बोधसार · अध्याय 50
[प्. 855-]
शिवपूजाशतकम्
शिवपूजात्मकं कर्म कर्मनिर्मूलनक्षमम् ।
सङ्कल्पः शिवपूजायाः सर्वसङ्कल्पदुःखहृत्
शिवपञ्चाक्षरी दीक्षा शब्दब्रह्ममयी हिता ।
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
तिस्रो रेखा विभूतेस्तु श्रद्धाभक्तिविरक्तयः ।
पूजाधिकारसिद्धर्थं धार्याः स्वाङ्गेषु शाम्भवैः
रुद्राभरणमुद्रास्तु धार्या रुद्राक्षमालिकाः ।
देवो भूत्वा यजेद्देवमितीयं शाश्वती श्रुतिः
अथ पूजाक्रमः ।
आकाराः कल्पिता यस्यां ब्रह्माद्याः स्थिरजङ्गमाः ।
तन्मृतिकामयं शैवैः शिवलिङ्गं प्रपूज्यते
तत्र प्रथमं हराय नम इति मृत्तिकाग्रहणम् ।
मृत्सत्या यच्छरावास्तु श्रुता ब्रह्माण्डकोटयः ।
हराय नम इत्येव ग्राह्या सा मृत्तिका बुधैः
महेश्वराय नम इति लिङ्गसङ्घट्टनम् ।
अखण्डाकारवृत्तिस्तु वेदान्ते या निरूपिता ।
नमो महेश्वरायेति लिङ्गसङ्घट्टनं हि तत्
शुलपाणये नम इति प्रतिष्ठापनम् ।
त्यक्त्वाऽसम्भावनां तद्वद्विपरीतत्वभावनाम् ।
शुलपाणिः प्रतिष्ठाप्यः पीठे निष्ठामये बुधैः
पिनाकधृते नम इत्यावाहनम् ।
सर्वगस्यापि देवस्य भक्तिरावाहनं तव ।
आवाहयामि भक्त्या त्वामित्यावाह्यः पिनाकधृत्
अथ ध्यानम् ।
ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम्
अथाऽस्य विवरणम् ।
तत्र ध्यायेदित्यादिपदत्रयस्य विवरणम् ।
अनित्ये नित्यं विरसा नित्ये नित्यं धृतव्रताः ।
नित्यं महेशं ध्यायन्ति नित्यानित्यविवेकिनः
अथ रजतगिरिनिभमित्यस्य विवरणम् ।
रजतस्य गिरिः शंभुः शाम्भवानां परं धनम् ।
धनेन तेन पूर्णानां दरिद्रत्वं न विद्यते
अथ चारुचन्द्रावतंसमित्यस्य विवरणम् ।
शुद्धात्मा शीतला कान्ता सूक्ष्मा बोधकला परा ।
वक्रायते दुरापेयं चन्द्रचूडो विभर्ति ताम्
अथ रत्नाकल्पोज्ज्वलाङ्गमित्यस्य विवरणम् ।
योगदीक्षामयान्येव बोधरत्नानि कानिचित् ।
दधाति शंकरोऽतोऽस्य रत्नाकल्पोज्ज्वलाङ्गता
अथ परशुहस्तपदविवरणम् ।
येन मोहवनं छिन्नं कदाचिन्न प्ररोहति ।
स बोधः परशुस्तीक्ष्णो हस्ते रुद्रस्य वर्त्तते
अथ मृगहस्तपदविवरणम् ।
धर्तुं न शक्यते धीरैर्यो धृतोऽपि पलायते ।
लीलयैव धृतो हस्ते शम्भुना स मनोमृगः
अथ वरहस्तत्वविवरणम् ।
वरार्थिभिर्वरेण्याय वृतो यैस्तु वरः स तम् ।
वरं ददाति हस्तेन वरदस्तेन शंकरः
अथाऽभीतिहस्तत्वविवरणम् ।
मृत्योर्बिभेति ब्रह्माऽपि मृत्युरेव भयं महत् ।
तस्मादमृत्युरभयं हस्ते मृत्युञ्जयस्य तत्
अथ प्रसन्नमित्यस्य विवरणम् ।
सिद्धिमेकामपि प्राप्य कश्चिदन्तः प्रसीदति ।
निधानं सर्वसिद्धीनां प्रसन्नः सर्वदा हरः
अथ पद्मासीनमित्यस्य विवरणम् ।
सतां हृदयपद्मेषु यदासीनः सदाशिवः ।
अत एव हि वेदेषु पद्मासीन इतीरितः
अथ समन्तात्स्तुतममरगणैरित्यस्य विवरणम् ।
स्तुवन्ति देवान्मनुजास्ते देवा देवनायकान् ।
देवदेवो महादेवः स्तूयते देवनायकैः
अथ व्याघ्रकृत्तिं वसानमित्यस्य विवरणम् ।
शङ्करेण किरातेन मोहव्याघ्रो निपातितः ।
कटौ कृत्तिस्वरूपेण पश्य तस्य निदर्शनम्
अथ विश्वाद्यं विश्ववन्द्यमित्यस्य विवरणम् ।
विश्वकृद्विश्वरूपोऽसौ विश्वहृद्विश्वपालकः ।
विश्वाद्यो विश्ववन्द्यश्च विश्वेशो गिरिजापतिः
अथ निखिलभयहरमित्यस्य विवरणम् ।
श्रुतिर्भयमिति प्राह द्वितीयाद्वै भयं भवेत् ।
हरो हरति भक्तानां मुक्तिदो निखिलं भयम्
अथ पञ्चवक्त्रमित्यस्य विवरणम् ।
ध्यायन्ति भक्ताः सर्वत्र सर्वेषामपि सन्मुखः ।
उन्मुखो विमुखानां यस्तस्य सा पञ्चवक्त्रता
अथ त्रिनेत्रमित्यस्य विवरणम् ।
कर्मोपास्ती उभे नेत्रे ज्ञानं नेत्रं तृतीयकम् ।
ललाटे राजते यस्य त्रिनेत्रस्तेन शङ्करः
इति ध्यानम् ।
अथोपकरणविचारः ।
तत्रादौ शुद्धस्फटिकसङ्काशताविचारः ।
निर्मले सर्वमेवेदं यदस्मिन्प्रतिबिम्बति ।
शुद्धस्फटिकसङ्काशो नीरागः सोऽयमीश्वरः
अथ कर्पूरगौरताविचारः ।
यद्वासनाप्रसादेन सर्वा दुर्वासना गता ।
स्वभावशीतला सेयं शिवे कर्पूरगौरता
अथ दिगम्बरताविचारः ।
निरावरणविज्ञानस्वरूपो हि स्वयं हरः ।
स्वैरं चरति संसारे तेन प्रोक्तो दिगम्बरः
अथ भस्मोद्धूलनविचारः ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते किल ।
तेनैव भस्मना गात्रमुद्धूलयति धूर्जटिः
भासते भिन्नभावानामपि भेदो न भस्मनि ।
स्वस्वभावस्वभावेन भस्म भर्गस्य वल्लभम्
अथ चन्द्रचूडताविचारः ।
नश्यन्त्यस्य कलाः सर्वाः सा कला नैव नश्यति ।
याऽर्पिता शङ्करे भक्त्या चन्द्रचूडस्तया हरः
अथ जटाजूटविचारः ।
विश्रामोऽयं मुनीन्द्राणां पुरातनवटो हरः ।
वेदान्तसाङ्ख्ययोगाख्यास्तिस्रस्तज्जटयः स्मृताः
अथ गङ्गाधरत्वविचारः ।
ब्रह्मलोका च या गङ्गा सुषुम्णा शीतलद्रवा ।
मस्तके राजते यस्य तेन गङ्गाधरो हरः
अथ त्रिनेत्रताविचारः ।
आप्यायनस्तमोहन्ता विद्यया दोषदाहकृत् ।
सोमसूर्याग्निनयनस्त्रिनेत्रस्तेन शङ्करः
अथ नीलकण्ठताविचारः ।
कण्ठे ब्रह्माण्डनभसां गिलितानामनेकधा ।
छाया स्फटिकसङ्काशे नीलकण्ठत्वकारणम्
यद्ब्रह्माण्डशरीरस्य श्यामलं पार्वतीपतेः ।
कण्ठदेशे स्थितं व्योम नीलकण्ठस्ततो हरः
शङ्करेणाभ्रशुभ्रेण यद्विषाम्बु दयालुना ।
कण्ठे धृतमतः कण्ठे नवाम्बुधरसुन्दरः
शुद्धस्फटिकसङ्काशः स्थितोऽयं मन्दराचले ।
इन्द्रनीलाचलच्छाया नीलकण्ठत्वकारणम्
रामोऽस्य परमो भक्तः शङ्करो भक्तवत्सलः ।
रामरत्नं धृतं कण्ठे नीलकण्ठत्वकारणम्
अथ भुजङ्गभूषणताविचारः ।
योगिनः पवनाहारास्तथा गिरिबिले शयाः ।
निजरूपे धृतास्तेन भुजङ्गाभरणो हरः
काचित्कुण्डलिनी शक्तिः शङ्करेण वशीकृता ।
कुण्डलिन्या कुण्डलिनो देहाभरणतां गताः
अनन्तवासुकी शम्भोः कर्णकुण्डलतां गतौ ।
तत्प्रधानतयाऽन्येपि ख्याताः कुण्डलिसंज्ञया
अथ त्रिशूलविचारः ।
शान्तिवैराग्यबोधाख्यैस्त्रिभिरग्रैस्तरस्विभिः ।
त्रिगुणत्रिपुरं हन्ति त्रिशूलेन त्रिलोचनः
अथ डमरुविचारः ।
टण्टङ्कारच्छलेनासौ शैवानां मुक्तिहेतवे ।
नेति नेति मुहुः प्राह डमरुः शाम्भवो हि सः
अथ मुण्डमालाविचारः ।
अनन्तमृतब्रह्माण्डमुण्डमालाविधारणे ।
अनाद्यनन्तरूपत्वात्समर्थः शिव एव हि
अथ वृषवाहनविचारः ।
ब्रह्माद्या यत्र नारूढास्तमारोहति शङ्करः ।
समाधिं धर्ममेघाख्यं तेनायं वृषवाहनः
अथ कैलासविचारः ।
कैवल्ये लसते रुद्रस्तद्भक्ता अपि सर्वदा ।
तत्कैवल्यविलासेन कैलासं शम्भुमन्दिरम्
अथ मन्दरविचारः ।
मथितो मुक्तिरत्नार्थं येनायं भवसागरः ।
स बोधो मन्दरो नाम मन्दिरं शङ्करस्य तत्
अथ श्मशानविचारः ।
नित्यं क्रीडति यत्रायं स्वयं संहारभैरवः ।
तत्र श्मशाने संसारे शिवः सर्वत्र दृश्यते
अथ गणविचारः ।
आनन्दसागरः शम्भुस्तच्छक्तिर्द्रव उच्यते ।
शीकरा इव सामुद्रास्तदानन्दकणा गणाः
जगद्विलक्षणः स्वामी स्वरूपाकृतिलक्षणैः ।
जगद्विलक्षणा एव गणास्तस्य किमद्भुतम्
अथ योगिनीगणविचारः ।
यैव यैव मनोवृत्तिर्योगाभ्यासेन योगिनाम् ।
सा समीपं गता शम्भोः सैवायं योगिनीगणः
सखायः शङ्करस्यैते योगिनीभैरवादयः ।
जीवन्मुक्ता जडैरुक्ता भूतप्रेतपिशाचकाः
अथ कालभैरवविचारः ।
विवर्त्तितजगज्जालः कालोऽस्य द्वारपालकः ।
कालाद्बिभेति यद्विश्वं स गणः कालभैरवः
अथ दण्डपाणिविचारः ।
मनसो दण्डनेनैव दण्डपाणिर्गणो भवेत् ।
तादृशा एव देवस्य गणत्वमुपयान्ति हि
अथ क्षेत्रपालविचारः ।
परमात्मा स्वयं शम्भुस्तदंशाः क्षेत्रपालकाः ।
अंशांशिभावभेदेन क्षेत्रपालैर्वृतो हरः
अथ नन्दिगणविचारः ।
यस्योपरि स्फुरद्रूपो दृश्यते परमेश्वरः ।
स बोधः शुद्धभावात्मा गीयते नन्दिकेश्वरः
अथ भृङ्गिविचारः ।
यः कीटभृङ्गभावेन भक्तः सारूप्यमागतः ।
स एव खण्डपरशोर्भृङ्गिनामा गणः किल
अथ महाकालविचारः ।
कालेन भक्षितं विश्वं कालो बोधेन भक्षितः ।
बोधात्मा कालकालोऽयं महाकालो परो गणः
अथ स्कन्दविचारः ।
बोधस्वसेनया येन मोहस्य स्कन्दनं कृतम् ।
स बुद्धिमान्महासेनः स्कन्दो नाम शिवात्मजः
अथ गणेशविचारः ।
सुतोऽन्यो विघ्नराशिघ्नः सर्वविद्याविशारदः ।
आनन्दतुन्दिलः साक्षात्सिद्धिदाता गणेश्वरः
अथ शिवरात्रिविचारः ।
या निशा सर्वभूतानां तस्यां जागर्त्ति संयमी ।
जागर्त्ति शिवरात्रौ यः शिवस्तस्मिन्प्रसीदति
पञ्चकर्मेन्द्रियाण्येव पञ्चज्ञानेन्द्रियाणि च ।
मनोऽहंकृतिचित्तानि त्रीणि बुद्धिश्चतुर्दशी
इयं तु शाम्भवैः प्रोक्ता शिवरात्रिचतुर्दशी ।
निराहारतया तत्र वृत्तिरोधी भवेद्बुधः
शिवभक्तैः कृता पूर्वं शिवस्यात्यन्तवल्लभा ।
शिवरात्रिरियं पुत्र शिवसायुज्यदायिनी
निशीथ एव मध्याह्नो रात्रिरेव दिनं विभोः ।
न यत्र किञ्चित्काशेत स प्रकाशस्तु शाम्भवः
अथ शिवताण्डवविचारः ।
यस्यानन्दलयेनैव नन्दिता नारदादयः ।
तदानन्दविनोदाख्यं शाम्भवं विद्धि ताण्डवम्
अथ स्मरहरत्वविचारः ।
हृते स्मरे हृता एव षडप्येते स्मरादयः ।
स्मरादिहरणादेव देवः स्मरहरो हरः
अथ गौरीविचारः ।
सा स्वभावेन वामैव मनोवाचामगोचरा ।
वामाङ्गी वामदेवस्य वामे गौरी विराजते
सा ब्रह्मवादिनां श्रेष्ठा भवानी ब्रह्मवादिनी ।
या कटाक्षेण सर्वत्र शिवाख्यं ब्रह्म वीक्षते
मम प्रियो मम स्वामी ममाऽऽत्त्मा मे गृहेश्वरः ।
इति यस्याः शिवे भावः सा धन्या शैलकन्यका
स ईक्षितः स आश्लिष्टः स भुक्तः स च पूजितः ।
स एव हृदये ध्यातः पार्वत्या परमेश्वरः
शिवं भजति भावेन पातिव्रत्येन पार्वती ।
अतः सौभाग्यमेतस्या लोके वेदे च गीयते
योगेश्वराणां योगोऽयं भुज्यते यन्महेश्वरः ।
तेन योगेन सम्पन्ना भवानी दिव्ययोगिनी
नित्यं नृत्यति पार्वत्याः पुरतः परमेश्वरः ।
यदन्तस्तादृशं प्रेम तदग्रे किं न नृत्यतु
एकात्मभावसम्पन्नौ स्थितौ भिन्नात्मकाविव ।
भवानीशङ्करौ वन्दे ब्रह्मविद्ब्रह्मणी यथा
प्रकारद्वितयेनापि पार्वती स्तुतिमर्हति ।
यदस्याः शङ्करे प्रेम यदस्यां प्रेम शाङ्करम्
पूजनीया विशेषेण शङ्करादपि पार्वती ।
साक्षादानन्दरूपो यस्तस्याप्यानन्दवर्धिनी
परब्रह्मस्वरूपैव पार्वती नात्र संशयः ।
यदस्यां प्रचुरप्रेमा ब्रह्मज्ञानी सदाशिवः
मन्दारास्तरवो वनेषु परिखातोयं सुधासागरो द्वारेप्यष्टविभूतयो निधिगणैरन्तःपुरे पार्वती ।
शूलं शस्त्रवरं वृषः प्रियसखा नारः कपालः करे ग्रैवेयं गरलं भुजेषु भुजगा भस्माङ्गरागे रुचिः
चन्द्रादित्यशतप्रकाशजयिनी चन्द्रावतंसोज्ज्वला गङ्गागर्भजटाधरा त्रिनयना गङ्गाम्बुवन्निर्मला ।
वामे भूधरकन्यका सहचरी भूत्या सदाऽ; लंकृता स्वानन्दा शितिकण्ठिनी पुरभिदो मूर्त्तिः पुरः स्फूर्जति
इति सोपकरणं ध्यानम्
पशुपतये नमः स्नानम् ।
पशुत्ववासना त्याज्या ज्ञानगङ्गाम्बुधारया ।
पवित्रया शीतलया स्नाप्यः पशुपतिः शिवः
शिवाय नम इति पूजनम् ।
शिवो देवः शिवो जीवः शिवादन्यन्न विद्यते ।
एवं शिवे प्रकर्त्तव्यं भक्त्या चन्दनलेपनम्
अथाक्षताः ।
भजनादक्षता भक्ता देवस्तु स्वयमक्षतः ।
अतस्त्वक्षतया भक्त्या पूजनीयः शिवोऽक्षतैः
अथार्कपुष्पविचारः ।
अर्कः पाशुपतो नाम देवः पाशुपतप्रियः ।
अतः पाशुपतार्कस्य पुष्पं पशुपतेः प्रियम्
कटुपत्रस्तरुः कोऽ; पि भक्तेन गिरिशेऽर्पितः ।
प्रकाशकस्तमोहन्ता स एवार्कत्वमागतः
पुष्पं कटुदलस्यास्य शाम्भवेन निवेदितम् ।
शम्भुना स्वीकृतं तेन सा जाता शिवमल्लिका
अथ धत्तूरनिर्णयः ।
ईश्वरस्य प्रसादेन भासतेऽन्यादृशं जगत् ।
स्वसमानगुणत्वेन धत्तूरः शिववल्लभः
उन्मन्या स्वयमुन्मत्त उन्मादयति शाम्भवान् ।
अत एव प्रियं शम्भोः पुष्पमुन्मत्तसम्भवम्
कैतवं कितवस्यास्य सर्वगोऽयं न लिप्यते ।
अतः कितवधूर्त्तस्य कैतवं कुसुमं प्रियम्
कामादयो महाधूर्त्ता धूर्तितं यैर्जगत्त्रयम् ।
तान्धूर्तयति यो युक्त्या स धूर्तो धूर्जटिप्रियः
अर्पितं शङ्करे धूर्त्तपत्रं कनकपुण्यदम् ।
अनेन हेतुना जातो धत्तूरः कनकाह्वयः
अथ कण्टकारिकानिर्णयः ।
भक्त्या भक्तेन चेद् वृत्तिर्मनसः शङ्करेऽर्पिता ।
सकण्टकस्वभावापि जाता साऽकण्टकारिका
अथ बिल्वविचारः ।
शिवभक्तिस्वभावेन शाण्डिल्यो हि महामुनिः ।
तन्नाम्नैव प्रियं शम्भोः पत्रं शाण्डिल्यसम्भवम्
विश्वरूपो महादेवः स्वयं शैलूषलक्षणः ।
अतः शैलूषपत्राणां पूजया स प्रसीदति
जन्मनस्तु फलं श्रीमद्बिल्वपत्रार्पणाच्छिवे ।
अतो निरूपितो वृक्षो बिल्वः श्रीफलसंज्ञया
धूपप्रदीपनैवेद्यफलताम्बूलदक्षिणाः ।
शिवाय नम इत्येव सर्वमेवास्य पूजनम्
विद्यासु श्रुतिरुत्कृष्टा रुद्रैकादशिनी श्रुतौ ।
तत्र पञ्चाक्षरी श्रेष्ठा सा जप्या शिवतुष्टये
