बोधिचर्यावतार (अन्य संस्करण) · अध्याय 3
इति प्रज्ञाकरमतिविरचितायां बोधिचर्यावतारपञ्जिकायां पापदेशना नाम द्वितीयः परिच्छेदः ॥
3 बोधिचित्तपरिग्रहो नाम तृतीयः परिच्छेदः ।
अपायदुःखविश्रामं सर्वसत्त्वैः कृतं शुभम् ।
अनुमोदे प्रमोदेन सुखं तिष्ठन्तु दुःखिताः
संसारदुःखनिर्मोक्षमनुमोदे शरीरिणाम् ।
बोधिसत्त्वत्वबुद्धत्वमनुमोदे च तायिनाम्
चित्तोत्पादसमुद्रांश्च सर्वसत्त्वसुखावहान् ।
सर्वसत्त्वहिताधानाननुमोदे च शासिनाम्
सर्वासु दिक्षु संबुद्धान् प्रार्थयामि कृताञ्जलिः ।
धर्मप्रदीपं कुर्वन्तु मोहाद्दुःखप्रपातिनाम्
निर्वातुकामांश्च जिनान् याचयामि कृताञ्जलिः ।
कल्पाननन्तांस्तिष्ठन्तु मा भूदन्धमिदं जगत्
एवं सर्वमिदं कृत्वा यन्मयासादितं शुभम् ।
तेन स्यां सर्वसत्त्वानां सर्वदुःखप्रशान्तिकृत्
ग्लानानामस्मि भैषज्यं भवेयं वैद्य एव च ।
तदुपस्थायकश्चैव यावद्रोगापुनर्भवः
क्षुत्पिपासाव्यथां हन्यामन्नपानप्रवर्षणैः ।
दुर्भिक्षान्तरकल्पेषु भवेयं पानभोजनम्
दरिद्राणां च सत्त्वानां निधिः स्यामहमक्षयः ।
नानोपकरणाकारैरुपतिष्ठेयमग्रतः
आत्मभावांस्तथा भोगान् सर्वत्र्यध्वगतं शुभम् ।
निरपेक्षस्त्यजाम्येष सर्वसत्त्वार्थसिद्धये
सर्वत्यागश्च निर्वाणं निर्वाणार्थि च मे मनः ।
त्यक्तव्यं चेन्मया सर्वं वरं सत्त्वेषु दीयताम्
यश्चासुखीकृतश्चात्मा मयायं सर्वदेहिनाम् ।
घ्नन्तु निन्दन्तु वा नित्यमाकिरन्तु च पांसुभिः
क्रीडन्तु मम कायेन हसन्तु विलसन्तु च ।
दत्तस्तेभ्यो मया कायश्चिन्तया किं ममानया
कारयन्तु च कर्माणि यानि तेषां सुखावहम् ।
अनर्थः कस्यचिन्मा भून्मामालम्ब्य कदाचन
येषां क्रुद्धाप्रसन्ना वा मामालम्ब्य मतिर्भवेत् ।
तेषां स एव हेतुः स्यान्नित्यं सर्वार्थसिद्धये
अभ्याख्यास्यन्ति मां ये च ये चान्ये ऽप्यपकारिणः ।
उत्प्रासकास्तथान्ये ऽपि सर्वे स्युर्बोधिभागिनः
अनाथानामहं नाथः सार्थवाहश्च यायिनाम् ।
पारेप्सूनां च नौभूतः सेतुः संक्रम एव च
दीपार्थिनामहं दीपः शय्या शय्यार्थिनामहम् ।
दासार्थिनामहं दासो भवेयं सर्वदेहिनाम्
चिन्तामणिर्भद्रघटः सिद्धविद्या महौषधिः ।
भवेयं कल्पवृक्षश्च कामधेनुश्च देहिनाम्
पृथिव्यादीनि भूतानि निःशेषाकाशवासिनाम् ।
सत्त्वानामप्रमेयाणां यथाभोगान्यनेकधा
एवमाकाशनिष्ठस्य सत्त्वधातोरनेकधा ।
भवेयमुपजीव्यो ऽहं यावत्सर्वे न निर्वृताः
यथा गृहीतं सुगतैर्बोधिचित्तं पुरातनैः ।
ते बोधिसत्त्वशिक्षायामानुपूर्व्या यथा स्थिताः
तद्वदुत्पादयाम्येष बोधिचित्तं जगद्धिते ।
तद्वदेव च ताः शिक्षाः शिक्षिष्यामि यथाक्रमम्
एवं गृहीत्वा मतिमान् बोधिचित्तं प्रसादतः ।
पुनः पृष्टस्य पुष्ट्यर्थं चित्तमेवं प्रहर्षयेत्
अद्य मे सफलं जन्म सुलब्धो मानुषो भवः ।
अद्य बुद्धकुले जातो बुद्धपुत्रो ऽस्मि सांप्रतम्
तथाधुना मया कार्यं स्वकुलोचितकारिणाम् ।
निर्मलस्य कुलस्यास्य कलङ्को न भवेद्यथा
अन्धः संकारकूटेभ्यो यथा रत्नमवाप्नुयात् ।
तथा कथंचिदप्येतद् बोधिचित्तं ममोदितम्
जगन्मृत्युविनाशाय जातमेतद्रसायनम् ।
जगद्दारिद्र्यशमनं निधानमिदमक्षयम्
जगद्व्याधिप्रशमनं भैषज्यमिदमुत्तमम् ।
भवाध्वभ्रमणश्रान्तजगद्विश्रामपादपः
दुर्गत्युत्तरणे सेतुः सामान्यः सर्वयायिनाम् ।
जगत्क्लेशोपशमन उदितश्चित्तचन्द्रमाः
जगदज्ञानतिमिरप्रोत्सारणमहारविः ।
सद्धर्मक्षीरमथनान्नवनीतं समुत्थितम्
सुखभोगबुभुक्षितस्य वा जनसार्थस्य भवाध्वचारिणः ।
सुखसत्रमिदं ह्युपस्थितं सकलाभ्यागतसत्त्वतर्पणम्
जगदद्य निमन्त्रितं मया सुगतत्वेन सुखेन चान्तरा ।
पुरतः खलु सर्वतायिनामभिनन्दन्तु सुरासुरादयः
मूल पाठ: Bodhicaryāvatāra · Edition: P. L. Vaidya: Bodhicaryavatara of Santideva. Darbhanga: Mithila Institute, 1960. (Buddhist Sanskrit Texts, 12) · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0