद्य नीयमानो विशुष्यति ।
पिपासितो दीनदृष्टिरन्यदेवेक्षते जगत्

2.45

किं पुनर्भैरवाकारैर्यमदूतैरधिष्ठितः ।
महात्रासज्वरग्रस्तः पुरीषोत्सर्गवेष्टितः

2.46

कातरैर्दृष्टिपातैश्च त्राणान्वेषी चतुर्दिशम् ।
को मे महाभयादस्मात्साधुस्त्राणं भविष्यति

2.47

त्राणशून्या दिशो दृष्ट्वा पुनः संमोहमागतः ।
तदाहं किं करिष्यामि तस्मिन् स्थाने महाभये

2.48

अद्यैव शरणं यामि जगन्नाथान् महाबलान् ।
जगद्रक्षार्थमुद्युक्तान् सर्वत्रासहरान् जिनान्

2.49

तैश्चाप्यधिगतं धर्मं संसारभयनाशनम् ।
शरणं यामि भावेन बोधिसत्त्वगणं तथा

2.50

समन्तभद्रायात्मानं ददामि भयविह्वलः ।
पुनश्च मञ्जुघोषाय ददाम्यात्मानमात्मना

2.51

तं चावलोकितं नाथं कृपाव्याकुलचारिणम् ।
विरौम्यार्तरवं भीतः स मां रक्षतु पापिनम्

2.52

आर्यमाकाशगर्भं च क्षितिगर्भं च भावतः ।
सर्वान् महाकृपांश्चापि त्राणान्वेषी विरौम्यहम्

2.53

यं दृष्ट्वैव च संत्रस्ताः पलायन्ते चतुर्दिशम् ।
यमदूतादयो दुष्टास्तं नमस्यामि वज्रिणम्

2.54

अतीत्य युष्मद्वचनं सांप्रतं भयदर्शनात् ।
शरणं यामि वो भीतो भयं नाशयत द्रुतम्

2.55

इत्वरव्याधिभीतो ऽपि वैद्यवाक्यं न लङ्घयेत् ।
किमु व्याधिशतैर्ग्रस्तश्चतुर्भिश्चतुरुत्तरैः

2.56

एकेनापि यतः सर्वे जम्बुद्वीपगता नराः ।
नश्यन्ति येषां भैषज्यं सर्वदिक्षु न लभ्यते

2.57

तत्र सर्वज्ञवैद्यस्य सर्वशल्यापहारिणः ।
वाक्यमुल्लङ्घयामीति धिङ् मामत्यन्तमोहितम्

2.58

अत्यप्रमत्तस्तिष्ठामि प्रपातेष्वितरेष्वपि ।
किमु योजनसाहस्रे प्रपाते दीर्घकालिके

2.59

अद्यैव मरणं नैति न युक्ता मे सुखासिका ।
अवश्यमेति सा वेला न भविष्याम्यहं यदा

2.60

अभयं केन मे दत्तं निःसरिष्यामि वा कथम् ।
अवश्यं न भविष्यामि कस्मान्मे सुस्थितं मनः

2.61

पूर्वानुभूतनष्टेभ्यः किं मे सारमवस्थितम् ।
येषु मे ऽभिनिविष्टेन गुरूणां लङ्घितं वचः

2.62

जीवलोकमिमं त्यक्त्वा बन्धून् परिचितांस्तथा ।
एकाकी क्वापि यास्यामि किं मे सर्वैः प्रियाप्रियैः

2.63

इयमेव तु मे चिन्ता युक्ता रात्रिंदिवं तदा ।
अशुभान्नियतं दुःखं निःसरेयं ततः कथम्

2.64

मया बालेन मूढेन यत्किंचित्पापमाचितम् ।
प्रकृत्या यच्च सावद्यं प्रज्ञप्त्यावद्यमेव च

2.65

तत्सर्वं देशयाम्येष नाथानामग्रतः स्थितः ।
कृताञ्जलिर्दुःखभीतः प्रणिपत्य पुनः पुनः

2.66

अत्ययमत्ययत्वेन प्रतिगृह्णन्तु नायकाः ।
न भद्रकमिदं नाथा न कर्तव्यं पुनर्मया

मूल पाठ: Bodhicaryāvatāra · Edition: P. L. Vaidya: Bodhicaryavatara of Santideva. Darbhanga: Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc