भाषा

ENहिગુ
ग्रंथ पाठ

बोधिचर्यावतार (अन्य संस्करण) · अध्याय 1

1.1

शान्तिदेवविरचितः बोधिचर्यावतारः ।
॥ ओम् नमो बुद्धाय ॥
1 बोधिचित्तानुशंसो नाम प्रथमः परिच्छेदः ।
सुगतान् ससुतान् सधर्मकायान् प्रणिपत्यादरतो ऽखिलांश्च वन्द्यान् ।
सुगतात्मजसंवरावतारं कथयिष्यामि यथागमं समासात्

1.2

न हि किंचिदपूर्वमत्र वाच्यं न च संग्रथनकौशलं ममास्ति ।
अत एव न मे परार्थचिन्ता स्वमनो वासयितुं कृतं मयेदम्

1.3

मम तावदनेन याति वृद्धिं कुशलं भावयितुं प्रसादवेगः ।
अथ मत्समधातुरेव पश्येद् अपरो ऽप्येनमतो ऽपि सार्थको ऽयम्

1.4

क्षणसंपदियं सुदुर्लभा प्रतिलब्धा पुरुषार्थसाधनी ।
यदि नात्र विचिन्त्यते हितं पुनरप्येष समागमः कुतः

1.5

रात्रौ यथा मेघघनान्धकारे विद्युत् क्षणं दर्शयति प्रकाशम् ।
बुद्धानुभावेन तथा कदाचिल् लोकस्य पुण्येषु मतिः क्षणं स्यात्

1.6

तस्माच्छुभं दुर्बलमेव नित्यं बलं तु पापस्य महत्सुघोरम् ।
तज्जीयते ऽन्येन शुभेन केन संबोधिचित्तं यदि नाम न स्यात्

1.7

कल्पाननल्पान् प्रविचिन्तयद्भि र्दृष्टं मुनीन्द्रैर्हितमेतदेव ।
यतः सुखेनैव सुखं प्रवृद्धम् उत्प्लावयत्यप्रमिताञ्जनौघान्

1.8

भवदुःखशतानि तर्तुकामैरपि सत्त्वव्यसनानि हर्तुकामैः ।
बहुसौख्यशतानि भोक्तुकामैर् न विमोच्यं हि सदैव बोधिचित्तम्

1.9

भवचारकबन्धनो वराकः सुगतानां सुत उच्यते क्षणेन ।
सनरामरलोकवन्दनीयो भवति स्मोदित एव बोधिचित्ते

1.10

अशुचिप्रतिमामिमां गृहीत्वा जिनरत्नप्रतिमां करोत्यनर्घाम् ।
रसजातमतीव वेधनीयं सुदृढं गृह्णत बोधिचित्तसंज्ञम्

1.11

सुपरीक्षितमप्रमेयधीभिर् बहुमूल्यं जगदेकसार्थवाहैः ।
गतिपत्तनविप्रवासशीलाः सुदृढं गृह्णत बोधिचित्तरत्नम्

1.12

कदलीव फलं विहाय याति क्षयमन्यत् कुशलं हि सर्वमेव ।
सततं फलति क्षयं न याति प्रसवत्येव तु बोधिचित्तवृक्षः

1.13

कृत्वापि पापानि सुदारुणानि यदाश्रयादुत्तरति क्षणेन ।
शूराश्रयेणेव महाभयानि नाश्रीयते तत्कथमज्ञसत्त्वैः

1.14

युगान्तकालानलवन्महान्ति पापानि यन्निर्दहति क्षणेन ।
यस्यानुशंसानमितानुवाच मैत्रेयनाथः सुधनाय धीमान्

1.15

तद्बोधिचित्तं द्विविधं विज्ञातव्यं समासतः ।
बोधिप्रणिधिचित्तं च बोधिप्रस्थानमेव च

1.16

गन्तुकामस्य गन्तुश्च यथा भेदः प्रतीयते ।
तथा भेदो ऽनयोर्ज्ञेयो याथासंख्येन पण्डितैः

