बोधसार · अध्याय 51
[प्. 956-]
बोधसारप्रशंसा
आदौ गुरुस्तवो यत्र प्रान्ते च शिवपूजनम् ।
मध्ये मुकुन्दस्मरणं बोधसारः स उत्तमः
सिद्धार्थः सुगमार्थश्च विशेषैर्बहुभिर्वृतः ।
ग्रन्थस्त्वेताद्दृशस्तात न भूतो न भविष्यति
न स्तोमि न च निन्दामि कथयामि यथास्थितम् ।
एकैकस्मिन्निह श्लोके प्रोक्तः सिद्धान्तनिर्णयः
यथा ब्रह्माण्डसर्वस्वं पिण्डे पिण्डे निरूपितम् ।
तथा सिद्धान्तसर्वस्वं श्लोके श्लोके निरूपितम्
अविद्योन्मूलकुद्दालस्त्वविद्यादावपावकः ।
अविद्यामृगशार्दूलस्त्वविद्यागजकेसरी
अविद्याजीवगरलमविद्याकण्ठकृच्छुरी ।
अविद्यालवणस्याऽऽप अविद्याप्रलयार्णवः
अविद्याशैलदम्भोलिरविद्याऽन्धकशङ्करः ।
अविद्याकंसगोविन्दस्त्वविद्याचण्डचण्डिका
अविद्यादाहशीतांशुरविद्याध्वान्तभास्करः ।
तथैव बोधसारोऽयमविद्यास्वप्नजागरः
मूल पाठ: Bodhasāra · Edition: Swâmî Dayânand [Dayānanda Svāmī]: Bodhasâr [Bodhasāraḥ], A Treatise on Vedânta, With a Commentary by the Author's Pupil, Paṇḍit Divâkar. Benares : Chowkhamba Sanskrit Book Depot 1905 (Benares Sanskrit series, 23) [commentary not included]. · Data entry Jennifer Cover · GRETIL (Göttingen) · CC BY-NC-SA 4.0