द्रष्टा च दर्शनं दृश्यमिति पत्रत्रयान्विता ।
शिवे समर्प्या चिद्रूपे प्रथमा बिल्वपत्रिका
कर्त्ता कार्यं च करणमिति पत्रत्रयान्विता ।
शिवे समर्प्या चिद्रूपे द्वितीया बिल्वपत्रिका
भोक्ता च भोजनं भोज्यमिति पत्रत्रयात्मिका ।
शिवे समर्प्या चिद्रूपे तृतीया बिल्वपत्रिका
भूर्भुवश्च तथा स्वर्ग इति पत्रत्रयात्मिका ।
शिवे समर्प्या चिद्रूपे चतुर्थी बिल्वपत्रिका
जाग्रत्स्वप्नस्तथा सुप्तिरिति पत्रत्रयान्विना ।
शिवे समर्प्या चिद्रूपे पञ्चमी बिल्वपत्रिका
स्थूलं सूक्ष्मं कारणाख्यमिति पत्रत्रयान्विता ।
शिवे समर्प्या चिद्रूपे षष्ठिका बिल्वपत्रिका
अविद्या संसृतिर्जीव इति पत्रत्रयान्विता ।
शिवे समर्प्या चिद्रूपे सप्तमी बिल्वपत्रिका
उत्पत्तिश्च स्थितिर्नाश इति पत्रत्रयान्विता ।
शिवे समर्प्या चिद्रूपे ह्यष्टमी बिल्वपत्रिका
ब्रह्मा विष्णुस्तथा रुद्र इति पत्रत्रयान्विता ।
शिवे समर्प्या चिद्रूपे नवमी बिल्वपत्रिका
तमो रजस्तथा सत्त्वमिति पत्रत्रयान्विता ।
शिवे समर्प्या चिद्रूपे दशमी बिल्वपत्रिका
त्वन्ताऽहन्ता तथेदंत्वमिति पत्रत्रयान्विता ।
शिवे समर्प्या चिद्रूपे रुद्राख्या बिल्वपत्रिका
एकादशैताः कथिताः शाम्भवाः बिल्वपत्रिकाः ।
एताभिरर्चितः शम्भुः सद्यो मुक्तिं प्रयच्छति
अथाष्टमूर्तिपूजनम् ।
शर्वो भवो रुद्र उग्रो भीमः पशुपतिस्तथा ।
महादेवस्तथेशान इति मूर्तिप्रपूजनम्
अष्टौ प्रकृतिरूपाणि कष्टान्यष्टैव देहिनः ।
स्पष्टं मूर्तिभिरष्टाभिरष्टमूर्तिर्हरत्यसौ
अथ प्रदक्षिणनिर्णयः ।
अपर्यन्तो महादेवस्तस्य कल्पशतैरपि ।
न स्यात्प्रदक्षिणं तेन शिवस्यार्धं प्रदक्षिणम्
अथ गल्लवाद्यविचारः ।
यथा स्वरूपं देवस्य तथा वक्तुं न शक्यते ।
स्तुतिर्वा गल्लवाद्यं वा तेन शम्भोर्द्वयं समम्
अथ नमस्कारविचारः ।
प्रेमनिर्भरभावेन दण्डवत्पतितैर्भुवि ।
महादेवो नमस्कार्यो गलितत्वादहङ्कृतेः
अथ क्षमापनम् ।
मानुष्यमपि संप्राप्य पूजितो न महेश्वरः ।
अपराधो महाञ्जातः क्षमस्वेति मुहुर्वदेत्
अथ विसर्जननिर्णयः
ज्ञत्वकर्तृत्वभोक्तृत्वजीवत्वादिविसर्जनम् ।
एतस्यां शिवपूजायामेतदेव विसर्जनम्
आज्ञाकरत्वमायाति पुरुषार्थचतुष्टयी ।
यतोऽस्याः शिवपूजाया महिमा केन वर्ण्यताम्
तत्त्वतो यः शिवं वेद स वेद शिवपूजनम् ।
कस्तत्त्वतः शिवं वेद को वेद शिवपूजनम्
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0