1.17

बोधिप्रणिधिचित्तस्य संसारे ऽपि फलं महत् ।
न त्वविच्छिन्नपुण्यत्वं यथा प्रस्थानचेतसः

1.18

यतः प्रभृत्यपर्यन्तसत्त्वधातुप्रमोक्षणे ।
समाददाति तच्चित्तमनिवर्त्येन चेतसा

1.19

ततःप्रभृति सुप्तस्य प्रमत्तस्याप्यनेकशः ।
अविच्छिन्नाः पुण्यधाराः प्रवर्तन्ते नभःसमाः

1.20

इदं सुबाहुपृच्छायां सोपपत्तिकमुक्तवान् ।
हीनाधिमुक्तिसत्त्वार्थं स्वयमेव तथागतः

1.21

शिरःशूलानि सत्त्वानां नाशयामीति चिन्तयन् ।
अप्रमेयेण पुण्येन गृह्यते स्म हिताशयः

1.22

किमुताप्रतिमं शूलमेकैकस्य जिहीर्षतः ।
अप्रमेयगुणं सत्त्वमेकैकं च चिकीर्षतः

1.23

कस्य मातुः पितुर्वापि हिताशंसेयमीदृशी ।
देवतानामृषीणां वा ब्रह्मणां वा भविष्यति

1.24

तेषामेव च सत्त्वानां स्वार्थे ऽप्येष मनोरथः ।
नोत्पन्नपूर्वः स्वप्ने ऽपि परार्थे संभवः कुतः

1.25

सत्त्वरत्नविशेषो ऽयमपूर्वो जायते कथम् ।
यत्परार्थाशयो ऽन्येषां न स्वार्थे ऽप्युपजायते

1.26

जगदानन्दबीजस्य जगद्दुःखौषधस्य च ।
चित्तरत्नस्य यत्पुण्यं तत्कथं हि प्रमीयताम्

1.27

हिताशंसनमात्रेण बुद्धपूजा विशिष्यते ।
किं पुनः सर्वसत्त्वानां सर्वसौख्यार्थमुद्यमात्

1.28

दुःखमेवाभिधावन्ति दुःखनिःसरणाशया ।
सुखेच्छयैव संमोहात् स्वसुखं घ्नन्ति शत्रुवत्

1.29

यस्तेषां सुखरङ्काणां पीडितानामनेकशः ।
तृप्तिं सर्वसुखैः कुर्यात्सर्वाः पीडाश्छिनत्ति च

1.30

नाशयत्यपि संमोहं साधुस्तेन समः कुतः ।
कुतो वा तादृशं मित्रं पुण्यं वा तादृशं कुतः

1.31

कृते यः प्रतिकुर्वीत सो ऽपि तावत्प्रशस्यते ।
अव्यापारितसाधुस्तु बोधिसत्त्वः किमुच्यताम्

1.32

कतिपयजनसत्त्रदायकः कुशलकृदित्यभिपूज्यते जनैः ।
क्षणमशनकमात्रदानतः सपरिभवं दिवसार्धयापनात्

1.33

किमु निरवधिसत्त्वसंख्यया निरवधिकालमनुप्रयच्छतः ।
गगनजनपरिक्षयाक्षयं सकलमनोरथसंप्रपूरणम्

1.34

इति सत्त्रपतौ जिनस्य पुत्रे कलुषं स्वे हृदये करोति यश्च ।
कलुषोदयसंख्यया स कल्पान् नरकेष्वावसतीति नाथ आह

1.35

अथ यस्य मनः प्रसादमेति प्रसवेत्तस्य ततो ऽधिकं फलम् ।
महता हि बलेन पापकं जिनपुत्रेषु शुभं त्वयत्नतः

1.36

तेषां शरीराणि नमस्करोमि यत्रोदितं तद्वरचित्तरत्नम् ।
यत्रापकारो ऽपि सुखानुबन्धी सुखाकरांस्तान् शरणं प्रयामि

मूल पाठ: Bodhicaryāvatāra · Edition: P. L. Vaidya: Bodhicaryavatara of Santideva. Darbhanga: Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc